पूर्वम्: ४।२।९७
अनन्तरम्: ४।२।९९
 
सूत्रम्
कापिश्याः ष्फक्॥ ४।२।९८
काशिका-वृत्तिः
कापिश्याः ष्फक् ४।२।९९

कापिशीशब्दात् ष्फक् प्रत्ययो भवति शैषिकः। षकारो ङीषर्थः। कापिशायनं मधु। कापिशायनी द्राक्षा। बाह्ल्युर्दिपर्दिभ्यश्च इति वक्तव्यम्। बाह्लायनी। और्दायनी। पार्दायनी।
न्यासः
कापिश्याः ष्फक्। , ४।२।९८

वृद्धा ४।२।११३दिति छे प्राप्ते कापिशीशब्दात् ष्फग्विधीयते। "बाह्लो" इत्यादि। बाह्लीत्यादिभ्यः ष्फग्भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- उत्तरसूत्रादिह चकारः सिंहावलोकितन्यायेनानुवत्र्तते, तस्यानुक्तसमुच्चयार्थत्वात् बाह्ल्यादिभ्योऽपि ष्फग्भवतीति॥
बाल-मनोरमा
कापिश्याः ष्फक् १३००, ४।२।९८

कापिश्याष्ष्फक्। कापिष्याः ष्फक् इति छेधः। कापिशीशब्दात् ष्फक् स्यादित्यर्थः। कापिशी नाम देशविशेषः। कापिशायनी द्राक्षेति। षित्त्वान्ङीष्।

तत्त्व-बोधिनी
कापिश्याः ष्फक् १०४२, ४।२।९८

कापिश्याः ष्फक्। कापिशीशब्दात्ष्फक्त्स्यात्। षित्त्वान्ङीष्। तदाह---कापिशायनीति।