पूर्वम्: ४।२।७२
अनन्तरम्: ४।२।७४
 
सूत्रम्
उदक् च विपाशः॥ ४।२।७३
काशिका-वृत्तिः
उदक् च विपाशः ४।२।७४

विपाशः उत्तरे कूले ये कूपास्तेष्वभिधेयेषु अञ् प्रत्ययो भवति चातुरर्थिकः। अणो ऽपवादः। अबह्वजर्थ आरम्भः। दत्तेन निर्वृतः कूपः दात्तः। गौप्तः। उदकिति किम्? दक्षिणतो विपाशः कूपेषु अणेव दात्तः। गौप्तः। स्वरे विशेषः। महती सूक्ष्मेक्षिका वर्तते सूत्रकारस्य।
न्यासः
उदक् च विपाशः। , ४।२।७३

बाल-मनोरमा
उदक्च विपाशः १२६७, ४।२।७३

उदक्च विपाशः। उत्तरे कूले इति। विपाश्शब्दः शकारान्तो नदीविशेषवाची।