पूर्वम्: ४।३।५९
अनन्तरम्: ४।३।६१
 
सूत्रम्
अन्तःपूर्वपदाट्ठञ्॥ ४।३।६०
काशिका-वृत्तिः
अन्तःपूर्वपदाट् ठञ् ४।३।६०

अव्ययीभावातित्येव। अन्य्तःशब्दो विभक्त्यर्थे समस्यते। अतपूर्वपदातव्ययीभावाट् ठञ् प्रत्ययो भवति तत्र भवः इत्येतस्मिन् विषये। अणो ऽपवादः। आन्तर्वेश्मिकम्। आन्तर्गेहिकम्। समानशब्दाद् ठञ् वक्तव्यः। समाने भवं सामानिकम्। तदादेश्च। सामानग्रामिकम्। सामानदेशिकम्। अध्यात्मादिभ्यश्च। आध्यात्मिकम्। आधिदैविकम्। आधिभौतिकम्। अध्यात्मादिराकृतिगणः। ऊर्ध्वन्दमाच् च ठञ् वक्तव्यः। और्ध्वन्दमिकः। ऊर्ध्वशब्देन समानार्थ ऊर्ध्वन्दमशब्दः। ऊर्ध्वदेहाच् च। और्ध्वदेहित्कम्। लोकोत्तरपदाच् च। ऐहलौकिकम्। पारलौकिकम्। मुखपार्श्वशब्दाभ्यां तसन्ताभ्यामीयः प्रत्ययो वक्तव्यः। मुखतीयम्। पार्श्वतीयम्। जनपरयोः कुक् च। जनकीयम्। परकीयम्। मध्यशब्दादीयः। मध्यीयः मण्मीयौ च प्रत्ययौ वक्तव्यौ। माध्यमम्। ंध्यमीयम्। मध्यो मध्यं दिनण् च अस्मात्। मध्ये भवं माध्यन्दिनम्। स्थम्नो लुग् वक्तव्यः। अश्वत्थामा। अजिनान्ताच् च। वृकाजिनः। सिंहाजिहः। समानस्य तदादेश्च अध्यात्मादिषु च इष्यते। ऊर्ध्वन्दमाच्च देहाच्च लोकोत्तरपदस्य च। मुखपार्श्वतसोरीयः कुग्जनस्य परस्य च। ईयः कार्यो ऽथ मध्यस्य मण्मीयौ प्रत्ययौ तथा। मध्यो मध्यं दिनण् च अस्मात् स्थाम्नो लुगजिनात् तथा।
न्यासः
अन्तः पूर्वपदाट्ठञ्। , ४।३।६०

