पूर्वम्: १।१।६७
अनन्तरम्: १।१।६९
 
प्रथमावृत्तिः

सूत्रम्॥ अणुदित् सवर्णस्य चाप्रत्ययः॥ १।१।६८

पदच्छेदः॥ अणुदित् १।१ सवर्णस्य ६।१ ६९ अप्रत्ययः १।१ स्वम् १।१ ६७ रूपम् १।१ ६७

समासः॥

उत् इत् यस्य सः उदित्। अण् च उदित् च अणुदित्, बहुव्रीहिगर्भेतरद्वन्द्वः।
न प्रत्ययः अप्रत्ययः, नञ्तत्पुरुषः।

अर्थः॥

अण्-प्रत्याहारः, उदित् च सवर्णस्य ग्राहकः भवति, स्वस्य च रूपस्य प्रत्ययं वर्जयित्वा। अत्र अण्-प्रत्याहारः परेण णकारेण गृह्यते।

उदाहरणम्॥

{अस्य च्वौ (७।४।३२)} अत्र {अकारेण} सवर्णदीर्घाकारोऽपि गृह्यते, तेन {मालीयति} इत्यत्रापि {ईत्वं} सिध्यति। {यस्येति च (६।४।१४८)}, अत्रापि अकारेण {आकार} ग्रहणात् {मालीयः} अत्रापि लोपः भवति। {आद्गुणः (६।१।८४)} अत्रापि दीर्घप्लुतस्यापि ग्रहणं भवति, तेन रमा + ईश्वरः = रमेश्वरः, अत्रापि गुणः भवति। उदित् - कु (कवर्गः), चु (चवर्गः) टु (तवर्गः) तु (तवर्गः) पु (पवर्गः)
काशिका-वृत्तिः
अणुदित् सवर्णस्य चाप्रत्ययः १।१।६९

परेण णकारेण प्रत्याहारग्रहणम्। अण् गृह्यमाण उदिच् च सवर्णानां ग्राहको भवति, स्वस्य च रूपस्य, प्रत्ययं वर्जयित्वा। आद् गुणः ६।१।८४, अस्य च्वौ ७।४।३२, यस्यैइति च ६।४।१४८। स्वरानुनासिक्यकालभिन्नस्य ग्रहनं भवति। उदित् खल्वपि। चुटू १।३।७, लशक्वतद्धिते १।३।८। चवर्गटवर्गयोः कवर्गस्य च ग्रहनम् भवति। अप्रत्ययः इति किम्? सनाशंसभिक्ष उः ३।२।१६८, अ साम्प्रतिके ४।३।९, दीर्घो न भवति।
लघु-सिद्धान्त-कौमुदी
अणुदित्सवर्णस्य चाप्रत्ययः ११, १।१।६८

प्रतीयते विधीयत इति प्रत्ययः। अविधीयमानोऽणुदिच्च सवर्णस्य संज्ञा स्यात्। अत्रैवाण् परेण णकारेण। कु चु टु तु पु एते उदितः। तदेवम् - अ इत्यष्टादशानां संज्ञा। तथेकारोकारौ। ऋकारस्त्रिंशतः। एवं ऌकारोऽपि। एचो द्वादशानाम्। अनुनासिकाननुनासिकभेदेन यवला द्विधा; तेनाननुनासिकास्ते द्वयोर्द्वयोस्संज्ञा।
न्यासः
अणुदित्सवर्णस्य चाप्रत्ययः। , १।१।६८

