पूर्वम्: ४।१।८१
अनन्तरम्: ४।१।८३
 
प्रथमावृत्तिः

सूत्रम्॥ समर्थानां प्रथमाद्वा॥ ४।१।८२

पदच्छेदः॥ समर्थानाम् ६।३ प्रथमात् ५।१ वा

अर्थः॥

समर्थानाम् इति अत्र निर्द्धारणे (२।३।४१) षष्ठी॥
अधिकारोऽयम्, {प्राग्दिशो विभक्तिरिति (५।३।१)} यावत्। इतोऽग्रे वक्ष्यमाणाः तद्धिताः समर्थानां मध्ये यः प्रथमः (सूत्रे प्रथमोच्चारितः) प्रकृतिः तस्मात् विकल्पेन भवन्ति॥ यथा - उपगोः अपत्यं औपगवः, अत्रोपगुरपि समर्थप्रकृतिः, अपत्यमपि, परं प्रथमप्रकृतिः तु उपगुरेव, अतः सैव प्रत्ययम् उत्पादयति न तु अपत्यम्, समर्थानां ग्रहणेन इह न भवति - कम्बलमुपगोः, अपत्यं देवदत्तस्य। अत्रोपगोः प्रकृतेः सामर्थ्यं कम्बलं प्रति वर्त्तते, नापत्यं प्रति, अतः सामर्थ्याभावात् उपगोः प्रातिपदिकात् अपत्ये प्रत्ययः न उत्पद्यते।
काशिका-वृत्तिः
समर्थानां प्रथमाद् वा ४।१।८२

त्रयम् अप्यधिक्रियते समर्थानाम् इति च, प्रथमादिति च, वा इति च। स्वार्थिकप्रत्ययावधिश्चायम् अधिकारः, प्राग्दिशो विभक्तिः ५।३।१ इति वावत्। स्वार्थिकेषु ह्यस्य उपयोगो न अस्ति, विकल्पो ऽपि तत्र अनवस्थितः। केचिन् नित्यम् एव भवन्ति। लक्षणवाक्यानि तस्य अपत्यम् ४।१।९२, तेन रक्तं रागात् ४।२।१ तत्र भवः ४।३।५३ इत्येवम् आदीनि भविष्यन्ति। तेषु सामर्थ्ये सति प्रथमनिर्दिष्टादेव विकल्पेन प्रत्ययो भवति इति वेदितव्यम्। समर्थानाम् इति विर्धारणे षष्ठी। समर्थानां मद्ये प्रथमः प्रत्ययप्रकृतित्वेन निर्धार्यते। तस्य इति सामान्यं विशेषलक्षणार्थम्। तदीयं प्राथम्यं विशेषाणां विज्ञायते। उपगोः अपत्यम् औपगवः। समर्थानाम् इति किम्? कम्बल उपगोः, अपत्यं देवदत्तस्य। प्रथमातिति किम्? षष्ठ्यान्ताद् यथा स्यात्, प्रथमान्तान् मा भूत्। वा इति किम्? वाक्यम् अपि यथा स्यातुपगोरपत्यम् इति। यद्येवं समासवृत्तिः तद्धितवृत्त्या बाध्येत उपग्वपत्यम् इति। न एष दोषः। पूर्वसूत्रादन्यतरस्यां ग्रहणम् अनुवर्तते। तेन एतदपि भविष्यति।
लघु-सिद्धान्त-कौमुदी
समर्थानां प्रथमाद्वा १०००, ४।१।८२

