पूर्वम्: ४।१।७१
अनन्तरम्: ४।१।७३
 
सूत्रम्
संज्ञायाम्॥ ४।१।७२
काशिका-वृत्तिः
संज्ञायाम् ४।१।७२

कद्रुकमण्डलुशब्दाभ्यां संज्ञायां विषये स्त्रियाम् ऊङ् प्रत्ययो भवति। अच्छन्दोर्थं वचनम्। कद्रूः। कमण्डलूः। संज्ञायाम् इति किम्? कद्रुः। कमण्डलुः।
न्यासः
संज्ञायाम्। , ४।१।७२

बाल-मनोरमा
संज्ञायाम् ५१९, ४।१।७२

संज्ञायाम्। कद्रुकमण्जल्वोरिति ऊङिति चानुवर्तते, स्त्रियामित्यधिकृतम्। तदाह--कद्रकमणाडल्वोरित्यादि। अच्छन्दोऽर्थमिति। पूर्वसूत्रे छन्दसीत्युक्तत्वाल्लोके संज्ञायामप्राप्तावयमारम्भः। कद्रूरिति। नागानां मातुः संज्ञा। एतच्च महाभारतादौ स्पष्टम्। कमण्डलूरिति। कस्यचिन्मृगस्य संज्ञा। अत एव "चतुष्पाद्भ्यो ढ"ञित्यत्र कामम्जलेय इत्युदाहरिष्यते। पात्रपर्यायस्तु नोदाहरणं, तस्य स्त्रीलिङ्गत्वाऽभावात्।

तत्त्व-बोधिनी
संज्ञायाम् ४६८, ४।१।७२

कमण्डलुरिति। चतुष्पाज्जातिवाचतोऽयम्। अतएव "चतुष्पाभ्द्यो ढञ्ित्यत्र "कामण्डवेय"इत्युदाहरिष्यति। पात्रपर्यायस्तु न प्रत्युदाहरणं, तस्य स्त्रीलिङ्गत्वाऽभावात्। अच्छन्दोर्थमिति। वेदे तु "कद्रुकमण्()डल्वोश्छन्दसी"त्यनेन संज्ञायामलसंज्ञायां चोङ् सिध्यतीति भावः। अञो योऽकार इति। अञा अकारविशेषणं किम्()। शूरसेनी। "जनपदशब्दा"दित्यञः "अतश्चे"ति लुकि जातिलक्षणोऽत्र ङीष्।