संज्ञासूत्रमिदम्, न परिभाषा। साहि नियमार्था भवति। न चाणुदितां सवर्णाना- मन्येषांच ग्रहणं प्राप्तम्, येन सवर्णानामेव ग्रहणं भवतीति नियमः क्रियते- "परेण णकारेण प्रत्याहारग्रहणम्" इति। तेन ऋकारादयोऽपि सवर्णानां ग्राहकाः सिध्यन्तीत्यभिप्रायः। परेण च णकारेण प्रत्याहारग्रहणम् "अ इ उ ण्" इत्यत्र प्रतिपादितम्। पूर्वसूत्रात् "स्वं रूपम्" इत्येतदिहानुवत्र्तते। तच्चार्थाद्विभक्तिविपरिणामो भवतीति षष्ठ()न्तं सम्पद्यते। तेन स्वस्यापि रूपस्याण् गृह्रस्याण उदिच्च ग्राहको भवतीति दर्शयन्नाह-- "स्वस्य च रूपस्य" इति। "आद्गुणः" इत्यादि। यथेह भवति देवेन्द्र इति, तथा खट्वेन्द्र इत्यत्राप्याद्गुणो भवति। "अस्य च्वौ" ७।४।३२ यथा पटीभवतीत्यत्रे- त्वं भवति तथा मालीभवतीत्यत्रापि। "यस्येति च" ६।४।१४८। यथा दिक्षिरित्यत्र लोपो भवति, तथा चौडिरित्यत्रापि। बाह्वादित्वाच्चूडाशब्ददिञ्। "स्वरानुनासिक्य" इत्यादि। उदात्तः सूत्रे गृह्रमाणः स्वरान्तरभिन्नस्यापि ग्राहको भवति। एवमनुदात्तः स्वरितश्च। तथा सानुनासिको निरनुनासिकस्य, सोऽपि तस्य। "दीर्घो न भवति" इति। यदि "अप्रत्ययः" इति प्रतिषेधो न स्यात् प्रत्ययोऽपि सवर्णानां ग्राहकः स्यात्। ततश्च दीर्घोऽपि स्यात्। ननु चात्यल्पमिदमुच्यते- " अप्रत्ययः" इति, अप्रत्ययादेशटित्किन्मित इति वक्तव्यम्। प्रत्यये प्रत्युदाह्मतम्। आदेशे--- "इदम इश्" ५।३।३, अस्मात्= इतः, "पञ्चम्यास्तसिल्" ५।३।७ इति तसिल्, अस्मिन् = इह, "इदमो हः" ५।३।११। अत्र हि सवर्णग्रहणे सति यद्यकृते त्यदाद्यत्व इश्()भावस्तदान्तरतम्यात् त्रिमात्र इकारः प्राप्नोति, अथ कृतेऽद्र्धच- तुर्थमात्रः। यदि "अतो गुणे" ६।१।९४ पररूपत्वेऽकृतेतदापि; अथ कृते ततोऽद्र्धतृ-तीयमात्रः। अथ वा- अद्र्धचतुर्थमात्रोऽद्र्धतृकतीयमात्रश्च नास्ति ततो द्विमात्र- स्त्रिमात्रश्च स्यात। टित्-- "आर्धधातुकस्येड् वलादेः" ७।२।३५, लविता, सवर्णग्रहणे सति दीर्घोऽपि स्यात्। कित् भुवो वुग् लुङलिटोः" ६।४।८८ बभूव, अत्र सानुनासि-कोऽपि स्यात्। सन्ति हि यणः सानुनासिका निरनुनासिकाश्च। मित्-- "चतुरनुडुहोरामुदा-त्तः", ७।१।९८ "अम् सम्बुद्धौ" ७।१।९९, अनड्()वन्-- अत्र दीर्घोऽपि स्यात्। तत् तह्र्रेवं वक्तव्यम्? न वक्तव्यम्; चकारोऽत्र क्रियते, सोऽनुक्तप्रतिषेधसमुच्च- यार्थो भविष्यति। तेन येषामादेशादीनां ग्राहकत्वं नेष्यते ते सवर्णानां ग्राहका न भविष्यन्ति। अन्ये त्वाहुः- ""अप्रत्यः" इति नेह संज्ञाग्रहणम्, किं तर्हि? अन्वर्थग्रहणम्। प्रतीयते विधीयते=उत्पाद्यत इति प्रत्ययः। तेनाप्रत्यय इत्यस्यायमर्थो भवति--"भाव्यमानोऽण् सवर्णान् न गृह्णाति (व्या।प३५)इति। हशादयोऽपि भाव्यन्ते= उत्पाद्यन्त इति तेऽपि प्रत्ययाः, तेन ते सवर्णानां ग्राहका न भवन्ति" इति। चैश्चकारस्य प्रयोजनं वक्तव्यम्। "स्वं रूपम्" इत्यस्यानुकर्षणं तस्य प्रयोजनमिति चेत्, न; चानुकृष्टत्वादुत्तरत्र तदनुवृत्तिर्न स्यात्। न चैतत्प्रयोजनमुपपद्यते; स्वरितत्वादेवानुवृत्तिसिद्धेः। अथ मतम्-- "प्रथमान्तं स्वमित्येतत्प्रकृतं षष्ठीनिर्दिष्टेन चेहार्थः, तस्माच्चकाररे कृते यत्नात् षष्ठ()न्तता तस्य यथा स्यादित्येवमर्थश्चकारः" इति, एतदपि नास्ति; अर्थादेव हि विभ्कतिविपरिणामसिद्धेः॥
बाल-मनोरमा
अणुदित्सवर्णस्य चाऽप्रत्ययः १६, १।१।६८

