पूर्वम्: ५।१।५६
अनन्तरम्: ५।१।५८
 
सूत्रम्
संख्यायाः संज्ञासंघसूत्राध्ययनेषु॥ ५।१।५७
काशिका-वृत्तिः
सङ्ख्यायाः संज्ञासङ्घसूत्राध्ययनेषु ५।१।५८

तदस्य परिमाणम् ५।१।५६ इति वर्तते। सङ्ख्यावाचिनः प्रातिपदिकात् परिमाणोपाधिकात् प्रथमासमर्थादस्य इति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति। संज्ञासङ्घसूत्राध्ययनेषु इति प्रत्ययार्थविशेषणम्। तत्र संज्ञायां स्वार्थे प्रत्ययो वाच्यः। पञ्चैव पञ्चकाः शकुनयः। त्रिकाः शालङ्कायनाः। सङ्घ पञ्च परिमाणम् अस्य पञ्चकः सङ्घः। अष्टकः। सूत्र अष्टौ अध्यायाः परिमाणम् अस्य सूत्रस्य अष्टकं पाणिनीयम्। दशकं वैयाघ्रपदीयम्। त्रिकं काशकृत्स्नम्। ननु च अध्यायसमूहः सूत्रसङ्घ एव भवति? न एतदस्ति। प्राणिसमूहे सङ्घशब्दो रूढः। अध्ययन पञ्चको ऽधीतः। सप्तको ऽधीतः। अष्टकः। अनवकः। अधीतिरध्ययनम्। तस्य सङ्ख्यापरिमाणं पञ्चावृत्तयः पञ्चवाराः पञ्च रूपाणि अस्य अध्ययनस्य पञ्चकम् अध्ययनम्। स्तोमे डविधिः पञ्चदशाद्यर्थः। पञ्चदश मन्त्राः परिमाणम् अस्य पञ्चदशः स्तोमः। सप्तदशः। एकविंशः। शन्शतोर् डिनिश् छन्दसि। पञ्चदशिनो ऽर्धमासाः त्रिंशिनो मासाः। विंशतेश्च इति वक्तव्यम्। विंशिनो ऽङ्गिरसः।
न्यासः
संख्यायाः संज्ञासह्घसूत्राध्ययनेषु। , ५।१।५७

"परिमाणोपाधिकात्()" इति। परिमाणमुपाधिर्विशेषणं न सम्भवति, न हि शब्दः परिमाणं शब्दस्य सम्भवतीति? तदर्थस्य विसेषणं विज्ञास्यत इत्यदोषः। ननु चार्थस्यापि न सम्भवति, संख्या हि नैव परिमाणम्()? नैष दोषः; नात्र रूढः परिमाणशब्दो गृह्रते, किं तर्हि? क्रियाशब्दः--परिमायते येन तत्? परिमाणमिति। संख्यायापि च परिमीयत इति सापि परिमाणम्()। नन्वेवमपि विशेषणमनर्थकम्; न ह्रपरिच्छेदिका संख्यास्ति, सञ्चक्षाणा हि संख्योच्यते? सतद्यम्(); परिच्छेदिकैव संख्या, सा तु स्वस्याभिदेयं परिच्छिनत्तीति षष्ठ()र्थमवश्यं न परिच्छिनत्ति। पञ्चास्य सङ्घस्य पुत्रा इति नात्र सह्घस्येयत्ता प्रतीयते। इह तु पञ्चसंख्या परिमाणमस्य सङ्घस्येति भवतीयत्ताप्रतीतिः सङ्घस्य। तस्मादुपपन्नं संख्यायाः परिमाणं विशेषणम्()। "तत्र" इत्यादि। पञ्चशब्दोऽयं संख्येय एव वत्र्तते, न कदाचिदपि संख्यानमात्रे। ततश्च य एव संख्येयाः पञ्चत्वसंख्ययावच्छिन्नाः पञ्चशब्देनोच्यन्ते, प्रत्ययान्तेनापि त एव न हि तेषां भिन्नानामत्र संख्येयान्तरं परिमाणं प्रत्ययवाक्यं सम्भवपति। तस्मात्? संज्ञायां स्वार्थं एव प्रत्ययो वाच्यः। तथा चाह वार्त्तिककारः--"संज्ञायां स्वार्थे उत्पद्यते" इति। "पञ्चकोऽधीतः" इति पाठापेक्षया पुंल्लिङ्गः। "अधीतिरध्ययनम्()" इति। अनेन भावसाधनमध्ययनशब्दं दर्शयति। यद्यधीयत इत्यध्ययनं कर्मसाधनोऽद्ययनशब्दः स्यात्(), सूत्रग्रहणं पृथग्वक्तव्यं न स्यात्(); अध्ययनग्रहणेनैव सिद्धत्वात्(), सूत्रमप्यधीयत एव। "पञ्चावृत्त्यः" इति पाठे पुनः क्रियात्मिकाः पञ्च वारा इत्यादिना पर्यायान्तरेण पञ्चावृत्त्य इत्यस्यैवार्थं व्यक्तीकरोति। "स्तोमे डविधिः" इति। अत्रापि च्छन्दसीति सम्बध्यते। मन्त्रसमुदायः स्तोमः। "एकविंशः" इति। "अतो गुणे" ६।१।९४ पररूपत्वं च, "ति विंशतेर्डिति ६।४।१४२ इति तिशब्दलोपः। "शन्शतोः" इत्यादि। शन्नित्येवमन्ताच्छन्दसि डिनिर्वक्तव्यः
बाल-मनोरमा
सङ्ख्यायाः संज्ञासङ्घसूत्राध्ययनेषु १७०१, ५।१।५७

