पूर्वम्: ४।२।१०६
अनन्तरम्: ४।२।१०८
 
सूत्रम्
मद्रेभ्योऽञ्॥ ४।२।१०७
काशिका-वृत्तिः
मद्रेभ्यो ऽञ् ४।२।१०८

दिक्पूर्वपदातित्येव। दिक्पूर्वपदात् मद्रशब्दादञ् प्रत्ययो भवति शैषिकः। पौर्वमद्रः। आपरमद्रः। दिशो ऽमद्राणाम् ७।३।१३ इति पर्युदासादादिवृद्धिरेव।
न्यासः
मद्रेभ्योऽञ्। , ४।२।१०७

"पौर्वमद्रः" इति। पूर्ववत् तद्धितार्थे २।१।५० समासः, ततोऽणि प्राप्ते,"अवृद्धादपि बहुवचनविषयात्" ४।२।१२४ इतिच वृञि, "मद्रवृज्योः कन्" ४।२।१३० इति कन्यञ् विधीयते॥
बाल-मनोरमा
मद्रेभ्योऽञ् १३१०, ४।२।१०७

मद्रेभ्योऽञ्। इत्येवेति। दिक्पूर्वान्मद्रशब्दादञित्यर्थः। पर्युदासादिति। उत्तरपदवृद्धेः पर्युदासे सति आदिवृद्धिरित्यर्थः। बहुवचनाज्जनपदवाचिन एव ग्रहणम्। पौर्वमद्र इति। पूर्वेषु मद्रेषु भव इत्यर्थः।

तत्त्व-बोधिनी
मद्रेभ्योऽञ् १०४९, ४।२।१०७

मद्रेभ्योऽञ्। बहुवचननिर्देशाज्जनपदवाची गृह्रते, न तु भद्रपर्यायः। दिशोऽमद्राणमिति। "दिग्वाचकादुत्तरपदस्य जनपदवाचिनो मद्रभिन्नस्याऽचामादेर्वृद्धिः स्याञ्ञिति णिति किति च तद्धिते"इति सूत्रार्थः। पौर्वमद्र इति। मद्रैकदेशे मद्रशब्दस्य वृत्तौ दिक्शब्देन समानाधिकरण्यात् "तद्धितार्थ"इति समासः।