पूर्वम्: ५।१।१११
अनन्तरम्: ५।१।११३
 
सूत्रम्
ऐकागारिकट् चौरे॥ ५।१।११२
काशिका-वृत्तिः
ऐकागारिकट् चौरे ५।१।११३

ऐकागारिकटिति निपात्यते चौरे ऽभिधेये। एकागारं प्रयोजनम् अस्य ऐकागारिकः चौरः। ऐकागारिकी। किम् अर्थम् इदं निपात्यते, यावता प्रयोजनम् इत्येव सिद्धष्ठञ्? चौरे नियमार्थं वचनम्। इह मा भूत्, एकागारं प्रयोजनम् अस्य भिक्षोः इति। ठकारः कार्यावधारणार्थः, ङीबेव भवति न ञित्स्वरः इति। अपरे पुनरिकट् प्रत्ययं वृद्धिं च निपातयन्ति।
न्यासः
ऐकागारिकट्? चौरे। , ५।१।११२

"चौरे नियमार्थम्()" इति। प्रकृतत्वाच्च ठञ एव। एवं ब्राउवता ठञान्तमेतन्निपात्यत इत्युक्तं भवति। ननु च टकारानुबन्ध एवमर्थमासङ्ग्यते, ङीव्यता स्यादिति, स चात्र ठञन्तत्वादेव सिद्धः, तत्? किमर्थं टकारः? इत्यत आह--"टकारः" इत्यादि। असति हिटकारे, यथा ङीब्भवति तथा ञित्स्वरोऽपि--आद्युदात्तत्वं स्यात्। "कार्यावधारणार्थष्टकारः" क्रियते, तेन ङीबेव भवति, न ञित्स्वरः। "अपर इकट्प्रत्ययं वृदिं()ध च निपातयन्ति" इति। तेषां ङीबर्थ एव टकारः। एकश्बदोऽसहायर्थः, स चासहायवाची द्रष्टव्यः। असहयग्रहणं चौरस्य स्वार्थे, न तूपलक्षणं प्रयोजनम्()॥
बाल-मनोरमा
ऐकागारिकट् चौरे १७५३, ५।१।११२

ऐकागारिकट् चौरे। एकमगारं प्रयोजनं=प्रयोजकस्य चोरस्येति विग्रहे एकागारशब्दादिकट्प्रत्यये ऐकागारिकडिति निपात्यते। टित्त्वं ङीबर्थम्। प्रयोजनमित्येय सिद्धे चोर एवेति नियमार्थ सूत्रम्। एकमित्यस्य विवरणम्--असहायमिति। "एके मुख्यान्यकेवलाः" इत्यमरः। मुमुषिषोरिति। चौर्यं कर्तुमिच्छोरित्यर्थः। चोरस्य हि असहायमगारमिष्टं, गोहान्तरसत्त्वे चौर्यप्रकरटनप्रसङ्गादिति भावः। चोरे किम्?। एकागारं प्रयोजनमस्य भिक्षोरिति वाक्यमेव। भाष्ये तु "एकागाराच्चोरे" इत्येव सुवचं, प्रकृतत्वाट्ठञ् सिद्ध इत्युक्तम्।

तत्त्व-बोधिनी
ऐकागारिकट् चौरे १३५०, ५।१।११२

ऐकागारिकट्। टो ङीबर्थः।ऐकागारिकी। किमर्थमिदमुच्यते यावता "प्रयोजन"मित्येव ठञि सिद्धम्()। सत्यम्। चौरे नियमार्थमावश्यकमिदं सूत्रम्। अन्यथा एकागारं प्रयोजनं यस्य भिक्षोरित्यत्रापि स्यात्। नन्वेवमपि "ऐकागाराच्चौरे"इति ठञेव नियम्यतां किमैकागारिक इति निपातनेन, चित्कणेन च प्रयोजनमिति चेत्। अत्राहुः---टकारः कार्यावधारणार्थः---ङीबेव भवति न ञित्स्वर इति। वृद्धिस्तु निपातनाद्भवत्येवेति।