पूर्वम्: २।३।६८
अनन्तरम्: २।३।७०
 
प्रथमावृत्तिः

सूत्रम्॥ न लोकाव्ययनिष्ठाखलर्थतृनाम्॥ २।३।६९

पदच्छेदः॥ ७० लोकाव्ययनिष्ठाखलर्थतृनाम् ६।३ षष्ठी १।१ ५०

काशिका-वृत्तिः
न लौउकाव्ययनिष्ठाखलर्थतृनाम् २।३।६९

कर्तृकर्मणोः कृति २।३।६५ इति प्राप्ता षष्ठी प्रतिषिध्यते। ल उ उक अव्यय निष्ठा खलर्थ तृनित्येतेषां प्रयोगे षष्ठी विभक्तिर् न भवति। ल इति शतृशानचौ, कानच्क्वसू, किकिनौ च गृह्यन्ते। ओदनं पचन्। ओदनं पचमानः। ओदनं पेचानः। ओदनं पेचिवान्। पपिः सोमं ददिर्गाः। उ कटं चिकीर्षुः। ओदनं बुभुक्षुः। कन्यामलङ्करिष्णुः। इष्णुचो ऽपि प्रयोगे निषेधः। उक आगामुकं वाराणसीं रक्ष अहुः। उकप्रतिषेधे कमेर् भाषायाम् अप्रतिषेधः। दास्याः कामुकः। अव्यय कटं कृत्वा। ओदनं भुक्त्वा। अव्ययप्रतिषेधे तोसुङ्कसुनोरप्रतिषेधः। व्युष्टायां पुरा सूर्यस्योदेतोरधेयः। पुरा क्रूरस्य विसृपो विरप्शिन्। निष्ठा ओदनं बुक्तवान्। देवदत्तेन कृतम्। खलर्थ ईषत्करः कटो भवता। ईषत्पानः सोमो भवता। तृनिति प्रयाहारग्रहणम्। लटः शतृशानचावप्रथमा। समानाधिकरणे ३।२।१२४ इत्यारभ्य आ तृनो नकारात्। तेन शानञ्चानश्शतृतृनाम् अपि प्रतिषेधो भवति। सोमं पवमानः। नडमाघ्नानः। अधीयन् पारायनम्। कर्ता कटान्। वदिता जनापवादान्। द्विषः शतुर्वाव्चनम्। चौरं द्विषन्, चौरस्य द्विषन्।
न्यासः
न लोकाव्ययनिष्ठाखलर्थतृनाम्। , २।३।६९

