पूर्वम्: ६।२।१४४
अनन्तरम्: ६।२।१४६
 
सूत्रम्
संज्ञायामनाचितादीनाम्॥ ६।२।१४५
काशिका-वृत्तिः
संज्ञायाम् अनाचितादीनाम् ६।२।१४६

संज्ञायां विषये गतिकारकोपपदाद् क्तान्तम् उत्तरपदम् अन्तोदात्तं भवति आचितादीन् वर्जयित्वा। सम्भूतो रामायणः। उपहूतः शाकल्यः। परिजग्धः कौण्डिन्यः। सम्भूतः इति प्रत्यर्थात् भवतेः कर्मणि क्तः। गतिरनन्तरः ६।२।४९ इत्यत्र हि कर्मणि इत्यनुवर्तते, तद्बाधनार्थं चेदम्। धनुष्खाता नदी। कुद्दालखातं नगरम्। हस्तिमृदिता भूमिः। तृतीया कर्मणि ६।२।४८ इति प्राप्तिरिह बाध्यते। अनाचितादीनाम् इति किम्? आचितम्। अप्र्याचितम्। आस्वापितम्। परिगृहीतम्। नरुक्तम्। प्रतिपन्नम्। प्राश्लिष्टम्। उपहतम्। उपस्थितम्। संहिता ऽगवि। संहिताशब्दो यदा गोरन्यस्य संज्ञा तदा अन्तोदत्तो न भवति। यदा तु गोः संज्ञा तदा अन्तोदात्त एव।
न्यासः
संज्ञायामनाचितादीनाम्?। , ६।२।१४५

"उपहूतः" इति। ह्वेञो निष्ठा, "वचिस्वपि" ६।१।१५ इत्यादिना संप्रसारणम्(), "हलपः" ६।४।२ इति दीर्घः। "परिजग्धः" इति। "अदो जग्धिर्ल्यप्ति किति" २।४।३६ इत्यदेर्जग्धिरादेशः। "झषस्ततोर्धोऽधः" ८।२।४० इति घत्वम्()। "कर्मणि क्तः" इति। भवतेरकर्मकत्वात्? कर्मनिष्ठा नोपपद्यत इति सम्भूत इति कर्तरीयं निष्ठेति कस्यचिद्भ्रमः स्यात्(), अतस्तन्निराकरणायाह--"सम्भूतः" इति। अनेकार्थत्वाद्धातूनां भवतिरत्र प्राप्तौ वर्तते। ये च प्राप्त्यर्थास्ते नियोगतः प्राप्त्यैव कर्मणा सकर्मका सकर्मका भवन्ति। यथा--"णीञ्? प्रापणे" (धा।पा।९०१) इत्येवमादयः। तास्मात्? प्राप्त्यर्थाद्भवतेः सम्भूत इत्यत्र कर्मणि क्त-। किं पुनः कारणं कर्मणि क्त इष्यते? इत्याह--"गतिरनन्तर इत्यत्र कर्मणीत्यनुवर्तते" (इति। ततः किम्()? इत्याह--"तद्बाधनार्थं चेदम्()" इति। "गतिरनन्तरः" ६।२।४९ इत्यत्र हि कर्मणीत्यनुवर्तते। इदं च सूत्रं, तत्? "गतिरनन्तरः" ६।२।४९ इत्यस्यैव बाधनार्थम्()। एवं चैतद्गतिस्वरस्य बाधकं भवति, यदि कर्मणि क्तो विहितः। तदन्तस्योत्तरपदस्यानेनान्तोदात्तत्वं विधीयते, नान्यथा। तस्मात्? सम्भूत इत्यत्र कर्मणि क्तो द्रष्टव्य इत्यभिप्रायः। "धनुष्खाता" इति। "खन्? अवदारणे" (धा।पा।८७८) "जनसनखनाम्()" ६।४।४२ इत्यात्तवम्()। "कर्तृकरणे कृता बहुलम्()" २।१।३१ इति समासः। एवं "कुद्दालखाता" इत्येवमादादपि। धनुःशब्दः "नब्विषयस्यानिसन्तस्य" (फि।सू।२।२६) इत्याद्युदातद्तः। कुद्दालशब्दः "लघावन्ते" (फि।सू।२।४२) इत्यादिना मध्योदात्तः। "हस्तिमृदिता" इति। "मृद क्षोदे" (धा।पा।१५१५), हस्तिशब्द "हस्ताज्जातौ" ५।२।१३२ इतीनिपरतययान्ततवादन्तोदात्तः। "आस्थापितम्()" इति। तिष्ठतेर्णिटच्(), "अर्तिह्यी" ७।३।३६ इत्यादिना पुक्()। "परिगृहीतम्()" (इति। "ग्रहोऽलिटि दीर्घः" ६।२।३७। "निरुक्तम्()" (इति)। "वच परिभाषणे" (धा।पा।१८४२), "वचिस्वपि" ६।१।१५ इत्यादिना सम्प्रसारणम्(), "चोः कुः" ८।२।३०। "प्रतिपन्नम्()" इति। "पद गतौ" (धा।पा।११६९), "रदाभ्याम्()" ८।२।४२, इति नत्वम्()। "प्रश्लिष्टम्()" इति। "ष्लिष आलिङ्गने" (धा।पा।११८६)। "उपद्रूतम्()" इति। "दु द्रु गतौ" (धा।पा।९४४),९४५) "स्थितम्()" इति। "द्यतिस्यति" ७।४।४० इत्यादिनेत्त्वम्()। "संहिता" इति। दधातेर्हिरादेशः॥