पूरणवाचिनः शब्दातर्धशब्दाच् च ठन् प्रत्ययो भवति तदस्मिन् वृद्ध्याय। लाभशुल्कौपदा दीयते
५।१।४६ इत्येतस्मिन्नर्थे। यथायथं ठक्टिठनोरपवादः। द्वितीयो वृद्ध्यादिरस्मिन् दीयते द्वितीयिकः। तृतीयिकः। पञ्चमिकः। सप्तमिकः। अर्धिकः। अर्धशब्दो रुपकार्धस्य रूढिः।
"पूरणवाचिनः" इति। पूर्यते येनार्थेन स पूरणः, तद्वाचिनः प्रातिपदिकात्()। एतेन "पूरण" इत्यर्थस्य ग्रहणम्(), न प्रत्ययस्येति दर्शयति।
कथञ्च प्रत्ययस्य ग्रहणं स्यात्()? यदि पूरणग्रहणं स्वर्येत।
तस्मिन्? हि स्वर्यमाणे "तस्य पूरणे डट्()"
५।२।४८ इत्यधिकृत्य ये प्रत्यया विहितास्ते गृह्रेरन्()।
किञ्च स्यात्()? "पूरणाद्भागे तीयादन्()" (५।३।
४८) इत्यन्नन्ताट्ठन्? न स्यात्(); अपूरणप्रत्ययान्तत्वात्()। तस्याग्रहणे तु सति स्वार्थिकः स्यादन्()।
तस्मिन्नप्युत्पन्ने पूरण एवार्थे तदन्तमपि वर्तत इति ततोऽपि ठन्? सिद्धो भवति। "ठक्ठनोरपवादः" इति। पूरणादार्हीयस्य ठकोऽपवादः।
अर्धादपि "अद्र्धाच्चेति वक्तव्यम्()" (वा।५०२) इत्यौपसंख्यानिकस्य टिठनः।
ठकि टिठनि च सति ङीप्? स्यात्(); ठनि तु टाब्भवति। "द्वितीयिकः" इति। द्वयोः पूरण इति "द्वेस्तीयः"
५।२।५३ इति तोयप्रत्ययः। "तृतीयिकः" इति। "त्रेः सम्प्रसारणञ्च"
५।२।५४। "पञ्चमिकः, सर्प्तामकः" इति। "तस्य पूरणे डट्()"
५।२।४८ इति डट्प्रत्ययः, तस्य "नान्तादसंखयादेर्मट्()"
५।२।४९ इति मडागमः॥
पूरणार्धाट्ठन्। तदस्मिन् वृद्ध्यादि दीयत इत्यर्थे पूरणप्रत्ययान्तादर्धशब्दाच्च प्रथमान्ताट्ठन् स्यादित्यर्थः। द्वितीयिक तृतीयिकः इति। "आर्हा"दिति ठकोऽपवादष्ठन्। अर्धिक इति। अर्धमस्मिन् वृद्ध्यादि दीयते इत्यर्थः।
"अर्धाच्चेति वक्तव्य"मिति टिठनोऽपवादष्ठन्। टिठनि सति तु स्त्रियां ङीप् स्यात्। अर्धिकेति तु टाबेवेष्यते। रूपकस्येति। रूप्यस्य कार्षापणस्येत्यर्थः। रूढ इति। अन्यथा अर्धशब्दस्य रूप्यकसापेक्षत्वादसामथ्र्यं स्यादिति भावः। रूप्यकस्यार्धे रूढ इत्यत्र प्रमाणं मृग्यम्। असामथ्र्यं तु नित्यसापेक्षत्वाद्वारयितुं शक्यमित्याहुः।