पूर्वम्: ५।२।८
अनन्तरम्: ५।२।१०
 
सूत्रम्
अनुपदसर्वान्नायानयं बद्धाभक्षयतिनेयेषु॥ ५।२।९
काशिका-वृत्तिः
अनुपदसर्वान्नायानयं बद्धाभक्षयतिनेयेषु ५।२।९

अनुपदाऽदिभ्यः शब्देभ्यः तदिति द्वितीयासमर्थेभ्यः यथासङ्ख्यं बद्धा भक्षयति नेय इत्येतेष्वर्थेषु खः प्रत्ययो भवति। अनुः आयामे सादृश्ये वा। अनुपदं बद्धा उपानतनुपदीना। पदप्रमाणा इत्यर्थः। सर्वान्नानि भक्षयति सर्वान्नीनो भिक्षुः। अयः प्रदक्षिणम्, अनयः प्रसव्यम्। प्रदक्षिणप्रसव्यगामिनां शाराणां यस्मिन् परशारैः पदानामसमावेशः सो ऽयानयः। अयानयं नेयः अयानयीनः शारः। फलकशिरःस्थित इत्यर्थः।
न्यासः
अनुपदसर्वान्नायानयं बद्धाभक्षयतिनेयेषु। , ५।२।९

"अनुरायामे" इत्तयादि। यदायामे तदा "यस्य चायामः" २।१।१५ इति समास-। यदा सादृश्ये तदा "यतार्ते यदव्ययम्()" तेन "अव्ययं विभक्ति" २।१।६ इत्यादिना। यता पदमायतं तथा च "बद्धोपानदनुपदीना"। सादृश्ये यथानुपदं तता बद्धाऽनुपदीना। "पदप्रमाणेत्यर्थः" इति। यदाप्यनु सादृश्ये, तदाप्ययमर्थ वेदितव्यः, तुल्यप्रमाणतयैव सादृश्यम्()। "अयः प्रदक्षिणम्()" इति। अयनमयः, गमनमित्यर्थः। प्रदक्षिणं गमनमय इत्युच्येत। "अनयः प्रसव्यम्()" इति। अयविपरीतं प्रसव्यमनय इत्युच्यते। एवमवयवार्थं दर्शयित्वा समुदायार्थं दर्शयितुमाह--"प्रदक्षिणप्रसव्यगामिनाम्()" इत्यादि। बहुवचनमयानयनिमित्तप्रदर्शनार्थम्()। यदि शाराः प्रदक्षिणं प्रसव्यं च गच्छन्त्येवमयानयौ भक्तः, नान्यथा। तत्रात्मोयाः शाराः प्रदक्षिणं गच्छन्ति, परकीयाः प्रसव्यम्()। तेषामेवङ्गामिनां यानिस्थानानि तेषां यस्मिन्? प्रदक्षिणप्रसव्यगमनात्मके गतिविशेषे सति परैर्विपक्षभूतैः शारैरसमावेशः=अनध्यासनमनाक्रमणं सोऽयानय इत्युच्यते; न तु प्रदक्षिणप्रसव्यगमनमात्रे स एवायम्()। एवंरूपोऽयानयो यदा समहायैः शारौः पदान्यधिष्ठीयन्ते तदा वेदितव्यः। ससहायानामेव हि शाराणां पदानि परैर्न शक्यन्त#एऽध्यासितुम्। असहायानां तु शक्यत एव। "फलकशिरसि स्थितः" इति। यत्र फलकेऽङ्कऽक्षैर्दीव्यन्ति तस्य शिरोभूतं यत्र स्थानं किंतवानां प्रसिद्धं तत्र स्थितः शारः "अयानयीनः" इत्युच्यते; तत्रैवायानयीनशब्दस्य रूढत्वात्()। अपरे तु, नेयो नेतव्यः, न नोतस्ततः। तत्र "शिरसि स्थितः" इत्यर्थानुपपत्तेः "फलकशिरसि स्थाप्यते" इत्यर्थ इति ग्रन्थेन भवितव्यमित्याहुः। नीतो वा नेयः; तदुपलक्षणत्वात्()। भाविन्यावस्थयोक्तः। अयानयसम्बन्धित्वेऽपि सर्वेषां विशेष्यादेव प्रत्ययोत्पत्तिरुक्तैव। सत्यपि द्वितीयाधिकारे पुनर्द्वितीयोच्चारणं दृष्टाद्()द्धितीयान्ताद्यथा स्यादित्येवमर्थम्()। तेन विशिष्टार्थनेयवचनादयानयशब्दाद्()द्धितीयान्तातद्? प्रत्ययो भवति, न नेयवचनमात्रात्()। स एव विशिष्टो यो नयः प्रदक्षिणप्रसव्यगामीत्यादिना ग्रन्थेन दर्शितः। अथायान्य इति कोऽयं शब्दः, यदि ह्रयं समाहारे द्वन्द्वः, तस्य नपुंसकत्वादयानयमिति भवितव्यम्()? अथेतरेतरयोगे, द्व्यर्थत्वादयानयाविति भवितव्यम्()? नायं द्वन्द्वः, किं तर्हि? मयूरव्यंसकादित्वात्? तत्पुरुषः--अयसहितोऽनयोऽयानय इति। अथ बद्धाभक्षयतिनेयेष्विति कथं तिङन्तस्य द्वन्द्वः? कः पुनराहायं द्वन्द्व इति? यदि न द्वन्द्वः, कथं नेयेष्विति बहुवचनम्()? सौत्रत्वान्निर्देशस्य। सुब्व्यत्ययेन वा च्छन्दस्येकवचनस्य स्थाने बहुवचनमुपपन्नम्()। ननु च्छन्दसि सुब्व्यत्यय उक्तः, नेदं छन्दः? "छन्दोवत्सूत्राणि भवन्ति" (म।भा। १-१-१) इत्यदोषः। अथ वा; द्वन्द्व एवायम्(), न तु तिङन्तस्य। न हि भक्षयतिशब्दोऽयं तिङन्तः। किं तर्हि? तिङन्तप्रतिरूपको निपातस्तिङन्तेन समानार्थः, यथा--अस्तिक्षीरा ब्राआहृणीत्यत्रास्तिशब्दः॥
बाल-मनोरमा
अनुपदसरह्वान्नायानयं बद्धाभक्षयतिनेयेषु १७८७, ५।२।९

