पूर्वम्: ४।१।९०
अनन्तरम्: ४।१।९२
 
सूत्रम्
फक्फिञोरन्यतरस्याम्॥ ४।१।९१
काशिका-वृत्तिः
फक्फिञोरन्यतरस्याम् ४।१।९१

यूनि इत्येव। पूर्वसूत्रेण नित्ये लुकि प्राप्ते विकल्प उच्यते। फक्फिञोर् युवप्रत्यययोः प्राग्दीव्यतीये ऽजादौ प्रत्यये विवक्षिते ऽन्यतरस्यां लुग् भवति। गर्गादिभ्यो यञि कृते यञिञोश्च ४।१।१०१ इति फक्, गार्ग्यायणः। तस्य छात्राः गार्गीयाः, गार्ग्यायणीयाः। वात्सीयाः, वात्स्यायनीयाः। फिञः खल्वपि यस्कस्य अपत्यं, शिवादिभ्यो ऽण् ४।१।११२, यास्कः। तस्य अपत्यं युवा, अणो द्व्यचः ४।१।१५६ इति फिञ्, यास्कायनिः। तस्य छात्राः यास्कीयाः, यास्कायनीयाः।
न्यासः
फक्फिञोरन्यतरस्याम्। , ४।१।९१

"गार्गीयाः, वात्सीयाः" इति। पूर्वपदकारयकारलोपः। "वा" ४।१।८२ इति वत्र्तमानेऽन्यतरस्यां ग्रहणं "पूर्वसूत्रे नित्यो विधिः" इति ज्ञापनार्थम्॥
बाल-मनोरमा
फक्?फिञोरन्यतरस्याम् १०७०, ४।१।९१

"इञः प्राचा"मिति लुङ्नेत्यर्थः। अथ प्रकृतं चातुर्थिकं लुग्विधिमनुसरति--फक्फिञोरन्यतरस्यां। यूनीत्येवेति। "यूनि लु"गिति पूर्वसूत्रमनुवर्तते इत्यर्थः। "यूनि लु"गित्यक्तो लुक् फक्फिञोर्वा स्यादित्यर्थः। तदाह--पूर्वेणेति। कात्यायनस्येति। कतस्य गोत्रापत्यं कात्यः। गर्गादित्वाद्यञ्। तस्यापत्यं युवा--कात्यायनः। "यञिञोश्चे"ति फक्। कात्यायनस्य छात्रा इत्यर्थे "तस्येद"मित्यनुवृत्तौ "वृद्धाच्छः" इति छः। तस्य ईयादेशः। अत्र छात्रार्थकच्छप्रत्यये विवक्षिते युवार्थकफको लुकि सति, कात्य-ईय इति स्थिते"यस्येति चे"त्यकारलोपे "आपत्यस्य चे"ति यलोपे "कातीया" इति रूपम्। फको लुगभावे तु "कात्यायनीया" इति रूपमित्यर्थः। यस्कस्येति। यस्कस्य गोत्रापत्यमित्यर्थे "अत इ"ञिति इञपवादः शिवाद्यणित्यर्थः। तस्येति। यास्कस्यापत्यं युवेत्यर्थे "अणो द्व्यचः"इति फिञि आयन्नादेशे यास्कायनिरिति रूपमित्यर्थः। तस्य छात्रा इति। यास्कायनेश्छात्रा इत्यर्थे "तस्येद"मित्यनुवृत्तौ "वृद्धाच्छः" इति छः। तस्य ईयादेशः। "यास्कायनीया" इति रूपम्। अत्र छात्रार्थकच्छप्रत्यये विवक्षिते युवार्थफकिञो लुकि "यस्येति चे"त्यकारल#ओपे "यास्कीया" इति रूपमित्यर्थः।

तत्त्व-बोधिनी
फक्? फिञोरन्वतरस्यस्याम् ८९६, ४।१।९१

कात्यायनस्येति। कतस्य गोत्रापत्यं कात्यः। गर्गादित्वा द्यञ्। ततो यूनि "यञिञोश्चे"ति फक्। कातीया इथ। "आपत्यस्य चे"ति यलोपः।