पूर्वम्: ५।१।११०
अनन्तरम्: ५।१।११२
 
सूत्रम्
समापनात् सपूर्वपदात्॥ ५।१।१११
काशिका-वृत्तिः
समापनात् सपूर्वपदात् ५।१।११२

समापनशब्दात् सपूर्वपदात् विद्यमानपूर्वपदाच् छः प्रत्ययो भवति तदस्य प्रयोजनम् इत्येतस्मिन् विषये। ठञो ऽपवादः। छन्दःसमापनं प्रयोजनमस्य छन्दःसमापनीयम्। व्याकरणसमापनीयम्। पदग्रहणं बहुच्पूर्वनिरासार्थम्।
न्यासः
समापनात्सपूर्वपदात्?। , ५।१।१११

अथ पदग्रहणं किमर्थम्(), सपूर्वादित्येवोच्येत? इत्यत आह--"पदग्रहणम्()" इत्यादि। असति हि पदग्रहणे, ईषदसमाप्तं समापनं बहुसमापनं तत्? प्रयोजनमस्येति तत्रापि प्राप्नोति; भवति ह्रयं समापनशब्दः सपूर्वः। पदग्रहणे तु सति न भवति; बहुचप्रत्ययस्यापदत्वात्()॥
बाल-मनोरमा
समापनात्सपूर्वपदात् १७५२, ५।१।१११

समापनात्सपूर्वपदात्। सपूर्वपदात्समापनशब्दादस्य प्रयोजनमित्यर्थे छः स्यादित्यर्थः। व्याकरणसमापनीय इति। "मङ्गलाचार" इति शेषः।

तत्त्व-बोधिनी
समापनात्सपूर्वपदात् १३४९, ५।१।१११

सपूर्वपदादिति। विद्यमानपूर्वपदादित्यर्थः।