अनुपदं बद्धेति। क्रियाविशेषणत्वाद्द्वितीया। अनुपदीना उपानदिति। पदसम्बन्धिदैर्ध्योपलक्षितेत्यर्थः। पदेन सदृशीति वा। तत्तुल्यपरिमाणेति यावत्।?यानय इति द्यूते शाराणां प्रदक्षिणपरिवर्तनम्--अयः, प्रसव्यपरिवर्तनम्-अनयः। अयसहितः अनयः-अयानयः। प्रदक्षिणप्रसव्यगामिना यस्मिन्युग्यमादिपदे स्थितानां परकीयैः शारैरनाक्रमणं तत्स्थानमिह अयानयशब्देन लक्षणयोच्यत इत्यर्थः। एतत्सर्वं भाष्ये स्पष्टम्। "समहायस्य शारस्य परैर्नाक्रम्यते पदम्। असहायस्तु शारेण परकीयेण बाध्यते। इति द्यूतशास्त्रामर्यादा। विस्तरस्तु कैयटमनोरमादावनुसन्धेयः। तं नेय इति। तं=स्थानविशेषमयानयाख्यं, प्रापणीय इत्यर्थः। णीञ्द्विकर्मकः। "प्रधाने कर्मणि यत्, अप्रधाने द्वितीया" इति भावकर्मलकारप्रक्रियायां वक्ष्यते।

तत्त्व-बोधिनी
अनुपदसर्वान्नायानयं बद्धाभक्षयतिनेयेषु १३७७, ५।२।९

अनुपदसर्वान्नायानयं। "बद्धाभक्षयती"त्यत्र निपातनातिङन्तेन सह द्वन्द्वः। द्वितीयान्तेभ्योऽनुपाददिभ्यो यथासङ्ख्यं बद्धादिष्वर्थेषु खः स्यात्। अनुरायाम इत्यादि। "यस्य चायामः"इति , यथार्थे--"ऽव्यय"मिति वा अव्ययीभाव इत्यर्थः। सर्वान्नीन इति। प्रकारकार्त्स्न्ये सर्वशब्दः। यान्यन्नानि लभ्यन्ते उष्णानि शीतलामि सरसानि वा सर्वाणि भक्षयतीत्यर्थः। "अयः---प्रदक्षिणगमनम्। अनयः---प्रसव्यगमनम्। प्रदक्षिणप्रसव्यगामिनां शाराणां यस्मिन्परैरसमावेशः सोऽयमयानः"इति काशिका। तं नेय इति। नयतेर्द्विकर्मकत्वादप्रधाने कर्मणि द्वितीया। आयानयीनः शारैति। "फलकशिरसि स्थित इत्यर्थः"इति काशिका।