पूर्वम्: ४।४।२८
अनन्तरम्: ४।४।३०
 
सूत्रम्
परिमुखं च॥ ४।४।२९
काशिका-वृत्तिः
परिमुखं च ४।४।२९

परिमुखशब्दाद् द्वितीयासमर्थाद् वर्तते इत्येअस्मिन्नर्थे ठक् प्रत्ययो भवति। परिमुखं वर्तते पारिमुखिकः। चकारो ऽनुक्तसमुच्चयार्थः। पारिपार्श्विकः।
न्यासः
परिमुखञ्च। , ४।४।२९

"पञ्चम्ययाङ्परिभिः" २।३।१० इति पञ्चमी। "अपपरिबहिररञ्चवः पञ्चम्या" २।१।११ इत्यव्ययीभावसमासः, ततष्ठक्। स्वाभिमुखं वर्जयित्वा यः सेवको वत्र्तते स पारिमुखिकः। सर्वतोभावे वा परिः, तस्य "कुगतिप्रादयः" २।२।१८ इति प्रादिसमासः। यतो यतः स्वामिनो मुखं वत्र्तते ततस्ततो यः सेवको वत्र्तते स पारिमुखिकः॥
बाल-मनोरमा
परिमुखं च १५५८, ४।४।२९

परिमुखं च। अस्माद्द्वितीयान्ताद्वर्तते। इत्यर्थे ठगित्यर्थः। चादिति। चकारादनुक्तसमुच्चयार्थात् परिपार्(ामित्यस्मादपि ठकि पारिपार्(िआकः।

तत्त्व-बोधिनी
परिमुकं च १२०५, ४।४।२९

परिमुखमिति। "अपपरी वर्जने"इति परेः कर्मप्रवचनीयसंज्ञायां "पञ्चम्यपाङ्परिभि"रिति पञ्चमी। "अपपरिबहिरञ्चवः पञ्चम्या"इत्यव्ययीभावः। ततष्ठक्। स्वामिनो मुखं वर्जयित्वा यः सेवको वर्तते स---"पारिमुखिकः"। यदा तु सर्वतोभावे परिशब्दः, प्रादिसमासश्च, तदा यतो यतः स्वामिनो मुखं ततस्ततो यो वर्तते स एवमुच्यते। एवं पारिपार्(िआकोऽप्यर्थद्वये बोध्यः।