पूर्वम्: ४।३।५८
अनन्तरम्: ४।३।६०
 
सूत्रम्
अव्ययीभावाच्च॥ ४।३।५९
काशिका-वृत्तिः
अव्ययीभावाच् च ४।३।५९

अव्ययीभावसंज्ञाकात् प्रातिपदिकाच् च ञ्यः प्रत्ययो भवति तत्र भवः इत्येतस्मिन् विषये। अणो ऽपवादः। न च सर्वस्मादव्ययीभावाद् भवति, किं तर्हि, परिमुखादेः। परिमुखादीनां च गणपाठस्य एतदेव प्रयोजनम्। तेषां विशेषणम् अव्ययीभावग्रहणम्। परिमुखं भवं पारिमुखम्। पारिहनव्यम्। परिमुखादेरन्यत्र न भवति, औपकूलम्। परिमुख। परिहनु। पर्योष्ठ। पर्युलूखल। परिसीर। अनुसीर। उपसीर। उपस्थल। उपकलाप। अनुपथ। अनुखड्ग। अनुतिल। अनुशीत। अनुमाष। अनुयव। अनुयूप। अनुवंश।
न्यासः
अव्ययीभावाच्च। , ४।३।५९

"किं तर्हि" इत्यादि। कथं पुनरव्ययीभावादिति सामान्येनोच्यमानः प्रत्ययः परिमुखादेरेव? इत्यत आह-- "परिमुखादीनाञ्च" इत्यादि। चशब्दो हेतौ। न ह्रन्तत् कार्यमस्ति परिमुखादिगणपाठस्य। तत्र यद्यप्येतदपि न स्यात्, विध्यर्थमेव तस्य स्यात्, तस्मात् परिमुखादेरेव भवति, न सर्वस्मादव्ययीभावात्। यद्येवम्, परिमुखादेरित्येवं वक्तव्यमित्याह-- "तेषाम्" इत्यादि। यदि हि परिमुखादेरित्युच्यते, ततोऽसत्यव्ययीभावग्रहणे तत्पुरुषेभ्योऽपि परिमुखादिभ्यः प्रत्ययः स्यात्, त()स्मस्तु सति न भवति-- परिगतं मुखं परिमुखमिति प्रादिसमासः, तत्र भवः परिमुखः; अणेव भवति। अपि चोत्तरार्धमव्ययीभावग्रहणमवश्यमेव कत्र्तव्यम्-- "अन्तःपूर्वपदाट्ठञ्" ४।३।६०। "ग्रामात्पर्यनुपूर्वात्" ४।३।६१ इत्यव्ययीभावाद्यथा स्यात्। "पारिहनव्यम्" इति। "ओर्गुणःर" ६।४।१४६, "वान्तो यि प्रत्यये" ६।१।७६ इत्यवादेशः। "औपकूलम्" इति। "अव्ययं विभक्ति" २।१।६ इत्यादिनाऽव्ययीभावः। एष च परिमुखादिषु न पठ()त इत्यणेव भवति। अत्र पिरमुखमिति कथमव्ययीभावः? यावता अपपरिबहिरञ्चवः पञ्चम्या २।१।११ समस्यन्ते, पञ्चमी च परिणा कर्मप्रवचनीयेन योगे भवति, कर्मप्रवचनीयसंज्ञा तु "अपपरी वर्दने" १।४।८७ इत्यनेन, न च परिमुखे वर्जनं गम्यते, किं तर्हि? सर्वतोभावः? एवं तर्हि "अव्ययम्" २।१।६ इति योगविभागव्ययीभावो भविष्यति। अन्ये तु येऽत्र परिहनुप्रभृतयोऽव्ययीभावाः, ते "अपपरिबहिरञ्चवः पञ्चम्या" २।१।११ इत्यनेनैव भवन्ति। अत्र येष्वपि वर्जनं न गम्यते, ततस्तेष्वयि "अव्ययम्" २।१।६ इति योगविभागेनैव। ये तूपसीरादय उपपूर्वाः, ते सामीप्ये "अव्ययम्" २।१।६ इत्यादिना। "अनुगङ्गम्" इति। "यस्य चायामः" २।१।१५ इत्यव्ययभावः। अन्ये तु येऽनुसीरादयोऽनुपूर्वास्ते पश्चादर्थेऽव्ययमित्यादिना॥
बाल-मनोरमा
अव्ययीभावाच्च १४१५, ४।३।५९

अव्ययीभावाच्च। "ञ्य" इति शेषः।

परिमुखादिभ्य इति। यद्यपीदं वार्तिकं भाष्ये न दृष्टं, तथापि दिगदिगणपाठानन्तरं परिमुखादिगणपाठसामथ्र्यादिहाव्ययीभावपदं परिमुखादिपरमिति गम्यते। न ह्रष्टाध्याय्यां परिमुखादिगणस्य कार्यान्तरमस्ति। औपकूल इति। उपकूलं भव इत्यर्थः। अव्ययीभावत्वेऽपि परिमुखाद्यनन्तर्भावान्न ञ्यः।

तत्त्व-बोधिनी
अव्ययीभावाच्च ११११, ४।३।५९

अव्य। परिमुखमिति। यदि परिशब्दादिह वर्जनं गम्यते, तदा"अपपरिबहिरञ्चवः पञ्चम्ये"त्यब्ययीभावः। यदि तु सर्तोभावः, तदा त्वस्मादेव निपातनादब्ययीभाव इत्याहुः।

परिमुखादिभ्यएवेष्यते। परिमुखादिभ्य एवेति। अयं भावः---दिगादिगणानन्तेरं परिमुख, परिहनु, पर्याष्ठ, पर्युलूखलेत्यादि परिमुखाः दिगणः पट()ते, तत्साहचर्यादिह सूत्रेऽव्ययीभावशब्देन परिमुखादिरेव गृह्रते। तस्य गणस्। कार्यान्तराऽभावादिति। नन्वेवं "परिमुखादे"रिति सूत्रं विशिष्यैव क्रियतां, किमनेन प्रयासेन()। उत्तरत्र "अव्ययीभावा"दित्यस्यापेक्षायमपि तत्रैव तत्करणौचित्यादिति चेत्। अतारिह हरदत्तः---"परिमुखादेः"इत्युच्यमाने बहुव्रीहितत्पुरुषेभ्योऽपि ञः स्यात्, अव्ययीभावग्रहणात्तु तेभ्योऽणेव भवतीति। परिमुखादिगणे प्रतिशाखशब्दोऽपि बोध्यः। तथा च"शाखृ व्याप्तौ"इति धातौ प्रतिशाखं भवं प्रातिशाख्यम्। "अव्ययीभावाच्चे"ति भवार्थे ञ इति माधवः।