पूर्वम्: ५।१।२
अनन्तरम्: ५।१।४
 
सूत्रम्
कम्बलाच्च संज्ञायाम्॥ ५।१।३
काशिका-वृत्तिः
कंवलाच् च संज्ञायाम् ५।१।३

कम्बलात् प्राक्क्रीतीयेष्वर्थेषु यत् प्रत्ययो भवति संज्ञायां विषये। छस्य अपवादः। कम्बल्यम् ऊर्णापलशतम्। संज्ञायाम् इति किम्? कम्बलीया ऊर्णा।
न्यासः
कम्बलाच्च संज्ञायाम्?। , ५।१।३

ननु "अपरिमाणविस्ताचितकम्बल्येभ्यः" ४।१।२२ इति निपातनादेव कम्बल्य इति सिध्यति कम्बल्यं हि परिंमाणविशेषः, इतरथा हि कम्बल्यशब्दस्य तत्र ग्रहणमनर्थकं स्यात्(), परिमाणविशेषस्य कम्बल्यशब्दो नामदेयम्(); अयमपि प्रत्ययः संज्ञायां विधीयमानस्तत्रैव भवति, नान्यत्र; नह्रत्र कम्बल्यशब्दः संज्ञा, तस्मान्नार्थोऽनेन? नैतदस्ति; निपातनेन हि कम्बल्यशब्दः परिमाणे साधुरित्येतावत्? प्रतीयते, न तु यदन्तोऽयमिति। ततश्चान्तस्वरितत्वं न स्यात्। तस्मात्? स्वरितत्वपरिज्ञानार्थमिदं कत्र्तव्यम्()। अनन्तरश्रुतस्य यतोऽनुकर्षणार्थश्चकारः। ननु स्वरितत्वादेव यद्भविष्यति? छोऽपि तर्हि स्यात्()। ननु च च्छस्य सन्निधाने प्रकृतिमात्राच्छ उक्त इति नियमार्थमिदं स्यात्(), तच्चानिष्टम्(), यत्? पुनर्नियतविषय इति तत्सम्बन्धे विध्यर्थता, विधिनियमयोश्च विधेरेव ज्यायान्()? नैतदस्ति; छस्यापि सम्बन्धे विध्यर्थता सम्भवति। कथं संज्ञायामित्युच्यते, संज्ञा चानुपात्तावयवार्थापि भति, तत्रानवयवार्थानामप्राक्क्रीतीयत्वाद्धिताद्यर्थाभावे छप्रत्ययार्थमेतत्? स्यात्(), तस्माच्चकरो यत्प्रतययानुकर्षणार्थः कत्र्तव्यः? न कर्तव्यः; इष्टतोऽप्यधिकाराणां प्रवृत्तिनिवृत्ती भवत इति यत एवानुवृत्तिर्भविष्यति, न तु च्छस्य। एवं तर्हि चकार उगवादिभ्य इत्यनुकर्षणार्थः। किमर्थमिदम्()? सनङ्ग्वादिभ्यः परत्वादञादयः प्राप्नुवन्ति तद्बाधनार्थमिति। अथ गवादिष्वेव "कम्बलाच्च संज्ञायाम्()" इति कस्मान्न पठति? तत्र पाठे न कश्चिद्गुरुलाघवकृतो विशेष इति यत्किञ्चिदेतदिति॥
बाल-मनोरमा
कम्बलाच्च संज्ञायाम् १६४१, ५।१।३

कम्बलाच्च। कम्बलशब्दाद्यत्स्यात्प्राक्कीतीयेष्वर्थेषु संज्ञायामित्यर्थः। कम्बल्यमूर्णापलशमिति। कम्बलाय हितमित्यर्थः।

तत्त्व-बोधिनी
कम्बलाच्च संज्ञायाम् १२६६, ५।१।३

कम्बलाच्च संज्ञायाम्। प्राक्क्()रीतीयेष्वर्थेषु यत्स्यात्। छस्यापवादः।