पूर्वम्: ४।२।६९
अनन्तरम्: ४।२।७१
 
सूत्रम्
ओरञ्॥ ४।२।७०
काशिका-वृत्तिः
ओरञ् ४।२।७१

चत्वारो ऽर्थाः अनुवर्तन्ते। उवर्णान्तात् प्रातिपदिकात् यथविहितं समर्थविभक्तियुक्तातञ् प्रत्ययो भवति तदस्मिन्नस्ति इत्येवम् आदिष्वर्थेषु। अणो ऽपवादः। अरडु आरडवम्। कक्षतु काक्षतवम्। कर्कटेलु कार्कटेलवम्। नद्यां तु परत्वान् मतुब् भवति। इक्षुमती। अञधिकारः प्राक् सुबास्त्वादिभ्यो ऽणः।
न्यासः
ओरञ्। , ४।२।७०

"यथायथम्" इति। यथास्वम्। तत्र प्रथमे प्रथमासमर्थविभक्तियुक्तात्। द्वितीये तृतीयासमर्थविभक्तियुक्तात्। तृतीयचतुर्थयोः षष्ठीसमर्थविभक्तियुक्तात्। "नद्यास्तु परत्वान्मतुबेव भवति" इति। नद्यां मतुप्" ४।२।८४ इत्यनेन॥
बाल-मनोरमा
ओरञ् १२६४, ४।२।७०

ओरञ्। "तदस्मिन्नस्ती"त्यादिषु चतुष्र्वर्थेषु प्रथमोच्चारितात्तत्तद्विभक्त्यन्तादञ्स्यात्। अणोऽपवादः। अञधिकारः "सुवास्त्वादिभ्योऽण् इति यावत्। काक्षतवमिति। कक्षतुरस्मिन्नस्तीत्यादि विग्रहः।