अणुदित्सवर्णस्य। प्रत्ययशब्दस्य अणादिप्रत्ययपरत्वे "त्यदादीनामः" "इदमैश्" इत्यादीनां पर्युदासो न स्यादित्यतो व्याचष्टे--प्रतीयत इति। उत् इत् यस्य सः उदित=कु चु टु तु पु इत्यादिः। चकारात्स्वं रूपमित्यतः स्वमित्यनुवर्तते। तच्च षष्ट()न्ततया विपरिणम्यते। तदाह-अविधीयमान इत्यादिना। अणिति पूर्वेण परेण वा प्रत्याहार इति संशये निर्धारयति-अत्रेति। अस्मिन्नेव सूत्रे अण् परेण णकारेण, इतरत्र तु "अणोऽप्रगृह्रस्ये"त्यादौ पूर्वेणैवेत्यर्थः। अत्र च आचार्यपारंपर्यौपदेशरूपं व्याख्यानमेव शरणम्। एवं चाणुदित्सूत्रेणानेन अकारादिभिश्चतुर्भिदीर्घप्लुतानामिव सवर्णभूतहकारादीनामपि ग्रहणादच्त्वातेषु परेषु इकारस्य यणादिकं स्यादिति नाज्झलाविति प्रतिषेध आवश्यक इति स्थितम्। अणुदित्सूत्रस्य फलमाह--तदेवमिति। तत्णुदित्सूत्रम्। एवं=वक्ष्यमाणप्रकारेण फलतीत्यर्थः। तिं()रशत इति। ऋलृवर्णयोर्मिथः। सवर्णतया ऋकारेण स्वाष्टादशभेदानाम्लृकारीयद्वादशभेदानां च ग्रहणादिति भावः। एवम्लृकारोऽपीति। ऋकारस्यापि लृकारसवर्णत्वादिति भावः। नन्वेकारेण ऐकारप्रपञ्चोऽपि गृह्रते, ऐकारेण एकारप्रपञ्चश्च। तथा ओकारेण औकारप्रपञ्चो गृह्रेत, औकारेण ओकारप्रपञ्चश्च। ततस्च एचश्चतुवशतेः संज्ञा स्युरित्येवं वक्तव्यं नतु द्वादशानामित्यत आह--एदेतोरिति। कुतो न सावण्र्यमित्यत आह--ऐऔजिति। यदि ह्रेदैतोः ओदौतोश्च परस्परं सावण्र्यं स्यात्तर्हि एकारेण ऐकारप्रपञ्चस्य, ओकारेण औकारप्रपञ्चस्य च अकारादिभिदीर्घप्लुतानामिव ग्रहणसम्भवात् "ऐऔ"जिति सूत्रं नारभ्येत। आरभ्यते च (सूत्रकृता)। अत एदैतोरोदौतोश्च न परस्परं सावण्र्यमिति विज्ञायत इत्यर्थः। अच् इच् एच् इत्यादि प्रत्याहारास्तु ङकारेणैव निर्वाह्राः। नच "एचोऽयवायाव" इत्यत्र यथासंख्यार्थमैऔजिति सूत्रमस्त्विति वाच्यम्। तत्र स्थानेऽन्तरतमः" इति सूत्रेणैव निर्वाहस्य वक्ष्यमाणत्वादिति भावः। वस्तुतस्तु "ऐऔ"जिति सूत्राऽभावे "वृद्धिरादैच्" "न त्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच्" "प्लुतावैच् इदुतौ" इत्यादौ एङ्ग्रहणापत्तौ एदोतोरपि ग्रहणे प्रसक्ते तन्निवृत्त्यर्थमैच्प्रत्याहार आवश्यक इति तदर्थमैऔजित्यारम्भणमीयमेव। अत ऐऔजिति सूत्रारम्भस्य चरितार्थत्वादेदैतोरोदौतोश्च मिथऋ सावण्र्याऽभावसाधकत्वकथनमनुपपन्नमेव। एदैतोरोदौतोश्च मिथः सावण्र्याभावस्तु वृद्दिरादैजित्यादौ क्वचिदैज्ग्रहणात् "अदेङ्गुणः" इत्यादौ क्वचिदेङ्ग्रहणाच्च सुनिर्वाहः। अन्यथा सर्वत्र एङ्()ग्रहणमेव ऐज्ग्रहणमेव वा कुर्यात्। तावतैव चतुर्णां ग्रहणसम्भवात्। अत ऐच् एङिति प्रत्याहारद्वयग्रहणसामथ्र्यादेदैतोरोदौतोश्च न मिथः सावण्र्यम्। "प्लुतावैच इदुतौ" "एचोऽप्रगृस्ये"ति प्रत्याहारद्वयग्रहणवैयथ्र्याच्चेति