पूर्वम्: ४।४।११२
अनन्तरम्: ४।४।११४
 
सूत्रम्
सगर्भसयूथसनुताद्यन्॥ ४।४।११३
काशिका-वृत्तिः
सगर्भसयूथसनुताद् यन् ४।४।११४

सगर्भसयूथसनुतशब्देभ्यो यन् प्रत्ययो भवति तत्र भवः इत्येतस्मिन् विषये। यतो ऽपवादः। स्वरे विशेषः। अनु भ्राता सगर्भ्यः। अनु सहा सयूथ्यः। यो नः सनुत्यः। सर्वत्र समानस्य छन्दसि इति सभावः।
न्यासः
सगर्भसयूथसनुताद्यन्। , ४।४।११३

समानो गर्भः, समानो यूथ इति कर्मधारयः। "णु स्तुतौ" (धा।पा।१०३५) , भावेक्तः, समानं नुतमस्येति बहुव्रीहिः। समानञ्च तन्नुतञ्चेति कर्मधारयो वा। "स्वरे विशेषः" इति। यति सति "स्वरितम्" ६।१।१७९ इत्यन्तस्वरितत्वं स्यात्, यनिसति नित्स्वरेणाद्युदात्तत्वं स्यात्। "सर्वत्र समानस्य च्छन्दसि" इति। "समानस्य च्छन्दस्यमूर्धप्रभृत्युदर्केषु" ६।३।८३ इत्यस्योपलक्षणपर एकदेश उपात्तः॥