पूर्वम्: ५।१।३
अनन्तरम्: ५।१।५
 
सूत्रम्
विभाषा हविरपूपादिभ्यः॥ ५।१।४
काशिका-वृत्तिः
विभाषा हविरपूपाऽदिभ्यः ५।१।४

हविर्विशेषवाचिभ्यो ऽपूपाऽदिभ्यश्च प्रातिपदिकेभ्यः प्रक्क्रीतीयेष्वर्थेषु विभाषा यत् प्रत्ययो भवति। आमिक्ष्यं दधि, आमिक्षीयं दधि। पुरोडाश्यास्तण्डुलाः, पूरोडाशीयाः। हविश्शब्दात् तु गवादिषु पठान् नित्यम् एव भवति। अपूपादिभ्यः अपूप्यम्, अपूपीयम्। तण्डुल्यम्, तण्डुलीयम्। अपूप। तण्डुल। अभ्यूष। अभ्योष। पृथुक। अभ्येष। अर्गल। मुसल। सूप। कटक। कर्णवेष्टक। किण्व। अन्नविकारेभ्यः। पूप। स्थूणा। पीप। अश्व। पत्र। अपूपादिः।
न्यासः
विभाषा हविरपूपादिभ्यः। , ५।१।४

हविःशब्दो गवादिषु पठ()ते, तेन तस्मान्नित्यं यता भवितव्यम्()। अत्र हविंर्विशेषाणां ग्रहणम्(), नस्वरूपस्येति; उगवादिसूत्रे स्वरूपपरिभाषाया उपस्थानात्()। न हि तत्र सोपतिष्ठमाना केनचिनिं()नवार्यते, तेन स्वरूपस्यैव ग्रहणम्()। तत्र स्वरूपग्रहणे सतीह स्वरूपपरिभाषा नोपतिष्ठते; अन्यथा हि यद्यत्रापि स्वरूपग्रहणं स्यात्(), ततः स्वतन्त्र एकस्मात्? शब्दात्? नित्यश्च यतो विधिः स्यादनित्यश्चेत्युभयमेकत्र नोपपद्यत इति न भवति विपर्ययः। अथ वा-हविःशब्दस्येहि पृथगुपादानादर्थप्रधानत्वमवसीयते, अन्यथा ह्रपूपादिष्वेव पठेदिति। "अन्नविकारेभ्यश्च" इति। अन्नविकारः=अन्नप्रकाराः, ते च प्रतययमुत्पादयन्ति विभाषा-उदन्याः, उदनीया इति। यद्येवम्(), अपूपादीनां किण्वपर्यन्तानामत्र विकारत्वादेव सिद्धत्वात्? पाठोऽनर्थको जायते? यदा तर्हि केनचिदाकारसादृश्येनापूपादयोऽर्थान्तरे उपचर्यन्ते, तदर्थमेषां पाठः। किंञ्चान्नविकारग्रहणेनापूपादिषु प्रत्यमिच्छत इहापि स्यात्()--यवापूपाः, व्रीहितण्डुला इति। प्रतिपदपाठे तु ग्रहणवत्त्वात्? तदन्दविधिः पर्युदस्तो भवति। ननु च "असमासे निष्कादिभ्यः" ५।१।२० इत्यसमासग्रहणाद्भवितव्यमेवात्र तदन्तविधिना, एतेनासमासग्रहणेन पूर्वत्र तदन्तविधिरस्तीत्येषोऽर्थः प्रतिपाद्यते? सत्यमेतत्(); अपूपादिषु प्रतिपदपाठसामथ्र्यान्न भविष्यति॥
बाल-मनोरमा
विभाषा हविरपूपादिभ्यः १६४२, ५।१।४

विभाषा हविः। हविर्विशेषवाचिभ्योऽपूपादिभ्यश्च प्राक्क्रीतीयेष्वर्थेषु यद्वा स्यादित्यर्थः। पक्षे छः। आमिक्ष्यं दधीति। आमिक्षायै हितमित्यर्थः। तप्ते पयसि दध्नि निक्षिप्ते सति यद्ध्नीभूतं निष्पद्यते सा आमिक्षेत्युच्यते।

तत्त्व-बोधिनी
विभाषा हविरपूपादिभ्यः १२६७, ५।१।४

विभाषा हविरपूपादिभ्यः। गवादिषु हविःशब्दस्य पाठादिह हविविशेषणां ग्रहणम्। न च गवादिष्वेव हविर्विशेषणां ग्रहणं किं न स्यादिति वाच्यम्, असंजातविरो()धित्वेन तत्र स्वरूपग्रहणस्य न्याय्यत्वात्। अपूप्यमिति। अपूपेभ्यो हितं चूर्णमित्यर्थः। अपूप, तण्डुल, पृथक्, मुसल, कर्णवेष्टकेत्याद्यपूपादिगणे अन्नविकारेभ्येश्चेति पठ()ते। अन्नविकाराः=अन्नप्रकारा अदनीयविशेषास्तेभ्यो यद्वा स्यादिति तदर्थः। आदन्या ओदनीयास्तण्डुलाः। एवं चानेनैव गणसूत्रेण सिद्धे अपूपादीनां केषाचिद्गणे पाठः प्रपञ्चार्थः।