इदं पदत्रयमधिक्रियते प्राग्दिश इति यावत्॥
न्यासः
समर्थानां प्रथमाद्वा। , ४।१।८२

"स्वार्थिकप्रत्ययवधिश्चायमधिकारः"इति। स्वार्थे प्रकृत्यर्थे भवाः स्वार्थिकाः , अध्यात्मादित्वाट्(वा।४५६) ठञ्। स्वार्थिकाः प्रत्यया अवधिर्मर्यादा यस्य स तथोक्तः। "प्राग्दिशो विभक्तिरिति यावत्" इति। अनेन यतः परेण स्वार्थिकाः प्रत्यया अवधिभूताः प्रवत्र्तन्ते तत्सूत्रं दर्शयन् "प्राग्दिशो विभक्तिः" ५।३।१ इत्येतत्सूत्रात् प्रागयमधिकार इच्याचष्टे। किं पुनः कारणं स्वार्थिकेष्वयमप्यधिकारो न प्रवत्र्तते? इत्याह-- "स्वार्थिकेषु" इत्यादि। "समर्थानाम्" इति। सम्बद्धार्थानमामित्येषोऽर्थः। सम्बद्धार्थता च द्विष्ठत्वात् प्रतियोगिनि सति भवति, स्वार्थिकानाञ्()च प्रकृत्यर्थादर्थान्तरं न सम्भवति यत्प्रत्ययायनाय शब्दान्तरं प्रयुज्येत,यदपेक्षया च समर्थता स्यात्। तस्मात् समर्थतावा अभावात् स्वार्थिकेषु समर्थानामित्येतत् तावन्नोपयुज्यते। अत एव प्रतियोगिनोऽभावात् प्रथमादित्येतदपि नोपयुज्यत एव। यदि हि प्रतियोगिशब्दान्तरं स्यात्, तत आशङ्का स्यात्-- किं प्रथमात् प्रत्ययः? उत द्वितीयादिति? ततश्च तन्निवृत्तये प्रथमादिति वचनमनुवत्र्तमानमर्थवत् स्यात्। असति तु द्वि#ईतीये प्रतियोगिनि तदनुवृत्तिर्नोपयुज्यते। "विकल्पोऽपि तत्रानवस्थितः"इति। अनियत इत्यर्थः। यतः केचित् स्वार्थिका नित्यमेव भवन्ति। तथा च "अषडक्षाशितङ्ग्वलंकर्मालम्" (५।४।७) इत्यादौ सूत्रे भाष्यकारः परिगणनं करिष्यति-- "के पुनर्नित्याः प्रत्ययाः? तमबादयः प्राक् कात्, ञ्यादयः प्राग्वुनः, आमादयः प्राङमयटः, बृहत्या जात्यन्तात् समासान्ताश्च" इति। तत्र "अतिशायने तमबिष्ठनौ" ५।३।५५ इति तमप्प्रभृतयो ये प्रत्ययाः "प्रागिवात् कः" ५।३।७० इत्येतस्मात् प्राक् ते नित्याः। तथा "पूगाञ्ञ्योऽग्रामणीपूर्वात्" ५।२।१११ इत्यतो ञ्यप्रत्ययात् प्रभृति "पादशतस्य संख्यादेर्वीप्सायां वुन्म लोपश्च" ५।४।१ इत्यतो वुनः प्राग्ये ते नित्याः। तथा "किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे" ५।४।११ इत्यत आम्प्रभृति प्राक् तत्प्रकृतवचने मयटो ये प्रत्ययास्ते नित्याः। तथा "बृहत्या आच्छादने" ५।४।६ इति यो विहितः कप्रत्ययः"जात्यन्ताच्छोबन्धुनि" ५।४।९ इति च यश्चप्रत्ययो ये समासान्ता डजादयस्ते सर्वे नित्याः। तस्माद्विकल्पः स्वार्थिकेष्वनवस्थितः। ततश्च वाग्रहणमपि तत्रानवस्थितमेव क्वचिदनुवत्र्तते, क्वचिन्नेत्युक्तं भवति। इह प्रथमादिति विशेषणं प्रयोगवाक्यस्य? लक्षमवाक्यस्य वा? यदि प्रथमः ,ततो लौकिके वाक्ये पदानां प्रयोगे नियमो नास्तीति; पात्रमाहर, आहर पात्रमिति प्रयोगात्। ततश्च यदापत्यमुपगोरिति प्रयुज्यते तदापत्यशब्दात् प्रथमासामथ्र्यात् प्रत्ययः स्यात्। ननु च तस्येतनेन सूत्रोपात्तेनानुकरणपदेन षष्ठ()न्तेन प्रथमेनालौकिकवाक्यसमवायि पश्चान्निर्दिष्टमपि पदमनुकृतम्, तत् प्रथमत्वात् प्रथमव्यपदेशमासादयति। तेन यदाप्यपत्यमुपगोरिति लौकिकं वाक्यं प्रयुज्यते, तदोपगुशब्दादेव यथोक्तेनैव प्रकारेण लब्धप्रथमव्यपदेशात् प्रत्ययो भविष्यति; नापत्यशब्दात्। तदाद्येऽपि पक्षे समाश्रीयमाणे न दोष इति चेत्? वात्र्तमेतत्; न हि मुख्ये प्रथमे सम्भवपिसति गौणस्य ग्रहणं युक्तम्। अतः सत्यप्युपगुशब्दस्य गौणेन प्रथमत्वे मुख्यात् प्रथमादपत्यशब्दादेव प्रत्ययः स्यात्, नोपगुशब्दात्। प्रतिपत्तिगौरवञ्च। द्वितीये तु पक्ष एव दोषो नावतरति; लक्षमवाक्येषु पदानां प्रयोगस्य नियत्वात्। अतस्तमाश्रित्याह-- "लक्षणवाक्यानि" इत्यादि। समर्थानां मध्ये प्रथमः प्रत्ययप्रकृतित्वेन निर्धारित इति, यथा-- कृष्णा गवां सम्पन्नक्षीरतमेति, गवां मध्ये कृष्णा गौः सम्पन्नक्षीरतमात्वेन। यदि तर्हि समर्थानां प्रथमात् प्रत्ययो भवति, एवं सति "तस्यापत्यम्" ४।