पूर्वम्: ६।२।१०४
अनन्तरम्: ६।२।१०६
 
सूत्रम्
उत्तरपदवृद्धौ सर्वं च॥ ६।२।१०५
काशिका-वृत्तिः
उत्तरपदवृद्धौ सर्वं च ६।२।१०५

उत्तरपदस्य ७।३।१० इत्यधिकृत्य या विहिता वृद्धिः, तद्वत्युत्तरपदे सर्वशब्दो दिक्शब्दाश्च अन्तोदात्ता भवन्ति। सर्वपञ्चालकः। पूर्वपञ्चालकः। उत्तरपाञ्चालकः। सुसर्वार्धदिक्शब्देभ्यो जनपदस्य इति तदन्तविधिना जनपदलक्षणो वुञ् प्रत्ययः। सुसर्वार्धाज्जनपदस्य ७।३।१२ दिशो ऽमद्राणाम् ७।३।१३ इति च उत्तरपदवृद्धिः। अधिकारलक्षणादिह न भवति, सर्वमासः, सर्वकारकः इति।
न्यासः
उत्तरपदवृद्धौ सर्वं च। , ६।२।१०५

"उत्तरपदवृद्धौ" इति। उत्तरपदाधिकारविहिता वृद्धिरुत्तरपदवृद्धिः, इह तु तद्वदुत्तरपदं गृह्रते। तमेवार्थं दर्शयितुमाह--"उत्तरपदस्योत्येवम्()" इत्यादि। कथं पुनरुत्तरपदवृदधावित्युच्यमान एषोऽर्थः शक्यते विज्ञातुम्()? तदुच्यते; उत्तरपदं स्वर्यते, स्वरितेनाधिकारो लक्ष्यते, तेनोत्तरपदस्येत्यधिकृत्य या विहिता वृद्धिस्तास्यास्तावद्ग्रहणं विज्ञायते। पूर्वपदस्येदमन्तोदात्तत्वं विधीयते। पूर्वपदं च सम्बन्धिशब्दत्वादुत्तरपदमुपस्थापयति। न च वृद्धिमात्र उत्तरपदमुपपद्यत इति सामथ्र्याद्वृद्धिशब्दसाहचर्यादुत्तरपदं वृद्धिमुपलक्षयति। तेनोत्तरपदाधिकारे वृद्धिमत्युत्तरपद एष स्वरो भवतीति विज्ञायते। "सर्वपाञ्चालकः" इति। "पूर्वकालैक" २।१।४८ इत्यादिना समासः। "पूर्वपाञ्चालकः" इत्यादौ "पूर्वापर" २।१।५७ इत्यादिना। "जनपदलक्षणो वृञ्प्रत्ययः" इति। "धन्वयोपधाद्वुञ्()" ४।२।१२० इत्यनुवत्र्तमाने "जनपदतदवध्योश्च" ४।२।१२३ इत्यतो जनपदग्रहणे च "अवृद्धादपि बहुवचनविषयात्()" ४।२।१२४ इत्यनेन वञ्()। "सुसर्वाद्र्धात्()" इत्यादि। "सर्वपाञ्चालकः" इति। "सुसर्वर्धाज्जनपदस्य" ७।३।१२ इत्युत्तरपदवृद्धिः। "पूर्वपाञ्चालकः" इत्यादौ तु "दिशोऽमद्राणाम्()" ७।३।१३ इति। एषा चोत्तरपदाधिकारविहिता, तत्र चोत्तरपदस्येत्यनुवृत्तेः। किं पुनः कारणमुत्तरपदाधिकार उत्तरपदग्रहणेन लक्ष्यत इत्येवं विज्ञायते? इत्याह--"अधिकार लक्षणात्()" इत्यादि। यद्युत्तरपदग्रहणेनोत्तरपदाधिकारो लक्ष्येत, तदा वृद्धिमात्रवत्युत्तरपदे वैतद्वुञो ह्रु वात्तत्वं भवतीत्युक्तं स्यात्()। तथा च सर्वभासः, सर्वकारक इत्यत्रापि स्यात्()। अधिकारलक्षणे तु न भवति, न ह्रुदात्तत्वं भवतीत्युक्तं स्यात्()। तथा च सर्वभासः, सर्वकारक इत्यत्रापि स्यात्()। अधिकारलक्षणे तु न भवति, न ह्रुत्तरपदाधिकारविहिता वृद्धिः। "भासृ दीप्तौ" (धा।पा।६२४) भासत इति भासः, पचाद्यच्()। करोतीति कारकः, ण्वुल्(), "अचो ञ्णिति" ७।२।११५ इति वृद्धिः, सा चोत्तरपदाधिकारविहिता न भवति॥