"किकिनौ च गृह्रेते" इति। यद्यपि किकिनोरलादेशत्वात् स्थानिवद्भावेन लग्रहणेन तयोग्र्रहणं नास्ति, तथापि "लिट् च" ३।२।१७१ इत्यतिदेशेन भवितव्यम्। विशेषातिदेशे हि नान्तरीयकः सामान्यातिदेश इति; विशेषस्य सामान्येनाविनाभावादिति। तेन सामान्यनिबन्धनः प्रतिषेधः किकिनोरपि सिध्यतीति युक्तं तयोरपि ग्रहणम्। "पचमानः" इति शानच्। स्वरितेत्त्वादात्मनेपदम्। "पेचानः" इति। "लिटः कानज्वा" ३।२।१०६ इति वचनात्, कानच्। द्विर्वचनम्। "अत एक" ६।४।१२० इत्यादिनैत्वाभ्यासलोपौ। "पेचिवान्" इति। "क्वुश्च" ३।२।१०७ इति क्वसुः। एत्वाभ्यासलोपयोः कृतयोः "वस्वेकाजाद्धसाम्" ७।२।६७ इतीट्। "उगिदचाम्" ७।१।७०इति नुम्। "सान्तमहसः" ६।४।१० इत्यादिना दीर्घः। "ददिः। पपिः" इति। "आदृगमहनजनः किकिनौ लिट् च" ३।२।१७१ इति किकिनोरन्यतरः। लिट् चेत्यतिदेशाद्द्विवनम्। "आतो लोप इटि च" ६।३।६३ इत्याकारलोपः। "चिकीर्षुः" इति। "सनासंसभिक्ष उः" ३।२।१६८। "अलङ्करिष्णुः"इति। "अलंकृञ्" ३।२।१३६ इत्यादिनेष्णुच्। "{आगामुकम्- काशिका, पदमञ्जरी च।} आगामुकः" इति। "लषपतपद"३।२।१५४ इत्यादिनोकञ्। "उकप्रतिषेधे" इत्यादि। प्रतिपाद्यत इति शेषः। प्रतिपादनन्तु बहुलग्रहणानुवृत्तिमाश्रित्य कत्र्तव्यम्। "कृत्वा" इति। "समानकर्त्तृकयोः" ३।४।२१ इति क्त्वा। "अव्ययप्रतिषेधे" इत्यादि। अत्रापि पूर्ववद्वाक्यशेषो वेदितव्यः। प्रतिपादनञ्च पूर्ववदेव। अथ वा -- "अव्ययीभावश्च" १।१।४० इत्यत्र "सर्वमिदं काण्डं स्वरादिषु पठ()ते" (१।१।४१ काशिका) इत्यादिना वृत्तिकारेण प्रतिपादनं कृतम्। "संज्ञापूर्वको विधिरनित्यः" (व्या।प।६४) इति वा। "उदेतोः" इति। उत्पूर्वादिणो "भावलक्षणे स्थेण्कृञ्वदिचरि" ३।४।१६ इत्यादिना तोसुन्। "विसृपः" इति। "सृपितृदोः कसुन्" ३।४।१७। " ईषत्करः" इति। "ईषद्" ३।३।१२६ इत्यादिना खल्। "ईषत्पानः" इति। "आतो युच्" ३।३।१२८। "आतृनो नकारात्" इति। ताच्छीलिकस्य तृनः सम्बन्धिनो नकारादित्यर्थः। " पवमानः" इति। "पूङ पवने" (धा।पा।९६६), "पूङयजोः शानन्" ३।२।१२८। "नडमघ्नानः" इति। "ताच्छील्यवयोवचनशक्तिषु चानश् ३।२।१२९। "गमहन" ६।४।९८ इत्यादिनोपधालोपः। "हो हन्तेः"७।३।५४ इत्यादिना कुत्वम्। "अधीयन्" इति। "इङ धार्योः शत्रकृच्छ्रिणि" ३।२।१३० इति शत्रादेशः। इयङादेशः। उपसर्गेण सह दीर्घः। "कत्र्ता" इति। "आ क्वेस्तच्छील" ३।२।१३४ इत्यादिना तृन्। "द्विषः शतुर्वावचनम्" इति। द्विषः परो यः शतृप्रत्ययस्य प्रयोगे वावचनं कत्र्तव्यम्; अभिधानाभिधेययोरभेदोपचारात्। वेत्यनेन वार्थ उक्तः। वार्थोऽपि विकल्पः। विकल्प उच्यते = प्रत्याय्यते येन तद्वावचनम्। तस्य व्याख्यानं कत्र्तव्यमित्यर्थः। तत्रेदं व्याख्यानं -- बहुलग्रहणमिहानुवत्र्तते, तेन द्विषः शतुर्विकल्पेन प्रतिषेधो भविष्यति। "द्विषन्" इति। "द्विषोऽमित्रे" ३।२।१३१ इति शतृप्रत्ययः॥
बाल-मनोरमा
न लोकाव्ययनिष्ठाखलर्थतृनाम् ६१९, २।३।६९

न लोक। एषामिति। ल, उ, उक, अव्यय, निष्ठा, खलर्थ, तृन् एषामित्यर्थः। उ, उक इत्यत्र सवर्णदीर्घे सति ऊकेति भवति। ततो ल-ऊकेत्यत्र आद्गुणे लोकेति भवति। लादेशेति। अविभक्तिकनिर्देशोऽयं लादेशोदाहरणसूचनार्थः। ल इति लडादीनां सामान्येन ग्रहणम्। तेषां च साक्षात्प्रयोगाऽभावात्तदादेशग्रहणमिति भावः। कुर्वन्कुवाणो वेति। लटः शतृशानचौ। इह कर्मणि षष्ठीनिषेधाद्द्वितीया। उ इति। उदाहरणसूचनमिदम्। उ इत्यनेन कृतो विशेषणात्तदन्तविधिः। हरिं दिदृक्षुरिति। दृशेः सन्नन्तात् "सनाशंसभिक्ष उः" इति उप्रत्ययः कृत्। व्यपदेशिवत्त्वेन उकारान्तोऽयं कृत्। हरिकर्मकदर्शनेच्छावानित्यर्थः। अलङ्करिष्णुर्वेति। हरिमित्यनुषज्यते। "अलं कृञि"त्यादिना ताच्छील्यादाविष्णुच्। उवर्णस्यैव ग्रहणे त्वत्र निषेधो न स्यात्। उक इति। इदमपि तदुदाहरणसूचनार्थम्। दैत्यान्घातुको हरिरिति। "आ क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु" इत्यधिकारे "लषपतपदस्थाभूवृषहनकमगमशृ()भ्य उकञि"ति तच्छीलादिषु हनधातोः कर्तरि उकञ्प्रत्ययः, उपधावृद्धिः। "हो हन्तेः" इति हस्य घत्वम्। "हनस्तोऽचिण्णलोः" इति नकारस्य तकारः। घातनशीलः, घातनधर्मा घातनसाधुक#आरी वेत्यर्थः।