१।९२ इत्यत्र तस्येत्येतत्सर्वनाम। सामान्यवाचि प्रथमं निर्दिष्टमिति सामान्यवाचिन एव प्रत्ययः स्यात्, न विशेषवाचिनः; प्रातिपदिकादुपग्वित्यादेः, न हि तल्लक्षमवाक्ये प्रथमं निर्दिष्टम्? इत्यत आह--"तस्य" इत्यादि। "विशेषलक्षणार्थम्" इति। विशेषोपलक्षणार्थमित्यर्थः। यदि हि तस्येत्येद्विशेषोपलक्षणार्थं न स्यात् तदा समर्थता तस्य न स्यात्। न हि तस्येत्येतत् प्रकरणाद्यनपेक्षं विशेषेष्वतिष्ठछते। न च विशेषेष्वनवस्थितेनानेनापत्यस्य कश्चिदुपकारः कृतो भवति; सम्बन्धिसामान्यस्य सम्बन्धिशब्दत्वात्, अपत्यशब्देनैव गमितत्वात्। ततश्चोपाकारभावात् समर्थता न स्यात्। उच्यतेचेदम्-- तस्येति। तस्मात् सामथ्र्याद्विशेषोपलक्षणार्थत्वं तस्येत्यस्य। तेन ये विशेषा उपलक्षिताः = प्रतिपदितान्ते सम्बन्ध्यन्तरव्यवच्छेदेन विशिष्टं सम्बन्धिनं प्रतिपादयन्त उपकारिणो भवन्तीत्युपपद्यते तैः सह सामथ्र्यम्। तस्मात् तस्येतत् सामान्यं विशेषोपलक्षणार्थं द्रष्टव्यम्। तेन तस्य यत् प्राथम्यं तद्विशेषाणामुपगुशब्दादीनां विज्ञायते। ततश्च तत एव प्रत्ययो भवति, न च सामान्यवाचिनः। "कम्बल उपगोरपत्यं देवदत्तस्य" इति। अत्रोपगुशब्दः कम्बलेन सह सम्बद्धः, नापत्येन। अपत्यशब्दस्यापि देवदत्तशब्देन, नोपगुशब्देन। तस्मादपत्यशब्देन, सहोपगुशब्दस्य सम्बन्धो नास्तीति न ततः प्रत्ययो भवति। "वाक्यमपि हि यथा स्यात्" इति। असति हि वाग्रहणे वाक्येनापत्यस्याभिधाने प्राप्तेतस्मिन्नर्थे विधीयमानः प्रत्ययस्तन्निवत्र्तयेत्। ननु च समानेऽर्थे शास्त्रान्वितोऽशास्त्रान्वितस्य निवत्र्तको भवति, यथा-- "गमेर्डोः" (द।उ।२।११) इत्यनेन शास्त्रान्वितो गोशब्दोऽशास्त्रान्वितस्य गावीशब्दस् समानार्थस्यैव, न तु भिन्नार्थस्य डित्थादेः। न च वृत्तिवाक्ययोः समानोऽर्थः, वृत्तौ ह्रेकार्थीभावः सामथ्र्यम्, वाक्ये तु व्यपेक्षा? नैतदेवम्; सत्यपि ह्रेतस्मिन्नर्थभेदे प्रधानार्थो न भिद्यते, तथा हि-- उपगोरपत्यमानयेत्युक्ते य एवार्थोऽपत्यात्यवत्सम्बन्धविशिष्टः स आनीयते। औपगवमानयेत्युक्ते स एव। प्रधानापेक्षयैव च समानार्थः शास्त्रन्वितोऽशास्त्रान्वितं निवत्र्तयति, अन्यथा हि गोशब्दोऽपि गावीशब्दं न निवत्र्तयेत्। अस्ति हि तयोरप्यर्थभेदः, तथा हि-- गोशब्दो गोत्वमाचष्टे, गावीशब्दस्तु तथा, अशास्त्रियत्वञ्च। तस्मादसति वाग्रहणे यथा गोशब्दः सत्यप्यप्रधानार्थभेदे प्रधानार्थस्य समानर्थाद्गावीशब्दं निवत्र्तयति, तथा तद्धितोऽपि शास्त्रान्वितोऽशास्त्रन्वितं वाक्यं निवत्र्तयेत्। तस्माद्वाक्यमपि यथा स्यादिति वाग्रहणं क्रियते। "यद्येवम्" इत्यादि। यदि वाग्रहणेन तद्धितस्य भावाभावौ कुर्वता वाक्यस्य भावः क्रियते, एवं सति यदा वाक्यं नास्ति तदा तद्धितेनैव भवितव्यम्। समासवृत्तिरुपग्वपत्यमित्येषः तद्धितवृत्त्या बाध्येत। "नैष दोषः" इत्यादि। गतार्थम्॥
बाल-मनोरमा
समर्थानां प्रथमाद्वा १०५६, ४।१।८२

