पूर्वम्: ४।२।३३
अनन्तरम्: ४।२।३५
 
सूत्रम्
महाराजप्रोष्ठपदाट्ठञ्॥ ४।२।३४
काशिका-वृत्तिः
महाराजप्रोष्ठपदाट् ठञ् ४।२।३५

महाराजशब्दात् प्रोष्ठपदशब्दाच् च ठञ् प्रययो भवति सा ऽस्य देवता इत्यस्मिन् विषये। महाराजो देवता अस्य माहाराजिकम्। प्रौष्ठपदिकम्। ठञ्प्रकरणे तदस्मिन् वर्तत इति नवयज्ञादिभ्य उपसङ्ख्यानम्। नवयज्ञो ऽस्मिन् वर्तते नावयज्ञिकः कालः। पाकयज्ञैकः। पूर्णमासादण्। पूर्णमासो ऽस्यां वर्तते पौर्णमासी तिथिः।
न्यासः
महाराजप्रोष्ठपदाठ्ठञ्। , ४।२।३४

बाल-मनोरमा
महाराजप्रोष्ठपदाट्ठञ् १२१९, ४।२।३४

महाराजप्रोष्ठपदाट्ठञ्। माहाराजिकमिति। महाराजो वैश्रवणः, स देवता अस्येति विग्रहः। प्रौष्ठपदिकमिति। प्रोष्ठपदो देवता अस्येति विग्रहः।