पूर्वम्: ४।२।३
अनन्तरम्: ४।२।५
 
सूत्रम्
लुबविशेषे॥ ४।२।४
काशिका-वृत्तिः
लुबविशेषे ४।२।४

पूर्वेण विहितस्य प्रत्ययस्य लुब् भवति अविशेषे। न चेन् नक्षत्रयुक्तस्य कालस्य रात्र्यादिविशेषो ऽभिधीयते। यावन् काले नक्षत्रेण युज्यते अहोरात्रः, तस्य अविशेषे लुब् भवति। अद्य पुष्यः। अद्य कृत्तिकाः। अविशेषे इति किम्? पौषी रात्रिः। पौषमहः।
लघु-सिद्धान्त-कौमुदी
लुबविशेषे १०३८, ४।२।४

पूर्वेण विहितस्य लुप् स्यात् षष्टिदण्डात्मकस्य कालस्यावान्तरविशेषश्चेन्न गम्यते। अद्य पुष्यः॥
न्यासः
लुबविशेषे। , ४।२।४

यद्यविशेषे लुग्भवति, इहापि प्राप्नोति-- पौषी रात्रिः,पौषमहरिति, अत्राप्यविशेषी गम्यत एव। तथा हि-- पौषीरात्रिरित्युक्ते, अद्य ()आओ वेति विशेषो न गम्यत इत्यत आह-- "न चेत् नक्षत्रयुक्तस्य" इत्यादि। एवं मन्यते-- "नक्षत्रेण युक्तः कालः" ४।२।३ इत्यनुवत्र्तते, तेन तद्विशेष एव न भवतीति। "रात्र्यादिविशेषः" इति।आदिशब्देनाह, मुहूर्त्तः, लवः-- इत्येते विशेषा गृह्रन्ते। "यावान्" इत्यादि। अनन्तरोक्तमेवार्थं विस्पष्टीकरोति। कियांश्च कालो नक्षत्रेण युज्यते? अहोरात्रः। तदेवं यावान् कालो नक्षत्रेण युक्तस्तस्याविशेषे न गम्यते, अपि तु तदेकदेशस्य रात्रेः, अह्नो वेति नायं लुपो विषयः। यद्येवम्, प्रत्ययस्यापि कथमेकदेशो विषयः?समुदायद्वारेण तदन्तःपातिनो गृह्रन्ते। एकदेशानामपि योगात् पूर्वेण प्रत्ययोत्पत्तिः सिद्धा बवति। पुनरिहावयवस्यैकदेशो लुपो विषय इति। इह तर्हि प्राप्नोति-- पौषोऽहोरात्र इति, अत् यावान् कालो नक्षत्रेण युक्तः, तस्याविशेषो गम्यते, तथा ह्रहोरात्र इत्युक्ते न ज्ञायते-- किमतीतः, अथानागतः,अथ वत्र्तमान इति? नैष दोषः; अविशेष इति प्रसज्यप्रतिषेधोऽयम्। तेन नक्षत्रयुक्तस्य कालस्य यत्र विशेषो रात्र्यादिस्तत्र न लुग्भवतीति ज्ञायते, न तु यत्राविशेषस्तत्र तु लुब्भवतीति॥
बाल-मनोरमा
लुबविशेषे ११८७, ४।२।४

लुबविशेषे। षष्ठिदण्डेति। षष्टिघटिकापरिच्छिन्ने काले एकैकस्मिन्नेकैकेन नक्षत्रेण चन्द्रमा युज्यत इति स्थितिः। तस्य षष्टिदण्डस्य कालस्य अवान्तरविशेषोऽहर्वा रात्रिर्वेति न गम्यते चेदित्यर्थः। अद्य पुष्य इति। अद्येत्यव्ययम् अहोरात्रवाचि अधिकरणशक्तिप्रधानम्, इह तु अधिकरणशक्तिविनिर्मुक्तोऽहोरात्रकालो विवक्षितः। तथाच अयमहोरात्रः पुष्ययुक्तचन्द्रमसा युक्त इत्यर्थः। अहर्वा रात्रिर्वेति विशेषानवगमादणो लुप्। कथं तर्हीति। पौर्णमस्याः षष्टिदण्डात्मिकाया अवान्तरविशेषानवगमादिह लुप् स्यादित्याक्षेपः। समाधत्ते--विभाषेति। फाल्गुनीकार्तिकीचैत्रीशब्दानां नक्षत्राऽण्विशिष्टानां पौर्णमास्यां प्रयोगदर्शनेन पौर्णमास्यां नक्षत्रयुक्तायां "लुबंभावात्कथं श्रणणेति निर्देश इत्यत आह--श्रवणशब्दात्त्वत एव लुबिति। "श्रवणे"ति निपातनादेव पौर्णमास्यां लुबित्यर्थः। ननु "कृत्तिका श्रवणः पुष्यः चित्रास्वात्योर्यदन्तर"मित्यादौ श्रवणशब्दस्य पुंलिङ्गत्वदर्शनेन तस्मादणो लिपि कृते "लुपि युक्तवद्व्यक्तिवचने" इति पुंलिङ्गत्वावश्यंभावाच्छ्रवणेति कथं स्त्रीलिङ्गतेत्यत आह--युक्तवद्भावाभावश्चेति। "निपातना"दिति शेषः। ननु तर्हि श्रावणीति नैव स्यादित्यत आह--अबाधकान्यपीति। इयं परिभाषा वृत्तौ स्थिता। सर्वादिसूत्रभाष्ये तु "बाधकान्येव निपातनानी"त्युक्तम्।

तत्त्व-बोधिनी
लुबविशेषे ९८३, ४।२।४

लुबवि [शेषे]। पूर्वसूत्रस्यानुवर्तनादिह "नक्षत्रेण युक्तस्य कालस्याऽविशेषे गम्ये"इत्यर्थ उपलभ्यते, तदाह--षष्टिदण्डेति। "अद्य पुष्यः"इत्युक्त्या"न ह्रो, न ()आः"इति विशेषे गम्यमानेऽपि अहोरात्रात्मककालस्यावान्तरविशेषानवगमाल्लुब्भवत्येवेति भावः। "अविशेषे"इत्यत्र प्रसज्यप्रतिषेधाश्रयणात् "पौषोऽहोरात्रः"इत्यत्र लुब्न भवति, षष्टिदण्डात्मकसमुदायरूपकालस्य प्रतीतावप्यवयवद्वयात्मकस्यापि विशेषस्यापि प्रतीतेरित्याशयेनाह---विशेषश्चेन्नेति। अद्य पुष्य इति।स "मूलेनावाहयेद्देवीं श्रवणेने"त्यप्युदाहरणं बोध्यम्।