पूर्वम्: ४।१।१७६
अनन्तरम्: ४।२।२
 
सूत्रम्
तेन रक्तं रागात्॥ ४।२।१
काशिका-वृत्तिः
तेन रक्तं रागात् ४।२।१

शुक्लस्य वर्णान्तरापादनम् इह रञ्जेरर्थः। रज्यते ऽनेन इति रागः। तेन इति तृतीयासमर्थाद् रागविशेषवाचिनः शब्दाद् रक्तम् इत्येतस्मिन्नर्थे यथाविहितम् प्रत्ययो भवति। कषायेण रक्तं वस्त्रम् काषायम्। माञ्जिष्ठम्। कौसुम्भम्। रागातिति किम्? देवदत्तेन रक्तं वस्त्रम्। कथं काषायौ गर्दभस्य कर्णौ, हारिद्रौ कुक्कुटस्य पदौ इति? उपमानाद् भविष्यति, काषायौ इव काषायौ, हारिद्राविव हारिद्रौ। द्वैपवैयाघ्रादञ् ४।२।११ इति यावत् तृतीयासमर्थविभक्तिरनुवर्तते।
लघु-सिद्धान्त-कौमुदी
तेन रक्तं रागात् १०३६, ४।२।१

अण् स्यात्। रज्यतेऽनेनेति रागः। काषायेण रक्तं वस्त्रं काषायम्॥
न्यासः
तेन रक्तं रागात्। , ४।२।१

रञ्जिरयमस्त्येवानुरागे -- देवे रक्तः, स्त्रियां रक्त इति; अस्ति च वर्णविशेषे -- रक्तो गौरिति, लोहित इत्यर्थः; अस्ति शुक्लस्य वर्णान्तरापादने --रक्तः पट इति, शुक्लमपनीय रक्तादिकं वर्णान्तरमापादित इत्यर्थः। इह तृतीयेऽर्थे वत्र्तमानो गृह्रते, यदाह-- "शुक्लस्य" इत्यादि। रागशब्दोऽयमस्त्येव भावसाधनः, अस्ति च करणसाधनः; तत्रेह द्वितीयो गृह्रते, यदाह-- "रज्यतेऽनेनेति रागः" इति। रागग्रहणेन चार्थस्य ग्रहणम्, न स्वरूपस्य। तेन रागविशेषवाचिनः प्रातिपदिकात् प्रत्ययो विज्ञायते, न तु रागशब्दादेवेत्यत आह-- "रागविशेषवाचिनः प्रातिपदिकात्" इति। अथ स्वरूपग्रहणं कस्मान्न भवति? अर्थपरत्वान्निर्देशस्य। यत्र शब्दपरो निर्देशस्तत्र स्वरूपं गृह्रते,न यत्रार्थपरो निर्देश इति प्राक् प्रतिपादितमेव। अर्थपरत्वञ्च निर्देशस्याविच्छिन्नाचार्यपारम्पर्योपदेशाद्गम्यते। यदि तर्हि शुक्लस्य वर्णान्तरापादनमित्यभिप्रायेणाह-- "कथम्" इति। "उपमानात्" इत्यादि परिहारः। यथा "गौर्वाहीकः" इत्युपमानाद्()गोशब्दोऽर्थान्तरे वाहीके वत्र्तते,तथेहापि काषायादिशब्दो गर्दभकर्णादाविति भावः॥
बाल-मनोरमा
तेन रक्तं रागात् ११८४, ४।२।१

तेन रक्तं रागात्। रज्यत इति। रज्यते वर्णान्तरं प्राप्यते अनेनेत्यर्थे रञ्जेः करणे घञि कृते "गञि च भावकरणयो"रिति नलोपे "चजोः कुघिण्ण्यतो"रिति कुत्वे उपधावृद्धौ रागशब्द इत्यर्थः। तथाच रागशब्देन रञ्जनसाधनं द्रव्यमुक्तं भवति। "तेने"ति सामान्यनिर्देशः। तथाच तेन रक्तं=वर्णान्तरं प्राप्तमित्यर्थे, रागात्=रञ्जनद्रव्यवाचकात्तृतीयान्तादण् स्यादित्यर्थः, "प्राग्दीव्यतोऽणि"त्यधिकारात्। कषायेणेति। कषायो धातुविशेषः, रञ्जनद्रव्यं, तेन रक्तं वर्णान्तरं प्राप्तं काषायमित्यर्थः। माञ्जिष्ठमिति। मञ्जिष्ठानाम रञ्जनद्रव्यविशेषः।

तत्त्व-बोधिनी
तेन रक्तं रागात् ९८०, ४।२।१

तेन रक्तं। तृतीयान्तात्समर्थाद्यथाविहितं प्रत्ययाः त्युः। रज्यतेऽनेनेतीति। बाहुलकात्करणे घञ्। राग इति। रञ्जकद्रव्यमित्यर्थः। शुक्लस्य वर्णान्तरापादनमिह रञ्जेरर्थः।