पूर्वम्: ४।३।२५
अनन्तरम्: ४।३।२७
 
सूत्रम्
प्रावृषष्ठप्॥ ४।३।२६
काशिका-वृत्तिः
प्रावृषष्ठप् ४।३।२६

प्रावृट्शब्दात् सप्तमीसमर्थाज् जातः इत्येतस्मिन्नर्थे ठप् प्रत्ययो भवति। एण्यस्य अपवादः। पकारः स्वरार्थः। प्रावृषि जातः प्रावृषिकः।
लघु-सिद्धान्त-कौमुदी
प्रावृषष्ठप् १०९१, ४।३।२६

एण्यापवादः। प्रावृषिकः॥
न्यासः
प्रावृषष्ठप्। , ४।३।२६

"एण्यस्यापवादः" इति। "प्रावृष एण्यः" ४।३।१७ इति प्राप्तस्य॥
बाल-मनोरमा
प्रावृषष्ठप् १३७४, ४।३।२६

प्रावृषष्ठप्। ठपः पित्त्वम् "अनुदात्तौ सुप्पितौ" इति स्वारार्थम्। एण्यस्येति। "प्रावृष एण्यः" इति विहितस्येत्यर्थः। एवंच "प्रावृष एम्यः" इति सूत्रं जातादन्यार्थमिति पर्यवस्यति।