सङ्ख्यायाः। अनुवर्तत इति। तथाच "तदस्य परिमाण"मित्यर्थे प्रथमान्तात्संख्यात्मकपरिमाणवाचिनो यथाविहितं प्रत्ययाः स्युरित्यर्थः।

संज्ञायां स्वार्थे प्रत्ययो वाच्य इति। "पञ्चकाः शकुनय" इत्यत्र पञ्च परिमाणमेषामित्यर्थो न संभवति, आ दशतः संख्याः संख्येये इति पञ्चन्शब्दस्य संख्येयवृत्तित्वेन पञ्च परिमाणमिति सामानाधिकरण्यानुपपत्तेः। अतः संज्ञायां स्वार्थ #एव संख्यायाः प्रत्यय इति पर्यवस्यतीति भावः। यद्वेति। द्विशब्दस्य एकशब्दस्य च संख्येयवृत्तित्वेऽपि "द्व्येकयोः" इति समासवृत्तावेकत्वद्वित्वपरत्वमभ्युपगम्यते। अन्यथा "द्व्येकयोः" इति द्विवचनानुपपत्तेः। तद्वत्पञ्चकाः शकुनय इति तद्धितवृत्तावपि पञ्चन्शब्दस्य पञ्चत्वसंख्यापरतया पञ्चत्वं परिमाणमस्येति सामानाधिकरण्यं स्वीकृत्य पञ्चत्ववाचिनः पञ्चन्शब्दात् पञ्चत्वरूपपरिमाणवति प्रत्यय उपपद्यत इत्यर्थः। तत्र संज्ञायां स्वार्ते उदाहरति--पञ्चैवेति। परिमाणिनि प्रत्ययमुदाहरति--पञ्च परिमाणमिति। पञ्चत्वमित्यर्थः। सङ्घे इति। उदाहरणं वक्ष्यत इत्यर्थः। पञ्चक इति। पञ्चत्वस्य सङ्घस्य परिमाणमित्यर्थः। सङ्घस्य पञ्चत्वं तु अवयवाद्वारा बोध्यम्। सूत्र इति। उदाह्यियत इति शेषः। अष्टकं पाणिनीयमिति। "सूत्र"मिति शेषः। अष्टावध्यायाः परिमाणमस्येति विग्रहः। अत्राष्टत्वमध्यायद्वार#आ सूत्रेऽन्वेति। सूत्रशब्दश्च सूत्रसंघपरः, एकस्मिन्सूत्रे अष्टकत्वस्याऽसंभवात्। नन्वेवं सति सङ्घग्रहणेनैव सिद्धे सूत्रग्रहणं व्यर्थमित्यत आह--सङ्घशब्दस्येति। पञ्चकमध्ययनमिति। पञ्चावृत्तयः परिमाणमस्येति विग्रहः।

स्तोमे डविधिरिति। "तदस्य परिमाण"मित्यर्थे सङ्ख्यावाचिन उपसंख्यातव्य" इति शेषः। सामाधारमन्त्रसमूहे स्तोमशब्दः शक्त इति कैयटः। मनुष्यादिसमूहे तु स्तोमशब्दो लाक्षणिक इति तदाशयः। तदाह--पञ्चदश मन्त्रा इति। पञ्चदशः स्तोम इति। पञ्चदशन्शब्दाड्डप्रत्यये "टे"रिति टिलोपः। सामाधारबूतपञ्चदशमन्त्रसमूह इत्यर्थः। ननु ङित्त्वाऽभावेऽपि "नस्तद्धिते" इत्येव टिलोपसिद्धेर्ङित्त्वं व्यर्थमित्यत आह--एकविंश इति। एकविंशतिर्मन्त्राः परिमाणमस्य समूहस्येति विग्रहः। डप्रत्यये इति। "ति विंशतेर्डिती"ति टिलोपः। मीमासकास्तु पृष्ठरथन्तरादिशब्दवाच्या प्रगीतमन्त्रसाध्या गुणवत्त्वेन वर्णनात्मिका स्तुतिरेव स्तोमः, स एव डप्रत्ययार्थः। प्रगीतपञ्चदशमन्त्रपरिमाणकः स्तोम इत्यर्थः। पञ्चदशत्वसंख्यात्मकपरिमाणं स्तुतौ मन्त्रद्वारा बोध्यम्। एवंच "पञ्चदशेन स्तुवते" इत्यादौ धात्वर्थभूतस्तुतिसामानाधिकरण्यं पञ्चदसादिशब्दानामुपपद्यत इत्याहुः। तन्मतमवलम्ब्याह--सोमयागेष्वित्यादि।