पूर्वम्: ४।२।१५
अनन्तरम्: ४।२।१७
 
सूत्रम्
शूलोखाद्यत्॥ ४।२।१६
काशिका-वृत्तिः
शूलौखाद् यत् ४।२।१७

शूलशब्दादुखाशब्दाच् च सप्तमीसमर्थात् संस्कृतं भक्षाः इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति। अणो ऽपवादः। शूले संस्कृतं शूल्यं मांसम्। उख्यम्।
तत्त्व-बोधिनी
शूलोखाद्यत् ९९२, ४।२।१६

शूलोखात्। "संस्कृतं भक्षाः"इत्यनुवर्तते। कथम् "उख्योऽग्निः"इति। न ह्रसौ भक्ष इति चेत्()। अत्राहुः---दिगादित्वाद्भावार्थे यदिति।