शब्देन्दुशेखरे प्रपञ्चितम्। तेनेति। एदैतौरोदौतोश्च मिथस्सावण्र्याभावेनेत्यर्थः। नापादनीयमिति। नाशङ्कनीयमित्यर्थः। एवं च एकारेण सह वर्तत इति सैः, हे सैरित्यत्र "एङ्()ह्यस्वात्" इति संबुद्धिलोपो न। ग्लावं ग्लाव इत्यत्र "औतोऽम्शसोः" इत्यात्वं च न। स्यादेतत्। हकारस्य आकारस्य च सवर्णसंज्ञा स्यात् , स्थानप्रयत्नसाम्यात्, अज्झलामेव सावण्र्यनिषेधात्, वार्णसमाम्नायिकानामेन वर्णानामज्झलशब्दवाच्यत्वात्, आकारप्रश्लेषे च प्रमाणाऽभावात्। न चाकारस्याच्त्वात्तेन आकारस्यापि अणौदित्सूत्रेण ग्रहणादाकारहकारयोर्न सावण्र्यमिति वाच्यं, ग्रहणकसूत्रे हि लब्धात्मकमेव सत् "अस्य च्वौ" इत्यादौ प्रवृत्तिमर्हति। नाज्झलाविति प्रवृत्तिदशायां च ग्रहणकशास्त्रं न लब्धात्मकम्। तद्धि सवर्णपदघटितं, सवर्णपदार्थावगमोत्तरम#एव लब्धात्मकम्। सवर्णसंज्ञाविधायकं च तुस्यास्यसूत्रं सामान्यतः त्वर्थं बोधयदपि नाज्झलावित्यपवादविषयं परिह्मत्य तदन्तत्रैव पर्यवसन्नं स्वकार्यक्षमम्। तदुक्तम्--"प्रकल्प्यपवादविषयमुत्सर्गोऽभिनिविशते" इति। उक्तं च भाष्ये-वर्णानामुपदेशस्तावत्, उपदेशोत्तरकाला इत्संज्ञा, इत्संज्ञोत्तरकाल आदिरन्त्येनेति प्रत्याहारः, प्रत्याहारोत्तरकाला सवर्णसंज्ञा, तदुत्तरकालमणुदित्सूत्रमित्येतेन समुदितेन वाक्येनात्यत्र सवर्णानां ग्रहणं भवती"ति। अन्यत्र="अस्य च्वौ" इत्यादावित्यर्थः। अत्र भाष्ये "प्रत्याहारोत्तरकाला सवर्णसंज्ञे"त्यनेन नाज्झलाविति निषेधसहितः सावण्र्यविधिर्विवक्षितः , केवलसावण्र्यविधेः प्रत्याहारानपेक्षत्वेन प्रत्याहारोत्तरकालिकत्वनियमाऽसम्भवात्। तथा चाणुदित्सूत्रस्य नाज्झलाविति निषेधसहिततुल्यास्यसूत्रप्रवृत्तेः प्रागलब्धात्मकत्वात्तेन नाज्झलावित्यत्र अज्ग्रहणेन सवर्णानां ग्रहणाऽभावात्सावण्र्यविधिनिषेधाभावादकारहकारयोः सावण्र्यं स्यादिति शङ्कते--नाज्झलाविति सावण्र्येत्यादिना। यद्यपीति सम्भावनायाम्। अक्षरसमाम्नायः=चतुर्दशसूत्री। तत्र भवा आक्षरसमाम्नायिकाः। "बह्वचोऽन्तोदात्तात्" इति ठञ्। न च नाज्झलविति प्रवृत्तिदशायामणुदित्सूत्रप्रवृत्त्यभावेऽपि तत्र अजित्यनेन लक्षणया दीर्घप्लुतानां ग्रहणमस्तु प्रत्याहाराणां स्ववाच्यवाच्येषु लक्षणाया अनुपदमेव प्रपञ्चितत्वादिति वाच्यम्। स्ववाच्यवाच्येषु हि प्रत्याहाराणां लक्षणा, न चात्राच्छब्दवाच्याकारादिवाच्यता दीर्घप्लुतानामस्ति। अमुदित्सूत्रस्येदानीमप्रवृत्तेरिति भावः। परिहरति--तथापीति। वार्णसमाम्नायिकानामेव नाज्झलाविति निषेध इत्यभ्युपगमेऽपि हकारस्य आकारो न सवर्ण इत्यर्थः। कुत इत्यत आह--तत्रापीति। अपिशब्दो व्युत्क्रमः। तत्र=नाज्झलाविति सूत्रे, आसहितोऽच् आचित्याकारस्यापि सवर्णदीर्घेण प्रश्लिष्टत्वादित्यर्थः।

