पूर्वम्: ४।२।४
अनन्तरम्: ४।२।६
 
सूत्रम्
संज्ञायां श्रवणाश्वत्थाभ्याम्॥ ४।२।५
काशिका-वृत्तिः
संज्ञायां श्रवणाश्वत्थाभ्याम् ४।२।५

अविशेषे लुप् विहितः पूर्वेण, विशेषार्थो ऽयम् आरम्भः। श्रवनशब्दादश्वत्थशब्दाच् च उत्पन्नस्य प्रत्ययस्य लुब् भवति संज्ञायां विषये। श्रवणारात्रिः। अश्वत्थो मुहूर्तः। लुपि युक्तवद्भावः कस्मान् न भवति? निपातनात् विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः ४।२।२२ इति। संज्ञायाम् इति किम्? श्रावणी, आश्वत्थी रात्रिः।
न्यासः
संज्ञायां श्रवणा�आत्थाभ्याम्। , ४।२।५

"लुपि युक्तवद्भावः कस्मान्न भवति" इति। यदि स्यात्, श्रवणशब्दस्य पुंल्लिङ्गता स्यात्। "निपातनात्" इत्यादिना परिहारः। गतार्थः॥
बाल-मनोरमा
संज्ञायां श्रवणाऽ�आत्थाभ्याम् ११८८, ४।२।५

संज्ञायाम्। श्रवणाऽ()आत्थाभ्यां परस्य नक्षत्र प्रत्ययस्य लुप् स्यात्संज्ञायामित्यर्थः। ननु लुबविशेषे" इत्येव सिद्धे किमर्थमिदमित्यत आह--विशेषार्थोऽयमारम्भ इति। श्रवणा रात्रिरिति। श्रवणयुक्तचन्द्रमसा युक्ता रात्रिरित्यर्थः। "विभाषा फाल्गुनीश्रवणे"ति सूत्रे श्रवणेति निर्देशस्य सामान्यापेक्षत्वादपोर्णमास्यामपि युक्तवद्भावो नेति विज्ञायते। अतः "श्रवणा रात्रि"रिति सिद्धमिति प्रकृतसूत्रे भाष्ये स्पष्टम्। अ()आत्थो मुहूर्त इति। अ()आत्थो नाम अ()इआनीनक्षत्रम्। तेन युक्तः अ()आत्थः--मुहूर्तविशेषो ज्यौतिषे प्रसिद्धः।