पूर्वम्: ४।२।३२
अनन्तरम्: ४।२।३४
 
सूत्रम्
कालेभ्यो भववत्॥ ४।२।३३
काशिका-वृत्तिः
कालेभ्यो भववत् ४।२।३४

कालविशेषवाचिभ्यः शब्देभ्यो भववत् प्रत्यया भवन्ति सा ऽस्य देवता इत्यस्मिन् विषये। कालाट् ठञ् ४।३।११ इति प्रकरणे भवे प्रत्यया विधास्यन्ते ते सा ऽस्य देवता इत्यस्मिनर्थे तथा एव इष्यन्ते, तदर्थम् इदम् उच्यते। वत्करणं सर्वसादृश्यपरिग्रहार्थम्। मासे भवम् मासिकम्। आर्धमासिकम्। सांवत्सरिकम्। वासन्तम्। प्रावृषेण्यम्। तथा मासो देवता ऽस्य मासिकम्। आर्धमासिकम्। सांवत्सरिकम्। वासन्तम्। प्रावृषेण्यम्।
न्यासः
कालेभ्यो भववत्। , ४।२।३३

बहुवचनग्रहणेन स्वरूपग्रहणे निरस्ते, कालविशेषवाचिभ्यः प्रत्ययो विज्ञायत इत्याह-- "कालविशेषवाचिभ्यः" इत्यादि। "वत्करणम्" इत्यादि। सर्वस्य सादृश्यस्य परिग्रहो यथा स्यादित्येवमर्थ वत्करणम्। "कालेभ्यो भवः" इत्युच्यमाने यदि तावत् कालग्रहणं भवप्रत्ययैः सम्बध्यते? भवेऽर्थे कालेभ्यो विधास्यन्ते ये प्रत्ययास्ते "सास्य देवता" ४।२।२३ इत्येतस्मिन्नर्थे भवन्ति, तदा च देवताप्रकृतिरविशेषिता स्यात्। एवञ्च देवतामात्रवाचिनः प्रातिपदिकादविशेषेण प्रत्ययाः प्रसज्येरन्। अथ देवताप्रकृतिभिः कालग्रहणं सम्बध्यते? भवे ये विधास्यन्ते ते प्रत्ययाः कालेभ्यो देवताभ्यः प्रसज्येरन्। अथाप्युभयेषां सन्निधानाद्विशेष्यभेदेन वाक्यभेदाच्च प्रत्ययैः प्रकृतिभिश्च सम्बध्यते-- कालेभ्यो भवेऽर्थे विधास्यन्ते ये प्रत्ययास्ते कालेभ्यो देवताभ्यो भवन्तीति? एवमपि यः कश्चित् कालप्रकृतिः प्रत्ययो यतः कुतश्चित् कालाद्देवतायाः स्यात्, ऋतुभ्योऽण् मुहूर्तादिभ्योऽपि स्यात्। वतौ तु सति तस्य सादृश्यविधानात् सर्वसादृश्यपरिग्रहो भवति। तेन याभ्यः प्रकृतिभ्यो येन विशेषणेन ये प्रत्यया भवार्थे विधास्यन्ते, इहापि ताभ्य ए प्रकृतिभ्यस्तेनैव व#इशेषणेन त एव प्रत्यया भवन्तीति न बवत्यनिष्टप्रसङ्गः। "{वासन्तम्--काशिका} वासन्तः"इति। "सन्धिवेलादि"४।३।१६ सूत्रेणाण्। "{प्रावृषेण्यम्--काशिका} प्रावृषेण्यः" इति। "प्रावृष एण्यः" ४।३।१७
बाल-मनोरमा
कालेभ्यो भववत् १२१८, ४।२।३३

कालेभ्यो भववत्। कालवाचिभ्यो भवेऽर्थे येन विशेषणेन ये प्रत्यया वक्षयन्ते, ते "साऽस्य देवते"त्यर्थे कालवाचिभ्यस्तेनैव विशेषणेन भवन्तीत्यर्थः। मासिकमिति। मासो देवता अस्येति विग्रहः। कालाट्ठञ्। प्रावृषेण्यमिति। प्रावृट् देवता अस्येति विग्रहः। "प्रावृष एण्यः"।

तत्त्व-बोधिनी
कालेभ्यो भववत् १०००, ४।२।३३

कालेभ्यो। कालवाचिभ्यो ये प्रत्यया भवार्थे वक्ष्यन्ते ते "सास्य देवता"इत्यस्मिन्नर्थेऽनेनातिदिश्यन्ते। वत्करणं सर्वसादृश्यार्थम्। तेन यस्माद्यो विहितस्तस्मात्स एव भवति नाऽन्यः। तथैवोदाहरति---मासिकम्। प्रावृषेण्यमिति। "कालाठ्ठञ्"। "प्रावृष एण्यः।

मातृपितृभ्यां पितरि डामहच्। डामहजिति। एतच्च वृत्त्याद्यनुरोधेनोक्तं। भाष्ये तु आनङादेशो महच् प्रत्ययश्च निपात्यते। तेनावग्रहः सिध्यतीत्युकतम्।

अवेर्दुग्धे सोढदूसमरीसचो वक्तव्याः। सकारपाठेति। अन्यथा प्रक्रियालाघवाय षकारमेव पठेदिति भावः। एतच्च मनोरमायां स्थितम्। अन्ये तूक्तरीत्य। "अविसोढ" मित्यत्र षत्वनिवारणेऽपि "अविदूस"मित्यादौ स्यादेव षत्वम्। तत्र हि ण्यन्तात्क्विपि "अविदूः"इत्यादिरूपसिद्धये सकारपाठसामथ्र्यस्योपक्षीणत्वात्। तस्मात् "अविसोढ"मित्यादि भाष्यकृदुदाहरणेषु सकारपाठसामथ्र्यादिति व्याख्येयमित्याहुः।