पूर्वम्: ४।२।१४
अनन्तरम्: ४।२।१६
 
सूत्रम्
संस्कृतं भक्षाः॥ ४।२।१५
काशिका-वृत्तिः
संस्कृतं भक्षाः ४।२।१६

तत्र इति सप्तमीसमर्थात् संस्कृतम् इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, यत् संस्कृतं भक्षाः चेत् ते भवन्ति। खरविशदम् अभ्यवहारार्थं भक्षम् इत्युच्यते। सतुत्कर्षाधानम् संस्कारः। भ्राष्ट्रे संस्कृता भक्षाः भ्राष्ट्रा अपूपाः। कालशाः। कौम्भाः। भक्षाः इति किम्? पुष्पपुटे संस्कृतो मालागुणः।
लघु-सिद्धान्त-कौमुदी
संस्कृतं भक्षाः १०४३, ४।२।१५

सप्तम्यन्तादण् स्यात्संस्कृतेर्ऽथे यत्संस्कृतं भक्षाश्चेत्ते स्युः। भ्राष्ट्रेषु संस्कृता भ्राष्ट्रा यवाः॥
न्यासः
संस्कृतं भक्षाः। , ४।२।१५

"संस्कृतम्" इति। अत्र सामान्यशब्दत्वात् संस्कृतशब्दस्य नपुंसकलिङ्गत्वम्। एकवचनत्वञ्च। "भक्षाः" इति। विशे शब्दत्वाद्भक्षशब्दस्य पुंल्लिङ्गत्वम्। बहुवचनत्वञ्च। भक्षशब्दोऽयं घञन्त उपात्तः। स च खरविशवाभ्यवहार्य एव रूढ इत्याह-- "खरविशद" इत्यादि। सुबोधम्॥
न्यासः
काश्यादिभ्यष्ठञ्ञिठौ। , ४।२।१५

काशिचेदिशब्दाभ्यां जनपदलक्षणे ४।२।१२३ वुञि प्राप्ते साजातेः "इञश्च" ४।२।१११ इत्यणि, संवाहादिभ्यो वृद्धच्छे ४।२।११३ , हस्तिकर्षूशब्दात् "ओर्देशे ठञ्" ४।२।११८ इति ठञि, परिशिष्टेभ्यः "प्राग्दीव्यतोऽण्" ४।१।८३ इत्यणीदमारभ्यते। कथं पुनर्ञकार एव विपर्यस्तदेशेऽनुबन्धे क्रियमाणे विशेष इत्यत आह-- "स्त्रीप्रत्यये विशेषः" इति। अन्ते हि ञकारेऽनुबन्धे सति "टिड्ढाणञ्"४।१।१५ इतिङीब्भवति। आदौ हि सति टाबेव भवति। "वृद्धादित्यनुवत्र्तते" इति। यद्येवम्, अत्र ये वृद्धाः पठ()न्ते तेभ्यः प्त्यये न प्राप्नोति? इत्याह-- "येत्ववृद्धाः"इत्यादि। यदि तह्र्रवृद्धेभ्योऽपि वचनप्रामाण्यात्प्रत्ययो भवति, वृद्धादित्यस्यानुवृत्तिरपार्थिकेत्यत आह-- "देवदत्तशब्दः" इत्यादि। देवदत्तशब्दस्य प्राग्देश एव हि वत्र्तमानेऽस्य वृद्धसंज्ञा, न वाहीकग्रामे। तत्र यदि वृद्धादिति नानुवत्र्तते, वाहीकग्रामवाचिनोऽपि ततष्ठञ्ञिठौ स्याताम्। तस्मात् तन्निवृत्त्यर्थं वृद्धाधिकारोऽर्थवान् भवतीति भावः। "कथम्" इत्यादिना वृद्धसंज्ञायां देवदत्तीया इति भाष्यकारस्योपन्यासे तदुदाहरणं विघटय्य "तत्रैवं वर्णयन्ति" इत्यादिना समर्थयते। "आपदादिपूर्वपदात्कालात्" इति। आपच्छब्द आदिर्येषां तान्यापदादीनि। तानि पूरर्वपदं यस्य तदापदादिपूर्वपदम्। ततः कालाट्ठञ्ञिठौ भवतः।आदिशब्देनोध्र्वादयः शब्दा गृह्रन्ते॥
बाल-मनोरमा
संस्कृतं भक्षाः ११९९, ४।२।१५

संस्कृतं भक्षाः। भक्ष्यन्ते इति भक्षाः, कर्मणि घञ्। तत्रेत्यनुवर्तते। तदाह--सप्तम्यन्तादिति। एकवचनं बहुवचनं च सामान्याभिप्रायं, जात्याख्यायामेकस्मिन्बहुवचन"मित्युक्तेरित्यभिप्रेत्याह--यत्संस्कृतमिति। संस्कारो नाम पाकादिना गुणविशेषाधानम्। अष्टाकपाल इति। "तद्धितार्थ" इति समासः। भक्षा इति किम्? पुष्पपुटे संस्कृतं भक्षाः" इत्यर्थे यत्स्यादित्यर्थः। उखा पात्रविशेष इति। "पिठरं स्थाल्युखा कुण्ड"मित्यमरः।

तत्त्व-बोधिनी
संस्कृतं भक्षाः ९९१, ४।२।१५

अष्टाकपाल इति। "द्विगोर्लुगनपत्ये"इत्यणो लुक्।