तदेवं समासप्रप्चं निरूप्य तद्धितप्रकरणमारभते--समर्थाना प्रथमाद्वा। विधेयस्याऽदर्शनान्नायं स्वतन्त्रविधिरिति मत्वाह--इदं पदत्रयमधिक्रियत इति। स्वरितत्वप्रतिज्ञाबलादिति भावः। अधिकारस्योत्तरावधिमाह--प्राग्दिश इति यावदिति। "प्राग्दिसो विभक्ति"रिति सूत्रमुत्तरावधिरित्यर्थः "समर्थाना"मिति निर्धारणषष्ठी। प्राथम्यं च "तस्यापत्य"मित्यादितत्तत्सूत्रेषु प्रथमोच्चारितत्वम्। समर्थानां मध्ये प्रथमोच्चारितादित्यर्थः। "समर्थात्प्रथमाद्वे"ति सुवचम्। केचित्तु बहुवचनबलादनेकसमर्थसमवाय एवास्य प्रवृत्तिः। एवंच "प्राग्दिशः" इत्यादिषु स्वार्थिकप्रत्ययविधिषु नाऽस्य प्रवृत्तिरिति लभ्यते इत्याहुः ननु सुबन्तात्तद्धितोत्पत्तेर्वक्ष्यमाणत्वेन तद्धितविधीनां पदविधितया "समर्थः पदविंधि"रिति परिभाषयैव एकार्थीभावरूपसामथ्र्यलाभादिह समर्थग्रहणं व्यर्थमित्यत आह--सामथ्र्यं परिनिष्ठितत्वमिति। समर्थः पटुः शक्त इति पर्यायाः। शक्तत्वं च कार्योत्पादनयोग्यत्वम्। शब्दस्य च कार्यमर्थप्रतिपादनमेव। तच्छक्तत्वं च कृतेष्वेव सन्धिकार्येषु संभवति। तथाच कृतसन्धिकार्यत्वमेव सामथ्र्यमिह पर्यवस्यति। तदाह--कृतसन्धिकार्यत्वम#इति।

तत्त्व-बोधिनी
समर्थानां प्रथमाद्वा ८८२, ४।१।८२

अपवादसङ्गत्या तद्धितान्विवक्षुस्तदीयमधिकारसूत्रमाह--समर्थानामिति। "अन्यतरस्याङ्ग्रहणानुवृत्तेः समासोऽपी"ति वक्ष्यमाणमूलग्रन्थेन समासापवादत्वं सूचितम्। विधेयाऽनिर्देशादुत्तरत्र प्रकृतिविशेषकाङ्क्षासत्त्वाच्चनाऽयं स्वतन्त्रो विधिरित्याह---अधिक्रियत इति। "पदत्रय"मित्यनेन प्रत्येकं स्वरितत्वप्रतिज्ञा सूचिता। तत्प्रयोजनं तु कस्यचिन्निवृत्तावप्यपरस्याऽनिवृत्तिः, तथा च "प्राग्दिशः"इति सूत्रे "समर्थानां प्रथमा"दिति निवृत्तं, "वा" इति त्वनुवर्तत एव"---इति वक्ष्यमाणमूलग्रन्थः सङ्गच्छते।