पूर्वम्: ४।२।७०
अनन्तरम्: ४।२।७२
 
सूत्रम्
मतोश्च बह्वजङ्गात्॥ ४।२।७१
काशिका-वृत्तिः
मतोश् च बह्वजङ्गात् ४।२।७२

बह्वचङ्गं यस्य असौ बह्वजङ्गओ मतुप्, तदन्तात् प्रातिपदिकातञ् प्रत्ययो भवति चातुरर्थिकः। अणो ऽपवादः। ऐषुकावतम्। सैध्राकावतम्। बह्वजङ्गातिति किम्? आहिमतम्। यावमतम्। अङ्गग्रहणं बह्वजिति तद् विशेषणम् यथा विज्ञायते, मत्वन्तविशेषणं मा विज्ञायि इति। मालावतां निवासो मालावतम्।
न्यासः
मतोश्च बह्वजङ्गात्। , ४।२।७१

"मालवतम्" इति। यदि बह्वजिति, न भवत्येव दोषः॥
बाल-मनोरमा
मतोश्च बह्वजङ्गात् १२६५, ४।२।७१

मतोश्च। सैध्रकावतमिति। सिध्रकावानस्मिन्नस्तीत्यादयश्चत्वारोऽर्थाः यथायोगं बोध्याः। आहिमतमिति। अहिमानस्मिन्नस्तीत्यादयोऽर्थाः। अहिशब्दस्य द्व्यच्कत्वादञ्नेति भावः।

तत्त्व-बोधिनी
मतोश्च बह्वजङ्गात् १०२७, ४।२।७१

मतोश्च। ननु "मतोर्बह्वचः"इत्यवास्तु, बह्वचो विहितो यो मतुप् तदन्तादिति वैयधिकरण्येन व्याख्यानादिष्टं सिद्ध्यति किमङ्ग ग्रहणेनेत्याशह्क निवारयति---अङ्गग्रहणमिति। मत्वन्तविशेषणमिति। सम्भवति सामानाधिकरण्ये वैयधिकरण्यस्यान्याय्यत्वादङ्गग्रहणाऽभावे मत्वन्तविशेषणं स्यादेव। ततश्चाहिमतमित्यादावतिप्रसङ्गः स्याद्ति भावः।