कमेरिति। वार्तिकमिदम्। उकान्तकमेर्योगे षष्ठ()आ निषेधो नास्तीत्यर्थः। लक्ष्म्याः कामुक इति। "लषपते"त्यादिना उकञ्। अव्ययमिति। उदाहरणसूचमिदम्। जगत्सृष्ट्वेति। "हरिरास्ते"इति शेषः। "समानकर्तृकयोः" इति क्त्वाप्रत्ययः। क्त्वातोसुन्कसुनः" इति अव्ययत्वम्। सुखं कर्तुमिति। "भक्तस्य हरिः प्रभवती"ति शेषः। "तुमिन्ण्वुलौ क्रियायां क्रियार्थाया"मिति तुमुन्। "कृन्मेजन्तः" इत्यव्ययत्वम्। इह कृदव्ययमेव गृह्रत इति केचित्। वस्तुतस्त्वविशेषादकृदन्तमपीति तत्त्वम्। देवदत्तं हिरुक्। तत्कर्मकं वर्जनमित्यर्थः। निष्ठेति। उदाहरणसूचनमिदम्। "क्तक्तवतू निष्ठा"। विष्णुना हता इति। अत्र भूते इति कर्मणि क्तः। कर्तरि षष्ठीनिषेधात्तृतीया दैत्यान्हतवानिति। भूते कर्तरि क्तवतुः। कर्मणि षष्ठीनिषेधाद्द्वितीया। खलर्था इति। उदाहरणसूचनमिदम्। ईषत्कर इति। "ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल्" इति कर्मणि खल्। अर्थग्रहणात् "आतो युच्" इति खलर्थको युजपि गृह्रते। ईषत्पानः सोमो भवता। ननु तृन्नित्यनेन यदि तृनेव गृह्रेत तर्हि "सोमं पवमान" इत्यादौ निषेधो न स्यादित्यत आह--तृन्निति प्रत्याहार इति। कुत आरभ्य किमन्तानामित्यत आह--तृशब्दादारभ्य तृनो नकारादिति। लटः शतृशानचावित्यत्र शत्रादेशस्य एकदेशस्तृशब्दः, तत आरभ्य "तृन्" इति सूत्रस्थनकारपर्यन्तानामित्यर्थः। "लटः शतृशानचावप्रथमासमानाधिकरणे," "सम्बोधने च," "तौ ससू" "पूङ्यजोः शानन्", "ताच्छील्यवयोवचनशक्तिषु चानश" , "इङ्धार्योःशत्रकृच्छ्रिणि", "द्विषोऽमित्रे," "सुञो यज्ञसंयोगे," "अर्हः प्रशंसायाम्", "आ क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु", "तृन्" इति सूत्रक्रमः। अत्र शानन्नादितृन्नन्तानां ग्रहणं, नतु "लटः शतृ" इति तृशब्दस्यापि शत्रादेशैकदेशस्य, तस्य क्वापि पृथक् प्रयोगानर्हत्वात्। नापि शानचः, लादेशत्वादेव सिद्धे इति स्थितिः। शानन्निति। उदाहरणसूचनमिदम्। सोमं पवमान इति। "पूयङ्यजोः शानन्"। आत्मानं मण्डयमान इति। "मडि भूषायाम्" "ताच्छील्यवयोवचन"इति चानश्। शतृ इति। उदाहरणसूचनमिदम्। वेदमधीयन्निति। "इङ्धार्योः" इति शतृप्रत्ययः। तृन्निति। उदाहरणसूचनमिदम्। कर्ता लोकानिति। तृन्निति सूत्रेण तच्छीलादिषु तृन्प्रत्ययः शानन्नादितृन्नन्तानां लादेशत्वाऽभावात्प्रत्याहाराश्रयणमिति बोध्यम्।

