पूर्वम्: ६।२।११५
अनन्तरम्: ६।२।११७
 
सूत्रम्
सोर्मनसी अलोमोषसी॥ ६।२।११६
काशिका-वृत्तिः
सोर् मनसी अलोमौषसी ६।२।११७

सोः उत्तरं मनन्तम् असन्तं च बहुव्रीहौ समासे आद्युदात्तं भवति लोमोषसी वर्जयित्वा। सुकर्मा। सुधर्मा। सुप्रथिमा। असन्तम् सुपयाः। सुयशाः। सुस्रोताः। सुस्रत्। सुध्वत्। सोः इति किम्? कृतक्रमा। कृतयशाः। मनसी इति किम्? सुराजा। सुतक्षा। अलोमोषसी इति किम्? सुलोमा। सूषाः। अनिनस्मङ्ग्रहणान्यर्थवता च अनर्थकेन च तदन्तविधिं प्रयोजयन्ति इत्यनर्थकयोरपि मनसोरिह ग्रहणम्। नञ्सुभ्याम् ६।२।१७१ इत्यस्य अयम् अपवादः। कपि तु परत्वात् कपि पूर्वम् इत्येतद् भवति। सुकर्मकः। सुस्रोतस्कः।
न्यासः
सोर्मनसी अलोमोषसी। , ६।२।११६

"सुकर्मा" इति। "कृदृचरिभ्यो मनिन्()" (द।उ।६।७३) ["मनिन्()" इत्येव द।उ।पाठः; "सर्वधातुभ्यो मनिन्()" इति।पं।उ।पाठ--४।१४४] "सर्वनामस्थाने च" ६।४।८ इति दीर्घः। "सुप्रथिमा" इति। पृथोर्भावः प्रथिमा, "पृथ्वादिभ्यः" ५।१।१२१ इतीमनिच्()। "र ऋतो हलादेर्लघोः" ६।४।१६१ इति ऋकारस्य रेफः। "सुपयाः" इति। "असुन्()" (द।उ।९।४९) इति वत्र्तमाने "पिबतेरिच्च" (द।उ।९।५०) [पिबतेरि च--द।उ।] इति पयःशब्दो व्युत्पाद्यते। तेनायमाद्युदात्तः। "अत्वसन्तस्य"६।४।१४ इति दीर्घः। "सुयशाः" इति। "अश भोजने" (धा।पा।१५२३) ["अशू भोजने"--मुद्रितः पाठः] "अशर्देवने युट्? च" (द।उ।९।२४;पं।उ।३।६५) [पंचपारिवशपाद्युणाद्योरुभयत्रापि "यूट्? च" इति नास्ति] इत्यसुन्येव यशःशब्दो व्युत्पाद्यते। तेनायमाद्युदात्तः, पूर्ववद्दीर्घः। "सुरुआओताः" इति। "सर्वधातुब्योऽसुन्? (पं।उ।४।१८८) इति वत्र्तमाने "रुआऊरिभ्यां तुट्? च" (द।उ।९।६२) [रुआऊरीभ्यां--पं।उ।द।उ।] इति। "सुरुआत्? सुध्वत्()" इति। रुआन्सुध्वनसुभ्यां क्विप्? "वसुरुआंसु" ८।२।७२ इत्यादिना दत्त्वम्(), तस्यासिद्धत्वादवासन्तत्वम्()। "सुराजा, सुतक्षा" इति। राजन्(), तक्षन्निति कनिन्नन्तः। "सुलोमा" इति। लुनातेर्मनिनि लोमेति। "सुधा" इति। "उष दाहे" (दा।पा।६९६) "मिथुनेऽसिः" (पं।उ।४।२२२) इति वर्तमाने "उषः कित्()" (पं।उ।४।२३४) इति कित्()। अथ कथं सुप्रथिमेत्यतर सुरुआओताः, सुरुआत्(), सुध्वदित्येतेषु चोत्तरपदमाद्युदात्तं भवति, यावतार्थवतोर्मनसोरर्थवद्ग्रहणपरिभाषयेह ग्रहणम्(), न चेह तावर्थवन्तौ? इत्यत आह--"अनिनस्मन्()" इत्यादि। "अनिनस्मन्? ग्रहणान्यनर्थवता चानर्थकेन च तदन्तविधि प्रयोजयन्ति" (व्या।पा।१२९) इति ब्राउवता वाक्यकारेणानिनस्मन्प्रभृतीनामनर्थकानामपि ग्रहणं भवतीत्युक्तं भवति। अन्यथाप्येतत्? तदन्तविधेः प्रदर्शनार्थं स्यात्()। "कपि तु परत्वात्()" इत्यादि। "सोर्मनसी" ६।२।११६ इति सूत्रस्यावकाशः--सुकर्माः, सुवयाः, "कपि पूर्वम्()" ६।२।१७२ इत्यस्यावकाशः--अयवकः, सुयवक इति, "शेषाद्विभाषा" ५।४।१५४ इति कप्()। इहोभयं प्राप्नोति--सुकर्मकः, सुरुआओतस्क इति, "कपि पूर्वम्()" ६।२।१७२ इत्येतद्भवति विप्रतिषेधेन॥