पूर्वम्: ६।१।२१५
अनन्तरम्: ६।१।२१७
 
सूत्रम्
चौ॥ ६।१।२१६
काशिका-वृत्तिः
चौ ६।१।२२२

चौ इति अञ्चतिर्लुप्तनकारो गृह्यते। तस्मिन् परतः पूर्वस्य अन्त उदात्तो भवति। दधीचा। दधीचे। मधूचः पश्य। मधूचा। मधूचे। उदात्तनिवृत्तिस्वरापवादो ऽयम्। चावतद्धित इति वक्तव्यम्। दाधीचः। माधूचः। प्रत्ययस्वर एव अत्र भवति।
न्यासः
चौ। , ६।१।२१६

"उदात्तनिवृत्तिस्वरापवादोऽयम्()" इति। "दधीचः" इति। दध्यञ्चतीति क्विन्(), "गतिकारकोपपदात्()" ६।२।१३८ इत्युत्तरपदप्रकृतिस्वरेणाञ्चेरकार उदात्तः। विभक्तावजादावसर्वनामस्थाने "अचः" ६।४।१३८ इत्यकारलोपे कृते "अनुदात्तस्य च यत्रोदात्तलोपः" ६।१।१५५ इत्युदात्तनिवृत्तिस्वरः प्राप्नोति, अतस्यस्याय मपवादः। "चावतद्धिते" इत्यादि। यदिदमञ्चेः पूर्वस्यान्तोदात्तत्वं विधीयते, तदा तद्धितं भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानञ्चेदम्()--अन्यतरस्यांग्रहणमनुवत्र्तते, सा च व्यवस्थितविभाषा, तेन तद्धिते न भविष्यतीति॥