"अन्तःशब्दो विभक्त्यर्थे समस्यते" इति। "अव्ययं विभक्ति" २।१।६ इत्यादिना। विभक्त्यर्थस्त्वधिकरणम्, अन्तःशब्दस्याधिकरणप्रधानत्वात्। समानशब्दाट्ठञ्वक्तव्यः" इति वक्तव्यशब्दो व्याख्येये। तत्रेदं व्याख्यानम्-- इहान्तःपूर्वादित्येवं सिद्धे यदधिकं पदग्रहणं तदधिकमिह कार्यं भवतीत्येवमर्थं क्रियते, तेन समानशब्दादपि इञ् भवतीति। एतेन शब्दान्तरादेव। अध्यात्मादिभ्य ऊध्र्वन्दमादूध्र्वदेहाल्लोकोत्तरपदाच्च ठञ् भवतीति वेदितव्यम्। "आध्यात्मिकम्" इति। "आध्यात्मिकम्" इति। आत्मन्यधि अध्यात्मम्, विभक्त्यिर्थेऽव्ययीभावः। "अनुशतिकादीनाञ्च" ७।३।२० इत्युभयपदवृद्धिः। "अध्यात्मादिराकृतिगणश्चायम्" इति। यद्येवम्, "समानशब्दाट्ठञ् वक्तव्यः" (वा।४५४) इत्यद्यनर्थकम्, अध्यात्मादिभ्यश्चेत्यनेनैव सिद्धत्वात्? नानर्थक्; अस्यैव प्रपञ्चार्थत्वात्। अध्यात्मादिरेव तत् प्रपञ्च्यते। ननु चाकारान्त ऊध्र्वशब्दः, तत् कुत इह मकारान्तत्वमायातमित्ाह-- "ऊध्र्वशब्देन" इत्यादि। "ऐहलौकिकः, पारलौकिकः" इति। पूर्ववदुभयपदवृद्धिः। "मुखतीयम्, पार्(ातीयम्" इति। "अपादाने चाहीयरुहोः" ५।४।४५ इति तसिः। "आद्यादिभ्य उपसंख्यानम्" (वा।६३४) इत्यौपसंख्यानिको वा। "अव्ययानां भमात्रे टिलोपः" (वा।८४२) इत्यनेन टिलोपः। "मण्नीयौ च प्रत्ययौ वक्तव्यौ" इति। मध्यशब्दादित्यपेक्षते। "मध्यो मध्यं दिनण् चास्मात्" इति। मध्यशब्दो मध्यम्भावमापद्यते, दिनण् चास्मात् प्रत्ययो भवति। "स्थाम्नः" इति। स्थामशब्दान्तात् प्रातिपदिकात्। अ()आस्येव स्थाम बलमस्येति बहुव्रीहिः, पृषोदरदित्वात् सकारस्य तकारः। अ()आत्थाम्नि भव इत्यण्, तस्य लुक्। "आजिनान्ताच्च" इति। लुगिति सम्बध्यते। "वृकाजिनः" इति। अणो लुक्। "समानस्य" इति। आनन्तर्यलक्षणा षष्ठी। समानशब्दादनन्तरष्ठञिष्यत इत्यर्थः। "समानस्य" इति। आनन्तर्यलक्षणा षष्ठी। समानशब्दादनन्तरष्ठञिष्यत इत्यर्थः। "अध्यात्मादिषु" इति। वैषयिकेऽधिकरणे सप्तमी। अध्यात्मादिविषये ठञिष्यत इत्यर्थः। "कुग्जनस्य परस्य च" इति। चकारादीयश्च प्रत्ययः। "ऊध्र्वन्दमाच्च देहाच्च" इति। ऊध्र्वशब्दात् परस्मात् दमशब्दादूध्र्वशब्दाद्देशशब्दाच्च ठगिष्यत इत्यर्थः। "ईयः कार्योऽथ मध्यस्य" इति। अथशब्दः समुच्चये। मध्यशब्दस्यानन्तर ईयः कार्य इत्यर्थः। "मण्मीयौ प्रत्ययौ तथा" इति। मध्यशब्दादित्यपेक्ष्यते। मण्मीयौ मध्यशब्दस्यान्तरौ कत्र्तव्यौ। "अजिनात्तथा" इति। अजिनान्तात् लुग्वक्तव्य इत्यर्थः
बाल-मनोरमा
अन्तःपूर्वपदाट्ठञ् १४१६, ४।३।६०

अन्तःपूर्वपदाट्ठञ्। अन्तर्वेश्ममिति। विभक्त्यर्थेऽव्ययीभावः। "अनश्चे"ति टच्। आन्तर्वेश्मिकमिति। ठञ्। इकः। सुब्लुक्। टिलोपः। आदिवृद्धिः। आन्तर्गणिकमिति। गणे इत्यन्तर्गणम्। तत्र भवमित्यर्थः। आध्यात्मिकमिति। आत्मनीत्यध्यात्मम्। तत्र भवमित्यर्थः।

आध्यात्मिकमिति। आत्मनीत्यध्यात्मम्। तत्र भवमित्यर्थः।

तत्त्व-बोधिनी
अन्तःपूर्वपदाट्ठञ् १११२, ४।३।६०

अन्तः पूव। अन्तर्वेश्ममिति। "नपुंसकादन्यतरस्या "मिति समासान्तष्टच्।

अध्यात्मादेष्ठञिष्यते। अध्यात्ममिति। "अनश्चे"ति टच्।