पूर्वम्: ४।२।६८
अनन्तरम्: ४।२।७०
 
सूत्रम्
अदूरभवश्च॥ ४।२।६९
काशिका-वृत्तिः
अदूरभवश् च ४।२।७०

पूर्वा समर्थविभक्तिरनुवर्तते। तस्य इति षष्ठीसमर्थातदूरभवः इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। विदिशायाः अदूरभवं नगरं वैदिशम्। हैमवतम्। चकारः पूर्वेषां त्रयाणाम् अर्थानाम् इह सन्निधानार्थः। तेन उत्तरेषु। चत्वारो ऽप्यर्थाः सम्बध्यन्ते।
लघु-सिद्धान्त-कौमुदी
अदूरभवश्च १०६२, ४।२।६९

विदिशाया अदूरभवं नगरं वैदिशम्॥
न्यासः
अदूरभवश्च। , ४।२।६९

बाल-मनोरमा
अदूरभवश्च १२६३, ४।२।६९

अदूरभवश्च। तस्येति तन्नाम्नि देशे इति चानुवर्तते। तस्य अदूरभव इत्यर्थे षष्ठ()न्तादणादयः स्युस्तन्नाम्नि देशे इत्यर्थः। नन्वत्र चकारः किमर्थ इत्यत आह--चकारेणेति। अदूरभव इति विघ्यनन्तरं प्रागुक्तास्त्रयोऽर्थाः पुनरुपस्थाप्यन्ते इत्यर्थः। किमर्थमित्यत आह--तेनेति। अन्यथा संनिहितत्वाददूरभव इत्येव उत्तरविधिष्वनुवर्तेतेति भावः। चातुरर्थिकत्वमिति। चतुरर्थ्यां भव इत्यर्थे द्विगोरध्यात्मादित्वाट्ठञ्। तद्धितार्थद्विगौ तु "द्विगोर्लुगनपत्ये" इति लुक्स्यात्। केचित्तु चतुर्णां सूत्राणामर्थाश्चतुरर्थाः, तत्र भवाश्चातुरर्थिका इत्याहुः।

तत्त्व-बोधिनी
अदूरभवश्च १०२६, ४।२।६९

अदूर। अदूरमन्तिकम्। तत्र भवतीत्यदूरभवः। निपातनात्सप्तमीसमासः। चातुरर्थिकत्वामिति। चतुर्णामर्थानां समाहारश्चतुरर्थी। तत्र भवाश्चातुरर्थिकाः। अध्यात्मादित्तावट्ठञ्। चतुष्र्वर्थेषु भवा इति तद्धितार्थे द्विगौ तु "द्विगोर्लुगनपत्ये"इति ठञो लुक् स्यात्।