पूर्वम्: ६।२।११४
अनन्तरम्: ६।२।११६
 
सूत्रम्
नञो जरमरमित्रमृताः॥ ६।२।११५
काशिका-वृत्तिः
नञो जरमरमित्रमृताः ६।२।११६

नञ उत्तरे जरमरमित्रमृता बहुव्रीहौ समासे आद्युदात्ता भवन्ति। अजरः। अमरः। अमित्रः। अमृतः। नञः इति किम्? ब्राह्मणमित्रः। जरादयः इति किम्? अशत्रुः, नञ्सुभ्यम् ६।२।१७१ इति उत्तरपदान्तोदात्तत्वम् एव अत्र भवति।
न्यासः
नञो जरमरमित्त्रमृताः। , ६।२।११५

"अजरः" इति। जरणं जरः "ऋदोरप्()" ३।३।५७। तेनायं धातुस्वरेणाद्युदात्तः। अविद्यमानो जरोऽस्येति। "अमरः" इति। मरणं मरः, "कृत्यल्युटो बहुलम्()" ३।३।११३ इत्यप्()। तेनायमपि पूर्ववदाद्युदात्तः। "अमित्त्रः" इति। "अमिचिमिदिशसिभ्यः क्त्रः" (द।उ।८।८६) इदि मिदेः क्त्रः। तेन मित्त्रशब्दोऽन्तोदात्तः। "अमृतः" इति। "मृङ् प्राणत्यागे" (धा।पा।१४०३) मरणम्()=मृतम्()। "नपुंसके भावे क्तः" ३।३।११४। तेन मृतशब्दोऽन्तोदात्तः। "ब्राआहृणमित्त्रः" इति। ब्राआहृणशब्दोऽणन्तत्वादन्तोदात्तः। अत्र पूर्वपदप्रकृतिस्वर एव भवति। "अशत्रुः" इति। "रुशातिभ्यां (द।उ।१।१५९) इति क्रुन्नन्तः शत्रुशब्द आद्युदात्तः। "नञ्सुभ्याम्()" ६।२।१७१ इत्युत्तरपदान्तोदात्ततवापवादो योगः। एवमुत्तरेऽपि योगः प्राक्? "कूलतीरतूल" ६।२।१२० इत्यतः द्रष्टव्याः॥