नन्वस्तु हकारस्य आकारस्य च सावण्र्यं, किं तत्प्रतिषेधार्थेन आकारप्रश्लेषेणेत्यत आह--तेनेति। तेन=हकारस्य आकारस्य च सावण्र्यप्रतिषेधेन, हकारेण आकारस्य ग्रहणाऽभावाद्वि()आपाभिरित्यत्र "हो ढः" इति हकारस्य विधीयमानं ढत्वं पकारादाकारस्य न भवति। आकारप्रश्लेषाऽभावे तु, तस्य हकारस्य च सावण्र्यसत्वाद्धकारेण आकास्य च ग्रहणात्तस्य ढत्वं स्यादित्यर्थः। अत्र ढत्वस्यासिद्धत्वात्संयोगान्तलोप एवापादनीय #इति नवीनाः। "कालसमयवेलासु तुमुन्" इति सूत्रे वेलास्विति लकारादाकारस्य निर्देशो नाज्झलावित्यत्र आकारप्रश्लेषे प्रमाणम्। अन्यथा तत्र ढत्वस्य संयोगान्तलोपस्य वाऽ‌ऽपत्तावाकारो न श्रूयेतेत्यलम्। ननु ग्रहणकसूत्रेऽज्ग्रहणमेव क्रियताम्, अणुदित्सवर्णस्येति किमण्ग्रहणेन, हयवरलानां सवर्णाऽभावेन तेषु ग्रहणकशास्त्रस्य व्यर्थत्वादित्यत आह--अनुनासिकेति। तेनेति। उक्तद्वैविध्येन सवर्णत्वात्-अननुनासिकास्ते यवलाः प्रत्येकं द्वयोद्र्वयोः संज्ञाः। अनुनासिकास्तु यवला अननुनासिकानामपि न संज्ञाः, "भेदको गुणा" इत्याश्रयणात्, वर्णसमाम्नायेऽननुनासिकानामेव तेषां पाठाच्च। एवं च यवलसंग्रहार्थं ग्रहणकसूत्रेऽज्ग्रहणमपह#आय अण्ग्रहणमिति भावः।

