पूर्वम्: ५।१।१५
अनन्तरम्: ५।१।१७
 
सूत्रम्
तदस्य तदस्मिन् स्यादिति॥ ५।१।१६
काशिका-वृत्तिः
तदस्य तदस्मिन् स्यादिति ५।१।१६

तदिति प्रथमा समर्थविभक्तिः, अस्य इति प्रत्ययार्थः, स्यातिति प्रकृतिविशेषणम्। इतिकरणो विवक्षार्थः। एवं द्वितीये ऽपि वाक्ये। सप्तम्यर्थे तु प्रत्यय इत्येतावान् विशेषः। प्रथमासमर्थात् षष्ठ्यर्थे सप्तम्यर्थे च यथाविहितं प्रत्ययो भवति, यत् तत् प्रथमासमर्थं स्याच् चेत् तद् भवति। इतिकरणः ततश्चेद् विवक्षा। प्राकार आसामिष्टकानां स्यात् प्राकारीया इष्टकाः। प्रासादीयं दारु। सप्तम्यर्थे खल्वपि प्राकारो ऽस्मिन् देशे स्यात् प्राकारीयो देशः। प्रासादीया भूमिः। स्यादिति सम्भावनायां लिङ्, सम्भावने ऽलम् इति चेदित्यादिना। इष्टकानां वहुत्वेन तत् सम्भाव्यते प्राकार आसामिष्टकानां स्यातिति। देशस्य च गुणेन सम्भाव्यते प्रासादो ऽस्मिन् देशे स्यातिति। प्रकृतिविकारभावस्तादर्थ्यं च इह न विवक्षितम्। किं तर्हि, योग्यतामात्रम्। तेन पूर्वस्य अयम् अविषयः। द्विस्तद्ग्रहणं न्यायप्रदर्शनार्थम्, अनेकस्मिन् प्रत्ययार्थे प्रत्येकं समर्थविभक्तिः सम्बन्धनीया इति। अथ इह कस्मान् न भवति, प्रासादो देवदत्तस्य स्यातिति? गुणवानयं सम्भाव्यते प्रासादलाभो ऽस्य इति। इतिकरणो विवक्षार्थः इत्युक्तम्।
न्यासः
तदस्य तदस्मिन्? स्यादिति। , ५।१।१६

द्वितीयाशङ्कामपनिनीषुराह--"तत्()" इत्यादि। अस्तेरकर्मकत्वादित्यभिप्रायः। अवयवार्थपूर्वत्वादवयव्यर्थस्येत्याह--"अस्य" इत्यादि। करोतीति करणः। कत्र्तरि बहुलवचनाल्लयुट्()। इतिश्चासौ करणश्चेति कर्मधारयः। "सम्भावनेऽलमिति चेत्सिद्धाप्रयोगे" ३।३।१५४। ननु च प्राकारीया इष्टकाः, प्रासादीयं दार्विति च पूर्वेणैव सिद्धम्(), तथा हि--यासामिष्टकानां यस्य च दारुणो बहुत्वेन प्राकारः प्रासादश्च सम्भाव्यते, तासामिष्टकानां तस्य च दारुणो यथासंख्येन प्राकारप्रासादौ विकारौ भवतः, तादथ्र्याच्चेष्टकानां दारूणाञ्चास्तीवेत्यत आह--"प्रकृतिविकार" इत्यादि। गतार्थम्()। "द्विस्तद्ग्रहणम्()" इत्यादि। इत्येष न्यायोऽनेन प्रदश्र्यते। "तदस्यास्त्यस्मिन्निति मतुप्()" ५।२।९३ इत्यादौ नैकः प्रत्ययार्थः। तत्र तत्समुदायेन समर्थविभक्तेः सम्बन्धो विज्ञायते। ततश्च यत्र द्वाभ्यां प्रत्ययार्थाभ्यां समर्थविभक्तेः सम्बन्धः सम्भवति--शाखावान्? वृक्ष इत्यादौ, तत्रैव तत्? स्यात्()। यत्र त्वन्यतरेणैव सम्बन्धः--गोमान् देवदत्तः, वृक्षवान्? पर्वत इत्यादौ, तत्र न स्यात्()। अ()स्मस्तु न्याये प्रदर्शिशते सर्वत्र भवति॥
बाल-मनोरमा
तदस्य तदस्मिन् स्यादिति १६५६, ५।१।१६

तदस्य तदस्मिन् स्यादिति। "तदर्थं विकृतेः प्रकृतौ" इति निवृत्तमिति कैयटः। "तदस्य स्या"दिति, "तदस्मिन्स्या"दिति चार्थे प्रथमान्ताद्यथाविहितं प्रत्ययः स्यादित्यर्थः। "स्या"दित्यत्र "सम्भावनेऽलमिती"ति सम्भावने लिङ्। प्राकार आसामिति। करणत्वस्य सम्बन्धसामान्यविवक्षायां षष्ठी। आभिरिष्टकाभिः प्राकारः कर्तुं शक्यत इति विग्रहवाक्यस्य फलितोऽर्थः। प्राकारीया इति। प्राकारशब्दात्प्रतमान्ताच्छः। इष्टकाः प्रत्ययार्थः। प्राकारपर्याप्तां इष्टका इति यावत्। प्रासादीयं दार्विति। प्रासादोऽस्य स्यादिति विग्रहः। प्रासादपर्याप्तमिति यावत्। प्राकारीयो देश इति। प्राये प्राकारोऽस्मिन्देशे सम्भाव्यत इत्यर्थः। देशस्य तद्योग्यपाषाणेष्टकादिबहुलत्वादिति भावः। अनेन तदर्थं विकृते" रित्यनुवृत्ताविह न स्यादिति सूचितम्। ननु "प्रासादो देवदत्तस्य स्या"दित्यत्रातिप्रसङ्गः स्यादित्यत आह--इतिशब्दो लौकिकीं विवक्षामिति। शिष्टव्यवहारमित्यर्थः।

तत्त्व-बोधिनी
तदस्य तदस्मिन् स्यादिति १०२३, ५।१।१६

तदस्य। प्रथमा समर्थात्प्रातिपदिकात्षष्ठ()र्थे सप्तम्यर्थे च यथाविहितं प्रत्ययो भवति। स्यादिति। संभावनेऽलमिति चे"दित्यादिना संभावनेलिङ्। इष्टकानां बहुत्वेन प्राकार आसां स्यादित्येतत्सम्भाव्यते। देशस्य हि गुणेन प्राकारोऽस्मिन्स्यादिति सम्भाव्यते। इह प्रकृतिविकारभावस्तादथ्र्यं च न विवक्षितं, कुं तु योग्यतामात्रम्। तेन पूर्वस्याऽयमविषयः। द्विस्तच्छब्दस्य ग्रहणं स्पष्टप्रतिपत्त्यर्थम्, "तदस्यास्त्यस्मि"न्नितिवत्सकृत्तच्छब्दग्रहणेनैवेष्टसिद्धेः।

इति तत्वबोधिन्यां छयतोः पूर्णोऽवधिः।