पूर्वम्: ५।१।१२५
अनन्तरम्: ५।१।१२७
 
सूत्रम्
कपिज्ञात्योर्ढक्॥ ५।१।१२६
काशिका-वृत्तिः
कपिज्ञात्योर् ढक् ५।१।१२७

कपिज्ञातिशब्दाभ्यां ढक् प्रययो भवति भावकर्मणोरर्थयोः। कपेर् भावः कर्म वा कापेयम्। ज्ञातेयम्। यथासङ्ख्यम् अर्थयोः सर्वत्र एव अत्र प्रकरणे न इष्यते।
लघु-सिद्धान्त-कौमुदी
कपिज्ञात्योर्ढक् ११६५, ५।१।१२६

कापेयम्। ज्ञातेयम्।
न्यासः
कपिज्ञात्योर्ढक्?। , ५।१।१२६

कपिशब्दात्? "इगन्ताच्च लघुपूर्वात्()" ५।१।१३० इत्यणि प्राप्त इदं विधीयते। "यथासंख्यम्()" इत्यादि। तत्र "गुणवचनब्राहृणादिभ्यः" ५।१।१२३ इत्यत्र यतासंख्याभावः प्रतिपादितः। इहापि प्रतिपाद्यते। तत्रेदं प्रतिपादनम्()--अत्र चकारोऽनुवत्र्तते, स चैकस्याः प्रकृतेर्भावे कर्मणि च ढग्विंधिं समुच्चिनोति। तेन यथांसंख्यं न भवति; अन्यथा हि समुच्ययो नोपपद्यते। अस्वरितत्वाद्वा यथासंख्यं न भविष्यति, प्रतिपादितं हि पूर्वम्()--"स्वरितत्वेन यथासंख्यं भवति" इति। न चेह यथासंख्यार्थं स्वरितत्वं प्रतिज्ञायते॥
बाल-मनोरमा
कपिज्ञात्योर्ढक् १७६९, ५।१।१२६

कपिज्ञात्योर्ढक्। पञ्चम्यर्थे षष्ठी। आभ्यामपि षष्ठ()न्ताभ्यां भावकर्मणोर्ढगित्यर्थः। अत्र कपि ज्ञात्योर्भावकर्मणोश्च न यथासङ्ख्य, व्याख्यानात्।

तत्त्व-बोधिनी
कपिज्ञात्योर्ढक् १३६३, ५।१।१२६

कपिज्ञात्योः। इह कपिज्ञाती द्वौ, भावकर्मणी अर्थावपि द्वौ, तयोर्यथासङ्ख्यं नभवति, अस्वरितत्वप्रतिज्ञानात्। एवं "पत्यन्तपुरोहितादिभ्यःट, "द्वन्द्वमनोज्ञादिभ्यः"इत्यत्रापि बोध्यम्। ब्राआहृणादित्वादिति। यद्यपि ब्राआहृणादिषु राजन् शब्दः केवलः पठितस्तथाप्ययमेव "असे"इति प्रतिषेधो ज्ञापयति "अस्त्यत्र प्रकरणे राजन्()शब्देन तदन्तविधि"रिति। एवं त ब्राआहृणादिपाठस्य समासे चरितार्थत्वादसमासे विशेषविहितो यगेव भवति। अन्ये तु ब्राआहृणादेराकृतिगणत्वादेव तदन्तात्कतंचित्ष्यञि सिद्धे राजन्()शब्दस्य तत्रपाठो यका सह समावेशार्थ इति। तथा चावेष्ट()धिकरणे शाबरभाष्ये उक्तं---"राज्ञः कर्म राज्यं, ब्राआहृणादित्वात् ष्यञि"ति। पुरोहित, सङ्ग्रामिक, पथिक, सारथिकेत्यादयः पुरोहितादयः।