पूर्वम्: ४।२।३६
अनन्तरम्: ४।२।३८
 
सूत्रम्
भिक्षाऽ‌ऽदिभ्योऽण्॥ ४।२।३७
काशिका-वृत्तिः
भिक्षाऽअदिभ्यो ऽण् ४।२।३८

भिक्षा इत्येवम् आदिभ्यः शब्देभ्यो ऽण् प्रत्ययो भवति तस्य समूहः इत्येतस्मिन् विषये। अण्ग्रहनं बाधकबाधनार्थम्। भिक्षाणां समूहः भैक्षम्। गार्भिणम् युवतिशब्दो ऽत्र पठ्यते, तस्य ग्रहणसामर्थ्याद् पुम्बद्भावो न भवति भस्याढे तद्धिते ६।३।३४ इति। युवतीनां समूहो यौवतम्। भैक्षा। गर्भिणी। क्षेत्र। करीष। अङ्गार। चर्मिन्। धर्मिन्। सहस्र। युवति। पदाति। पद्धति। अथर्वन्। दक्षिणा। भूत।
न्यासः
भिक्षादिभ्योऽण्। , ४।२।३७

अथाण्ग्रहणं किमर्थम्, न भिक्षादिभ्यो यथाविहितमेवोच्येत? इत्यत आह-- "अण्ग्रहणम्" इत्यादि। भिक्षाशब्दोऽयम् "गुरोश्च हलः"३।३।१०३ इत्यकारप्रत्ययान्तत्वादन्तोदात्तः। तत्र "अनुदात्तोदेरञ्" ४।२।४३ इत्यञ् अणो बाधकः प्राप्नोति, तस्य बाधकस्य बाधनार्थमण्ग्रहणम्। ननु च यद्यत्राण् स्यात् पुनर्वचनमनर्थकं स्यात्? नैतदस्ति; परत्वादचित्तलक्षणष्ठक् प्राप्नोति, अतस्तद्बाधनर्थं पुनर्वचनं स्यात्। अञ्प्रत्ययस्तु स्यादेव, अण्ग्रहणात् पुनरणेवेति न भवत्येष दोषः। "गार्भिणम्" इति। गर्भिणीनां समूहो "भस्याऽढे तद्धिते" (वा।७३१)। "सिद्धत्वात् प्रत्ययविधौ" ४।२।३७ पुंवद्भावेन स्त्रीप्रत्ययनिवृत्तिः, ततोऽण्, तस्मिन् "नस्तद्धिते" ६।४।१४४ इति टिलोपः प्राप्तः, "इनण्यनपत्ये" ६।४।१६४ इति प्रकृतिभावान्न भवति। "तस्यग्रहण" इति। युवतिशब्दस्य यदि पुंवद्भावो न भवति, तदा तस्य प्रत्ययान्तत्वात् "अनुदात्तादेः" ४।२।४३ इत्यञि प्राप्ते तद्बाधनार्थमिहाण्ग्रहममर्थवद्भवति। यदि पुंवद्भावः स्यात् तदा तदनर्थकं स्यात्। तथा हि --"सिद्धश्च" प्रत्ययविधौ" (वा। ४।२।३८) इति वचनादनुत्पन्न एव तद्धिते बुद्धिस्थे पुंवद्भावेन भवितव्यम्। युव शब्दस्य "कनिन् यृवृषितक्षिराजिधन्विद्युप्रतिदिवः" (द।उ।६।५१) इति कनिन्प्रत्ययान्तस्य नित्स्वरेणाद्युदात्तत्वम्। तत्र यदि पुंवद्भावः स्यादुत्सर्गलक्षणेवाण् सिद्ध इतीह ग्रहणमनर्थकं स्यात्। तस्मान्ना भूदस्सयानर्थक्यमिति तस्यग्रहणसामथ्र्यादेव पुंवद्भावो न भवति, तेन यौवतमिति सिद्धं भवति॥
बाल-मनोरमा
भिक्षादिभ्योऽण् १२२६, ४।२।३७

भिक्षादिभ्योऽण्। तस्य समूह इत्येव। भैक्षमिति। अत्र "अचित्तहस्ती"ति वक्ष्यमाणठगपवादोऽण्। गार्भिणमिति। गर्भशब्दान्मत्वर्थीये इन्प्रत्यये कृते प्रत्ययः परश्च आद्युदात्तश्चेति इकारस्य उदात्तत्वे "अनुदात्तं पदमेकवर्ज"मिति शिष्टस्यानुदात्तत्वे गर्भिन्शब्दः अनुदात्तादिः। ततो नान्तलक्षणङीपि तस्य "अनुदात्तो सुप्पितौ" इत्यनुदात्तत्वे गर्भिणीशब्दोऽप्यनुदात्तादिरेव। ततः समूहेऽर्थे "अनुदात्तादेर"ञिति वक्ष्यमाणे अञि प्राप्ते भिक्षादित्वादणिति भावः। अणि प्रत्ययस्वरेणान्तोदात्तत्वम्, अञि तु "ञ्नित्यादिर्नित्यम्" इत्याद्युदात्तत्वमिति स्वरे विशेषः। अणि टिलोपाऽभावोऽपि प्रयोजनमिति दर्शयति--इह भस्येति। गर्भिणीशब्दादणि सति "भस्याऽढे" इति पुंवत्त्वेन ङीपो निवृत्तौ गर्भिन् अ इति स्थिते "नस्तद्धिते" इति टिलोपे प्राप्ते सतीत्यर्थः।

तत्त्व-बोधिनी
भिक्षादिभ्योऽण् १००२, ४।२।३७

भिक्षादिभ्योऽण्। भैक्षमिति। अचित्तत्वाठ्ठक् प्राप्तः। गार्भिणमिति। अनुदात्तादित्वादञ् प्राप्तः। सति हि तस्मिन्नाद्युदात्तटिलोपौ स्याताम्। न च "भस्याढे" इति पुंवाचकरूपा तिदेशान्न टिलोपः स्यादिति वाच्यं, हस्तिनीनां समूहो हास्तिकमित्यत्रापि टिलोपाऽनापत्तेः। तस्मात्स्त्रीप्रत्ययनिवृत्तिमात्रपरं तन्न तु रूपातिदेशकमिति बोध्यम्।