पूर्वम्: ७।३।९
अनन्तरम्: ७।३।११
 
सूत्रम्
उत्तरपदस्य॥ ७।३।१०
काशिका-वृत्तिः
उत्तरपदस्य ७।३।१०

उत्तरपदस्य इत्ययम् अधिकारः हनस्तो ऽचिण्णलोः ७।३।३२ इति प्रागेतस्मात्। मदित ऊर्ध्वम् अनुक्रमिष्यामः उत्तरपदस्य इत्येवं तद् वेदितव्यम्।
न्यासः
उत्तरपदस्य। , ७।३।१०

अङ्गस्यचामादेरचो वृद्धौ प्राप्तायामिदमुच्यते। ननु च "अवयवादृतौः" ७।३।११ इत्यदौ पञ्चमीनिर्देशादन्तरेणाप्युत्तरपदाधिकारं "तस्मादित्युत्तरस्य" १।१।६६ इत्युत्तरपदस्यैव भविष्यति, तत्? किमुत्तरपदाधिकारेण? इतयत आह--"यत्र"--इत्यादि। आदिशब्देन "ह्मद्भगसिन्ध्वन्ते पूर्वपदस्य" ७।३।१९, "अनुन्नतिकादीनाञ्च" ७।३।२०, "देवताद्वन्द्वे च" ७।३।२१--इत्येवमादयो गृह्रन्ते। एषु पञ्चमीनिर्देशाभावादसत्युत्तरपदाधिकारोऽङ्गसयाचामादेरच एव वृद्धिः स्यात्(), नोत्तरपदस्य। तस्मात्? तदर्थमुत्तरपदाधिकारः क्रियते। यद्येवम्(), इह "अवयवादृतोः" ७।३।११ इत्येतन्नोपन्यसनीयम्(), अत्र पञ्चमीनिर्देशस्य विद्यमानत्वात्? इति चोद्यमाशङ्क्यान्यार्थं क्रियमाणस्य यत्रापि पञ्चमीनिर्देशोऽस्ति, तत्रापि प्रासङ्किकं कार्यंमाह--"पञ्चमीनिर्देशेष्वपि" इत्यादि। प्रयोजनान्तरमपर्याह--"वृद्धेश्च" इत्यादि। उत्तरपदाधिकारे या विहिता वृद्धिरित्येष व्यपदेशो वृद्धेर्यथा स्यादित्यवमक्छञ्चोत्तरपदाधिकारः क्रियते। किं पुनः कारणमेवं वृद्धेरव्यपदेशः प्राथ्र्यते? इत्याह--"उत्तरपदवृद्धौ" इत्यादि। उत्तरपदाधिकारे विहिते वृद्धिमत्युत्तरपदे पूर्वपदस्यान्तोदात्तत्वं यथा स्यादित्येवमर्थम्()। "उत्तरपदवृद्धौ सर्वञ्च" ६।२।१०५ इत्यत्रोत्तरपदाधिकारे या विहिता वृद्धिरित्येवं विधायते। एतत्कथं शक्यते विज्ञातुम्()? यदि व्यपदेशार्थ उत्तरपदाधिकारः क्रियते, नान्यथा। तस्माद्व्यपदेशार्थश्चोत्तरपदाधिकारः कत्र्तव्यः॥
बाल-मनोरमा
उत्तरपदस्य १३७६, ७।३।१०

उत्तरपदस्य। अधिकारोऽयमिति। सप्तमे आदिवृद्धिप्रकरणे एतदादिसूत्राणि।

बाल-मनोरमा
नञः शुची�आरक्षेत्रज्ञकुशलनिपुणानाम् १४३९, ७।३।१०

नञः शुची()आरः। आदिवृद्धिप्रकरणे उत्तरपदस्य पूर्वस्य तु वेत्यनुवृत्ताविदं सूत्रम्। आशौचम् - आशौचमिति। अशुचेरागतमित्यर्थः। "तत आगत" इत्यणि पूर्वपदस्यादिवृद्धिविकल्पः। उक्त्रपदस्य तु नित्या आदिवृद्धिः। एवमग्रेऽपि अक्षेत्रज्ञात् अकुशलात् अनिपुणाच्च आगतमित्यर्थो बोध्यः। आनै()आर्यमित्यत्र तु ब्राआहृणादित्वाद्भावे ष्यञ्।