पूर्वम्: ५।२।१०
अनन्तरम्: ५।२।१२
 
सूत्रम्
अवारपारात्यन्तानुकामं गामी॥ ५।२।११
काशिका-वृत्तिः
अवारपारात्यन्तानुकामं गामी ५।२।११

अवारपार अत्यन्त अनुकाम इत्येतेभ्यो द्वितीयासमर्थेभ्यः गामी इत्येतस्मिन्नर्थे खः प्रत्ययो भवति। गमिष्यति इति गामी, भविष्यति गम्यादयः ३।३।३ इति। अकैनोर् भविस्यदाधमर्ण्ययोः । इति षष्ठीप्रतिषेधः। अवारपारं गामी अवारपारीणः। विपरीताच् च। पारावारीणः। विगृहीतादपि इष्यते। अवारीणः। अत्यन्तं गामी अत्यन्तीनः। भृशं गन्ता इत्यर्थः। अनुकामं गामी अनुकामीनः। यथा इष्टं गन्ता इत्यर्थः।
न्यासः
अवारपारात्यन्तानुकामं गामी। , ५।२।११

"गामी" इति। "आवश्यकाधमण्र्ययोर्णिनिः" ३।३।१७० इत्यावश्यकार्थे णिनिः। भविष्यति चायं काले गामिशब्दो वत्र्तते, यदाह--"गमिष्यतीति गामी"। सा च भविष्यति वृत्तिः "भविष्यति गम्यादयः" ३।३।३ इति वचनाल्लभ्यते; इत्याह--"भविष्यति" इत्यादि। "अकेनोर्भविष्यदाधमण्र्ययोरिति षष्ठीप्रतिषेधः" इति। तेन द्वितीयासमर्थतोपपद्यत इत्यभिप्रायः। कृद्योगा हि षष्ठी द्वितीयाया अपवादः, तेन षष्ठीप्रतिषेधे हि सति द्वितीययैव भवितव्यम्()। "अवारपारम्()" इति। अवारस्य पारमिति षष्ठीसमासोऽयम्()। वा च षष्ठ्याः पूर्वनिपातो वक्तव्यः। तेन पक्षे पारावारमित्यपि भवति। "विगृहीतादपि" इति। ["भवति"-मुद्रितः पाठः] "विपरीताच्च" इति। कथं पुनरधिकारादेव द्वितीयासमर्थविभक्तौ लब्धायामिहाधिकं द्वितीयोपादानं कृतम्()? एतेन तदधिकस्य विधिर्भवतीति सूचितम्()। तेन विगृहीताद्विपरीताच्च प्रत्यय उपपद्यते। "अत्यन्तम्()" इति। अन्तस्याभावोऽत्ययो वेति। "अव्ययं विभक्ति" २।१।६ इत्यादिनाऽव्ययीभावः। अथ वा--अन्तमतिक्रान्तमिति "कुगति" २।२।१८ इत्यादिना तत्परुषः। क्रियाविशेषणञ्चैतत्()। "भृशं गन्तेत्यर्थः" इति। भृशार्थत्वेन लोकेऽत्यन्तशब्दस्य प्रसिद्धत्वात्()। "अनुकामम्()" इति। कामसदृशमनुकामम्()। कामनुरूपमित्यर्थः। यथार्थेऽव्ययीभावः। इदमपि क्रियाविशेषणमेव॥
बाल-मनोरमा
अवारपारात्यन्तानुकामं गामी १७८९, ५।२।११

अवारपार। अवारपार, अत्यन्त, अनुकाम--एभ्यो गामीत्यर्थे खः स्यादित्यर्थः। गामीत्यस्य अवश्यं गमिष्यन्नित्यर्थः। "आवश्यकाधमण्र्ययोर्णिनि"रिति णिनिः। "भविष्यति गम्यादयः" इति भविष्यत्कालता। "बहुलमाभीक्ष्ण्ये" इति वा णिनिः। अवारपारीण इति। अवारपारं गामीति विग्रहः। अवारपारशब्दाद्विगृहीताद्विपरीतादपि, व्याख्यानात्। तदाह--अवारीणः पारीण इति। अत्यन्तीन इति। अत्यन्तशब्दोऽत्र भृशवाची। तदाह--भृशं गन्तेति। अनुकाममिति। कामः=इच्छा। तामनतिक्रम्येत्यर्थः। पदार्थानतिवृत्तावव्यायीभावः।

तत्त्व-बोधिनी
अवारपारात्यन्तानुकामं गामी १३७९, ५।२।११

अवारपार। गामीति। "गमेरिनिः, आङि णिच्चे"ति बहुलवचनात्केवलादपि णिनिः। "भविष्यति गम्यादयः"इति भविष्यत्कालता। न्यासकारस्तु "आवश्यके णिनिः, सोऽपि भविष्यत्येवे"त्याह। अवारपारमिति। अकतेनोर्भविष्यदाधमण्र्ययो"रिति षषाठीप्रतिषेधः। केचित्तु "गत्र्थकर्मणी"ति सूत्रे द्वितीयाग्रहणमपवादविषये विधानार्थम्। तेन कृद्योगषष्ठी न भवति "ग्रामं गन्ते"तिवदिति व्याचख्युः। तदसत्। "अकेनो"रिति प्रतिषेधे षष्ठीप्रसङ्गस्यैवाऽभावात्। अवारीण इत्यादि। "विगृहीताद्विपरीतादपीष्यते"इति भावः। अत्यन्तमिति। क्रियाविशेषणम्। अनुकाममिति। काम इच्छा , तस्य सदृशमनुकामम्। कामानुरूपमित्यर्थः। "अव्ययं विभक्ती"ति यथार्थेऽव्ययीभावः।