तत्त्व-बोधिनी
अणुदित्सवर्णस्य चाऽप्रत्ययः १५, १।१।६८

अविधीयमानोऽणिति। तेन इत इत्यत्र "इदम इश्" इति त्रिमात्र ईकारो न भवति। उदिच्चेति। इह "अविधीयमान" इति न संबध्यते, उदित्करणसामथ्र्यात्। तेन विधीयमानोऽप्युदित्सवर्णान्गृह्णात्येव,-"कुहोश्चुः" जगाद जघटे। परेण णकारेणेति। व्याख्यानतो विशेषप्रतिपत्तेः, "उपसर्गादृति" "ऋत उत्" इत्यादौ तपरकरणाल्लिङ्गाच्च। यदि पूर्वेण स्यात्तर्हि तपरत्वमिहानर्थकं स्यात्, ऋकारस्याऽनण्त्वेन सवर्णाऽग्राहकत्वात्। एवं च "तपरत्वाद्दीर्थे न, उप ऋकारीयति" इत्यादिवक्ष्यमाणग्रन्थोऽपि सङ्गच्छते। एवम्लृकारोऽपीति। "तिं()रशतः संज्ञे"त्यनुषज्यते। एतच्च न्यायसाम्यादुक्तम्। वस्तुत लृकारस्य ऋकारग्राहकत्वं न कुत्राप्युपलभ्यते। सूत्रारम्भसामथ्र्यादिति। सति तु सावण्र्ये एकारेण ऐकारग्रहणादोकारेण चौकारग्रहणात् "ऐऔच्" इति सूत्रारम्भो वृथा स्यादिति भावः। नापादनीयमिति। तेन ग्लावं ग्लाव इत्यत्र "औतोम्शसोः" इति न प्रवर्तत इति मूल एव स्फुटीभविष्यति। यद्यपीति। ग्रहणकशास्त्रस्याद्याप्यनिष्पत्तेरिति भावः। एतच्च "अकः सवर्णे दीर्घः" इत्यत्र व्युत्पादयिष्यामः। आक्षरेति। अक्षराणां समाम्नायः=उपदेशसूत्राणि। तत्र भवा आक्षरसमाम्नायिकाः। "बह्वचोऽन्तोदात्ताट्ठञ्" इति ठञ्। हो ढ इति ढत्वं न भवतीति। यद्यप्याकारप्रश्लेषाभावे संयोगान्तलोप एव प्राप्नोति नतु ढत्वं, तस्यासिद्धत्वात्, अतोऽत्र संयोगान्तलोपो न भवतीति वक्तुमुचितम्, तथापि "कार्यकालं संज्ञापरिभाषम्" इति पक्षे त्रैपादिकेऽन्तरङ्गे बहिरङ्गपरिभाषायाः प्रवृत्तेरन्तरङ्गे ढत्वे कर्तव्ये बहिरङ्गः संयोगान्तलोपोऽसिद्ध इति मत्वेदमुक्तमित्येके। अन्ये तु "संज्ञापूर्वको विधिरनित्यः" इति लोपस्य वारणं कथंचित्कर्तुं शक्यमित्याशयेन ढत्वं नेत्युक्तमित्याहुः। वि()आपाभिरित्यत्रेत्युपलक्षणम्। वि()आपाः वि()आपाभ्यामित्यादावपि न भवति। "हो ढः" इत्युपलक्षणम्। "पृथगायु"रित्यादौ "झयो हः" इत्याकारस्य घकारो नेति दिक्। यदि तु "विवृतमूष्मणाम्" इत्यत्र "ईषत्स्पृष्टम्" इत्यत "ईष"दित्यनुवर्त्त्य "स्वराणां चे"त्यत्र निवर्त्त्य "ईषद्विवृतमूष्मणां, विवृतं स्वराणा"मिति प्रयत्नभेदो व्याख्यायते, तदा "नाज्झलौ" इति सूत्रं त्यक्तुं शक्यमित्याकरे स्थितम्। अनुनासिकास्ते इति। ये त्वाक्षरसमाम्नायिका अणस्त एव सवर्णानां संज्ञा भवन्तीति भावः। एवंच रेफो हकारश्च अण्प्रत्यागारान्तर्गतोऽपि न क्सयचित्संज्ञा, तत्सवर्णस्यान्यस्याऽभावादित्यवगन्तव्यम्।