पूर्वम्: ४।२।१
अनन्तरम्: ४।२।३
 
सूत्रम्
लाक्षारोचना (शकलकर्दमा) ट्ठक्॥ ४।२।२
काशिका-वृत्तिः
लाक्षारोचनाशकलकर्दमाट् ठक् ४।२।२

लाक्षादिभ्यो रागवचनेभ्यस् तृतीयासमर्थेभ्यो रक्तम् इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। अणो ऽपवादः। लाक्षया रक्तं वस्त्रम् लाक्षिकम्। रौचनिकम्। शाकलिकम्। कार्दमिकम्। शकलकर्दमाभ्यामणपीष्यते। शाकलम्। कार्दम्। नील्या अन् वक्तव्यः। नील्या रक्तं नीलं वस्त्रम्। पीतात् कन् वक्तव्यः। पीतेन रक्तं पीतकम्। हरिद्रामहारजनाभ्यामञ् वक्तव्यः। हारिद्रम्। माहरजनम्।
न्यासः
लाक्षारोचनाशकलकर्दमाट्ठक्। , ४।२।२

"शकलकर्दमाभ्यामणपीष्यते" इति। स च "वान्यस्मिन् सपिण्डे" ४।१।१६५ इत्यतो मण्डूकप्लुतिन्यायेन वाग्रहणानुवृत्तेर्लभ्यते। न चैवं सत्यतिप्रसङ्गो भवति; व्यवस्थितविभाषाविज्ञानात्॥
बाल-मनोरमा
लाक्षारोचनाट्ठक् ११८५, ४।२।२

लाक्षारोचनाट्ठक्। अमोऽपवादः। लाक्षिक इति। "पट" इति शेषः। लाक्षया रक्त इति विग्रहः। रौचनिक इति। रोचनया रक्त इति विग्रहः।

शाकलिक इति। शकलं--रागद्रव्यविशेषः। वृत्तिरिति। भाष्ये तु नैतद्दृष्टम्।

नील्या अनिति। "वक्तव्य" इति शेषः। अणोऽपवादः। नीली ओषधिविशेषः।

"पीतात्कन्"। अणोऽपवादः। पीतं हरितालकादि द्रव्यम्।

हरिद्रामहेति। अणोऽपवादः। स्वरे विशेषः। हरिद्रा प्रसिद्धा। महारजनं--नाम रागद्रव्यविशेषः। इति रक्ताधिकारः।

तत्त्व-बोधिनी
लाक्षरोचनाट्ठत् ९८१, ४।२।२

लाक्षरोचनात्। वृत्तिकृता तु वार्तिकस्थौ शकलकर्दमौ सूत्रे प्रिक्षिप्तौ। "शकलं त्वचि खण्डे च रागवस्तुनि वल्कले"इति वि()आः।

सकलकर्दमाभ्यामुपसंख्यानम्। वृत्तिकार इति। भाष्ये तु नैकद्दृष्टमिति भावः।

नील्या अन्। नील्येति। नीली ओषधिविशेषः। अणपवादोऽयम्।