पूर्वम्: ४।२।२
अनन्तरम्: ४।२।४
 
सूत्रम्
नक्षत्रेण युक्तः कालः॥ ४।२।३
काशिका-वृत्तिः
नक्षत्रेण युक्तं कालः ४।२।३

तृतीयासमर्थविभक्तिः अनुवर्तते। तेन इति तृतीयासमर्थाद् नक्षत्रविशेषवाचिनः शब्दाद् युक्तः इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। यो ऽसौ युक्तः। कालश्चेत् स भवति। कथं पुनर् नक्षत्रेण पुष्यादिना कालो युज्यते? पुष्यादिसमीपस्थे चन्द्रमसि वर्तमानाः पुष्यादिशब्दाः प्रत्ययमुत्पादयन्ति पुष्येण युक्तः कालः। पुष्यसमीपस्थेन चन्द्रमसा युक्तः इत्यर्थः। पौषी रात्रिः। पौषमहः। माघी रात्रिः। माघमहः। नक्षत्रेण इति किम्? चन्द्रमसा युक्ता रात्रिः। कालः इति किम्? पुष्येण युक्तश्चन्द्रमाः।
लघु-सिद्धान्त-कौमुदी
नक्षत्रेण युक्तः कालः १०३७, ४।२।३

अण् स्यात्। (तिष्यपुष्ययोर्नक्षत्राणि यलोप इति वाच्यम्)। पुष्येण युक्तं पौषमहः॥
न्यासः
नक्षत्रेण युक्तः कालः। , ४।२।३

इह कालं क्रियात्मानं केचिदिच्छिन्ति, अपरे द्रव्यात्मानमाकाशादिकल्पम्। दर्शनद्वयमपि चैतदिहाश्रयितुमयुक्तम्। पूर्वस्मिन् दर्शने समाश्रीयमाणे सूर्यादिद्रवयान्तर्सयायां वा क्रियाया नक्षत्रेण योगः स्यात्? आत्मस्थाया वा? पूर्वस्यास्तावन्न सम्भवति, अर्थान्तरासमवायात्। अन्यथा ह्राकाशादयोऽपि क्रियावन्तः स्यु। न ह्रर्थान्तरसमवायिन्या अपि क्रियाया द्रव्यान्तरेण योगः स्यात्। आत्मस्थायास्तु क्रियाया विद्यते नक्षत्रेण योगः, किन्तु युक्तग्रहणं विशेषणं नोपपद्यते; व्यवच्छेद्याभावात्। न हि पुष्यादिस्थायाः कालस्य पुष्यादिभिः कदाचिद्योगो युज्यते यद्व्यवच्छेदार्थं युक्तग्रहणं क्रियते। एवं तावत् "क्रिया कालः" इत्येतद्दर्सनमत्राश्रयितुमयुक्तम्। द्वितीयमप्ययुक्तमेव; यस्मात् कालविशेषावधारणहेतुरिह योगोऽभिप्रेतः। तथा हि कालविशेषावधारणार्थमेव पौषीत्यादिलोके प्रयुज्यते। स चैवंविधो योगस्तयोरेव भवतीति ययोः सन्निकर्षविप्रकर्षे स्तः, यथा-- पुष्यचन्द्रमसोः। तयोर्हि कदाचित् सन्निकर्षो भवति, तदाचिद्विप्रकर्षः। न च नक्षत्रकालयोः कदाचित् सन्निकर्षविप्रकर्षैः स्तः,तयोर्नित्यत्वादित्येतच्चेतसि कृत्वाह-- "कथं पुनः" इत्य#आदि। न कथञ्चिदित्यभिप्रायः। नक्षत्रनिकटवर्तिनि चन्द्रमसि वत्र्तमानः सूत्रे नक्षत्रशब्द उपात्त इत्येतत् सूचयन्नाह-- "पुष्यादिसमीपस्थे" इत्यादि। यतैव हि सामीप्यात् "गङ्गायां घोषः" इति गङ्गासमीपस्थे देशे गङ्गाशब्दो वत्र्तते, तथेहापि पुष्यदयो नक्षत्रविशेषवाचिनः शब्दाः पुष्यादिसमीपस्थे चन्द्रमसि वत्र्तन्ते। तेन तत्रैव वत्र्तमानाः प्रत्ययमुत्पादयन्ति। तेन पुख्यादिसमीपस्थचन्द्रमसा कालस्य विशेषावधारणहेतुर्योग उपपद्यते। तदवस्थस्य चन्द्रमसः कादाचित्कत्वात्। पुष्यसमीपस्थेन चन्द्रमसा युक्त इत्यर्थः; तदवस्थे चन्द्रमसि पुष्यशब्दस्य वृत्तेः। "पौषी" इति। "सूर्यतिष्यागस्त्यमस्त्यानां य उपधायाः ६।४।१४९ इत्यत्र "{तिष्यपुष्ययोर्नक्षत्राणि यलोपः" इति मु।पाठ।} तिष्यपुष्ययोर्नक्षत्राणि" (वा।८०८) इति वचनाद्यलोपः॥
बाल-मनोरमा
नक्षत्रेण युक्तः कालः ११८६, ४।२।३

नक्षत्रेण। अस्मिन्नर्थे प्रथमोच्चारितान्नक्षत्रवाचकाच्छब्दात् प्राग्दीव्यतीयाः प्रत्यया यथायथं स्युरित्यर्थः। नक्षत्रयुक्तश्चन्द्रमा-नक्षत्रशब्देन विवक्षितः। पुष्येण युक्तमिति। पुष्ययुक्तचन्द्रमसा युक्तमित्यर्थः। पौषमहरिति। पुष्यशब्दादणि "तिष्यपुष्ययोर्नक्षत्राऽणि यलोपः" इति यलोपः। पौषी रात्रिरिति। पुष्ययुक्तचन्द्रमसा युक्तेत्यर्थः। अणि यलोपे "टिड्ढे"ति ङीप्। नक्षत्रेणेति किम्?। चन्द्रेण युक्ता रात्रिः। कालः किम्?। पुष्येणयुक्तश्चन्द्रमाः।

तत्त्व-बोधिनी
नक्षत्रेण युक्तः कालः ९८२, ४।२।३

नक्षत्रेण। नक्षत्रवाचकाः शब्दा वृत्तिविषये तद्युक्तं चन्द्रमसमभिदधानाः प्रत्ययं लभन्ते। पुष्येणेति। पुष्यसमीपस्थेन चन्द्रमसेत्यर्थः। एवं च पौषमह इत्यादिव्यवहारः सङ्गच्छते। सर्वेषामप्यह्नां पुष्ययोगसत्त्वेऽपि तत्समीपस्थचन्द्रमसा योगस्याऽसर्वत्रिकत्वात्। नक्षत्रेणेति किम्()। चन्द्रेण युक्ता रात्रिः। कालः किम्()। पुष्येण युक्तश्चन्द्रः।