द्विषः शतुर्वेति। शत्रन्तद्विषधातुयोगे षष्ठीनिषेधो वा वक्तव्य इत्यर्थः। मुरस्य मुरं वा द्विषन्निति। द्विषोऽमित्रे " इति शतृप्रत्ययः। तस्य तृन्प्रत्याहारप्रविष्टत्वान्नित्यनिषेधे प्राप्ते विकल्पोऽयम्। सर्वोऽयमिति। "अनन्तरस्ये"ति न्यायादिति भावः। शेषे षष्ठी त्विति। शब्दबोधे प्रकारवैलक्षण्यं फलमिति भावः। ब्राआहृणस्य कुर्वन्निति। "हरि"रिति शेषः। लटः शत्रादेशः। मुखतो ब्राआहृणसंबन्धिसृष्ट()नुकूलव्यापारवानित्यर्थः। कर्मत्वविवक्षायां तु द्वितीयैव। नरकस्य जिष्णुरिति। "ग्लाजिस्थश्च ग्स्नुः" इति तच्छीलादिषु ग्स्नुप्रत्ययः। नरकसंबन्धिजयवानित्यर्थः। कर्मत्वविवक्षायां तु द्वितीयैव।

तत्त्व-बोधिनी
न लोकाव्ययनिष्ठाखलर्थतृनाम् ५५१, २।३।६९

न लोका। जिघृक्षितरूपविनाशप्रसङ्गात्तृनामित्यत्र णत्वं न कृतम्। उश्च उकश्च ऊकौ, लश्च ऊकौ चेति विग्रहः। ल इति लडादीनां सामान्यग्रहणं। तेषां च साक्षात्प्रयोगो न सम्भवतीति तदादेशा गृह्रन्त इत्याह--लादेशा इथि। उदाह्यियन्त इति शेषः। कटं कारयाञ्चकारेत्यत्र कृत्सञ्ज्ञकलिङन्तामन्तेन योगेऽपि कटस्य "कर्तृकर्मणोऋ कृति" इति षष्ठी न भवति, "आमः" इति लुकोऽपि लादेशत्वादित्याहुः। नन्वेवमपि "बभ्रिर्वज्रं पपिः सोमं ददिर्गाः" इत्यत्र "न लोका---" इति निषेधाऽप्रवृत्तेः षषाठी दुर्वारैव, न हि किकिनौ लकारौ, नापि तदादेशौ। नैष दोषः। "किकिनौ लिट् च" इत्यनेन लिट्कार्यातिदेशः क्रियते, न तु लिट्सञ्ज्ञा। तथा च विशेषातिदेशे च सामान्यमप्यतिदिश्यत इथि नानुपपत्तिः। दिदृक्षुरिति। "सनाशंतभिक्ष उः"। उकारेण कृतो विशेषणात्तदन्तमपि लभ्यत इत्याशयेनाह---अलङ्करिष्णुरिति। "अलङ्कृञ्निराकृञ---" इत्यादिना इष्णुच्। घातुका इति। "लषपते" त्यादिना उकञ्।

कमेरनिषेधः॥ ईषत्कर इति। "ईषद्दुस्सुषु--"इत्यादिना खल्। अर्थग्रहणादीषत्पानः सोमो भवतेत्यप्युदाहार्यम्। अव्या()प्त परिहर्तुमाह---प्रत्याहार इति। पवमान इति। "पूङ्यजोः शानन्"। मण्डयमान इति। "मडि भूषायाम्"। इदित्त्वान्नुम्। "ताच्छील्यवयोवचन---" इति चानश्। अधीयन्निति। "इङ्धार्योः" इति शता। शाननादिषु "लटः" इत्यननुवृत्त्या लादेश इत्यसिद्धेः प्रत्याहारग्रहणमाश्रीयत इति भावः। तृन्निति। तच्छीलादिषु "तृन्िति विहितस्तृन् प्रत्ययः। तृन्निति प्रत्याहारग्रहणान्नित्यं निषेधे प्राप्ते विकल्पमाह---।

द्विषः शतुर्वा। द्विष इति। "द्विष अप्रीतौ" इत्यस्मात् "द्विषोऽमित्रे"इति विहितोः यः शतृप्रत्ययस्तत्प्रयोगे वा षष्ठीनिषेद इत्यर्थः। सर्वोऽयमिति। "अनन्तरस्य इति न्याया"दिति शेषः। शेषः षष्ठी त्विति। शाब्दबोधे वैलक्षण्यमस्तीति भावः। एवं चाश्चर्यो गवां दोगोऽगोपेनेत्यत्र शेषत्वविवक्षायां कर्तर्यपि षष्ठी भवत्येवेति बोध्यम्।