पूर्वम्: ४।३।३४
अनन्तरम्: ४।३।३६
 
सूत्रम्
स्थानान्तगोशालखरशालाच्च॥ ४।३।३५
काशिका-वृत्तिः
स्थानानतगोशालखरशालाच् च ४।३।३५

स्थानान्तात् प्रातिपदिकात् गोशालशब्दात् खरशालशब्दात् च जातार्थे प्रत्ययस्य लुग् भवति। गोस्थाने जातः गोस्थानः। अश्वस्थानः। गोशालः। खरशालः।
न्यासः
स्थानान्तगोशालखरशालाच्च। , ४।३।३५

गोशालखरशालयोह्र्यस्वान्तयोः पाठान्नपुंसकयोग्र्रहणं विज्ञायते। नपुंसकलिङ्गता तु "विभाषा सेनासुरा" २।४।२५ इत्यादिना। यद्यपि नपुंसकयोग्र्रहणम्, तथापि प्रतिपदिकग्रगणे लिङ्गविशिष्टस्यापि ग्रहणं भविष्यति इति स्त्रीलिङ्गाभ्यामपि लुग्भवत्येव। उदाहरणेऽप्यौत्सर्गिस्याणौ लुक्॥
बाल-मनोरमा
स्थानान्तगोशालखरशालाच्च १३८९, ४।३।३५

स्थानान्तगोशाल। एभ्य इति। स्थानान्त, गोशाल, खरशाल--एतेभ्यः इत्यर्थः। गोस्थान इति। गोस्थाने जात इत्यर्थः। गोशाल इति। गोशाले जात इत्यर्थः। एवं खरशालः। सर्वत्र अणो लुकि नादिवृद्धिः। ननु शालाशब्दस्य स्त्रीलिङ्गत्वाद्ध्रस्वनिर्देशोऽनुपपन्न इत्यत आह--विभाषा सेनेति। लिङ्गविशिष्टपरिभाषया स्त्रीलिङ्गादवपि लुक्।

तत्त्व-बोधिनी
स्थानान्तगोशालखरशालाच्च १०९१, ४।३।३५

स्थानान्त। गोशालेत्यत्र "विभाषा सेने"ति नपुंसकत्वे ह्यस्वत्वं, तत्साहचर्यत्खरशालेऽप्येवमेव। न चैवं स्त्रीत्वपक्षे लुङ् न स्यादिति शङ्क्यं, लिङ्गविशिष्टपरिभाषया तत्रापि लुक्सिद्धेरित्याहुः। यद्यपि टाबन्तयोः पाठेऽप्येकदेशविकृतन्यायेन क्लीबेऽपीष्टं सिध्यति, तथापि लाघवार्थं ह्यस्वपाठः। नपुंसकत्वे ह्यस्वत्वमिति। "सूत्रे "इति शेषः।