पूर्वम्: ४।२।७१
अनन्तरम्: ४।२।७३
 
सूत्रम्
बह्वचः कूपेषु॥ ४।२।७२
काशिका-वृत्तिः
बह्वचः कूपेषु ४।२।७३

बह्वचः प्रातिपदिकातञ् प्रत्ययो भवति चातुरर्थिकः कूपेष्वभिधेयेसु। अणो ऽपवादः। यथासम्भवमर्थाः सम्बध्यन्ते। दीर्घवरत्रेण निर्वृत्तः कूपः दैर्घवरत्रः। कापिलवरत्रः।
न्यासः
बह्वचः कूपेषु। , ४।२।७२

बाल-मनोरमा
बह्वचः कूपेषु १२६६, ४।२।७२

बह्वचः कूपेषु। बह्वचः प्रातिपदिकादञ्चतुष्र्वर्थेषु। अणोऽपवादः दीर्घवरत्रेण निर्वृतः कूपः--दैर्घवरत्रः।