पूर्वम्: ५।२।९
अनन्तरम्: ५।२।११
 
सूत्रम्
परोवरपरम्परपुत्रपौत्रमनुभवति॥ ५।२।१०
काशिका-वृत्तिः
परोवरपरम्परपुत्रपौत्रम् अनुभवति ५।२।१०

परोवर परम्पर पुत्रपौत्र इत्येतेभ्यः तदिति द्वितीयासमर्थेभ्यः अनुभवति इत्यस्मिनर्थे खः प्रत्ययो भवति। परोवर इति परस्योत्वं प्रत्ययसंनियोगेन निपात्यते। परांश्च अवरांश्च अनुभवति परोवरीणः। परपरतराणां च परम्परभावो निपात्यते। परांश्च परतरांश्च अनुभवति परम्परीणः। पुत्रपौत्राननुभवति पुत्रपौत्रीणः। परम्परशब्दो विनापि प्रत्ययेन दृश्यते, मन्त्रिपरम्परा मन्त्रं भिनत्ति इति। तच्छब्दान्तरम् एव द्रष्टव्यम्।
न्यासः
परोवरपरम्परपुत्रपौत्रमनुभवति। , ५।२।१०

कथं पुनरप्रत्ययसन्नियोगेन निपातनस्य विना प्रत्ययेन दर्शनमुपपद्यते? इत्याह--"तच्छब्दान्तरमेव द्रष्टव्यम्()" इति॥
बाल-मनोरमा
परोवरपरम्परपुत्रपौत्रमनुभवति १७८८, ५।२।१०

परोवर। परोवर, परम्पर, पुत्रपौत्र-एभ्यो द्वितीयान्तेभ्योऽनुभवतीत्यर्थे खः स्यादित्यर्थः। परोवरीण इति। परे च अवरे च परावरे ताननुभवतीत्यर्थः। अवरस्योत्त्वमिति। अवरशब्दस्य आदेरकारस्य खप्रत्ययसंनियोगेन उत्त्वं निपात्यत इत्यर्थः। एवं च विग्रहवाक्ये इदमुत्त्वं न भवति। प्रकृतेरिति। परपरतरशब्दाद्द्वन्द्वात्खे सति तत्सन्नियोगेन प्रकृतेः परम्परभावो निपात्यत इत्यर्थः। नन्वेवं सति "कल्याणपरम्परे"त्यादौ कथं परम्पराशब्दः?, परम्परभावस्य खप्रत्ययसन्नियोगशिष्टत्वादित्यत आह--परम्पराशब्दस्त्विति। तस्मादेवेति। "परम्परे"त्यव्युत्न्नप्रातिपदिकादेवेत्यर्थः। कथमिति। परावरशब्दाद्भावे वा स्वार्थे वा ष्यञि अवरस्यादेरुत्वे पारोवर्यशब्दान्मतुपि पारोवर्यवदिति कथमित्याक्षेपः, उत्त्वस्य खप्रत्ययसन्नियोगाशिष्टत्वादिति भावः। उत्त्वं दुरुपपादमेवेत्याह--असाधुरेवेति। नन्वत्र परोवरेति निर्देशात्--खादन्यत्राप्युत्त्वं किं न स्यादित्यत आह--खप्रत्ययसन्नियोगेनैवेति। अत एव भाष्ये "परांश्चावरंश्चानुभवती"त्येव विग्रहो दर्शित इति भावः।

तत्त्व-बोधिनी
परोवरपरम्परपुत्रपौत्रमनुभवति १३७८, ५।२।१०

अवरस्येति। "आदे"रिति शेषः। उत्वे कृते "आद्गुणः"। केचुत्तु ओत्वं परशब्दस्य निपात्यते, तस्मात्परस्याऽतः "एङः पदान्ता"दिति पूर्वरूपादेश इति पक्षान्तरमाहुः।