पूर्वम्: ४।२।६२
अनन्तरम्: ४।२।६४
 
सूत्रम्
प्रोक्ताल्लुक्॥ ४।२।६३
काशिका-वृत्तिः
प्रोक्ताल् लुक् ४।२।६४

प्रोक्तसहचरितः प्रत्ययः प्रोक्तः। प्रोक्तप्रत्ययान्तादध्येतृवेदित्रोः उत्पन्नस्य लुग् भवति। पाणिनिना प्रोक्तं पाणिनीयम्। तदधीते पाणिनीयः। आपिशलः। स्त्रियां स्वरे च विशेषः। पाणिनीया ब्राह्मणी।
न्यासः
प्रोक्ताल्लुक्। , ४।२।६३

युक्तो निर्देशो यदि प्रोक्तनामा ग्रन्थो व्याकरणादिर्भवति, न चासावस्ति; अन्यार्थेन ततः परः सम्भवतीत्येतं दोषमाकर्त्तुमाह-- "प्रोक्तसहचरितः" इत्यादि। साहचर्यात् सोऽयमित्यभेदोपचारेण प्रोक्तार्थे यो वहितः प्रत्ययः स प्रोक्तशब्देनोक्त इति दर्शयति। "पाणिनीयः" इति। "वृद्धाच्छः" ४।२।११३ तदन्तात् "तदधीते तद्वेद" ४।२।५८ इत्यण्। तस्य लुक् "पाणिनीयः"। आपिशलिना प्रोक्तमित्यण्, तस्य लुक्--- "आपिशलः"। कः पुनरत्र विशेषोऽर्थो लुकि सति, यावता तदेव रूपम्? इत्याह-- "स्त्रियाम्" इत्यादि। असति लुकि "टिड्ढाणञ्" ४।१।१५ इति ङीप् स्यात्, सोऽणः स्वरेणान्तोदात्तः। लुकि हि सति टाब्भवति, स्वरेण तु मध्योदात्तः। आपिशलिशब्दाल्लुकि सति स्वरे नास्ति विशेषः। सत्यपि हि लुक्यन्तोदात्तत्वेन भवितव्यम्। स्त्रियान्तु पूर्वोक्तो विशेषो वत्र्तते--- न हि लुकि सति ङीब्भवति; सत्यप्यणि तत्रैव "अनुपसर्जनात्" ४।१।१४ इत्यधिकारात् प्रतिषेधात्, प्रोक्तार्थविहितस्य चाण इहोपसर्जनत्वात्॥
बाल-मनोरमा
प्रोक्ताल्लुक् १२५५, ४।२।६३

अथ पाणिनिशब्दं व्युत्पादयितुमुपक्रमते-प्रोक्ताल्लुक्। प्रोक्तशब्देन प्रोक्तार्थप्रत्ययो विवक्षितः। अध्येतृवेदितृप्रत्ययस्येति प्रकृतत्वाल्लभ्यते। तदाह--प्रोक्तार्थकेति। पण इति। स्तुरित्यर्थः। ननु "हलश्चे"ति घञि उपधावृद्धिः स्यादित्यत आह--घञर्ते इति। पणीति। "अत इनिठनौ" इति मत्वर्थे इनिः। तस्येति। पणिनो गोत्रापत्ये "तस्यापत्य"मित्यणि "पाणिन" इति रूपमित्यर्थः। अत्र अणोऽपत्यत्वात्तस्मिन्परे "इनण्यनपत्ये" इति प्रकृतिभावाऽभावाट्टिलोपे प्राप्ते।