पूर्वम्: ६।१।१३०
अनन्तरम्: ६।१।१३२
 
सूत्रम्
सुट् कात् पूर्वः (अडभ्यासव्यवायेऽपि)॥ ६।१।१३१
काशिका-वृत्तिः
सुट् कात् पूर्वः ६।१।१३५

अधिकारो ऽयम् पारस्करप्रभृतीनां च संज्ञायाम् ६।१।१६९ इति यावत्। इत उत्तरं यद् वक्ष्यामस्तत्र सुटिति , कात् पूर्वः इति च एतदधिकृतं वेदितव्यम्। वक्ष्यति सम्पर्युपेभ्यः करोतौभूषणे ६।१।१३२। संस्कर्ता। संस्कर्तुम्। संस्कर्तव्यम्। कात् पूर्वग्रहणं सुटो ऽभक्तत्वज्ञापनार्थम्। तथा हि संस्कृषीष्ट, संस्क्रियते इति संयोगादिलक्षणौ इड्गुणौ न भवतः। तिङ्ङतिङः ८।१।१८ इति निघातो ऽपि तर्हि न प्राप्नोति, सुटा व्यवहितत्वात्? स्वरविधौ व्यञ्जनम् अविद्यमानवतिति वचनान् न अस्ति व्यवधानम् संचस्करतुः, संचस्करुः इति गुणः कथम्? तन्मध्यपतितस्तद्ग्रहणेन गृह्यते इति। संयोगोपधग्रहणं च ऋतश्च संयोगादेर् गुणः ७।४।१० इत्यत्र कर्तव्यम्। टित्करणं सुट्स्तुस्वञ्जाम् इत्यत्र विशेषणार्थम्।
काशिका-वृत्तिः
अडभ्यासव्यवाये ऽपि ६।१।१३६

अड्व्यवाये, अभ्यासव्यवाये अपि सुट् कात् पूर्वः भवति। संस्करोत्। समस्कार्षीत्। सञ्चस्कर। परिचस्कार। किमर्थं पुनरिदम् उच्यते, पूर्वम् धातुरुपसर्गेण युज्यते इति तत्र धातूपसर्गयोः कर्यम् अन्तरङ्गम् इति पूर्वं सुट् क्रियते पश्चादङभ्यासौ? अभक्तश्च सुटित्युक्तम्, ततः सकारादुत्तरावडभ्यासौ अनिष्टे देशे स्याताम्। एतस्मिंस् तु सत्यत एव वचनात् कृतयोरडभ्यासयोः तद्व्यवाये अपि सुट् कात् पूर्वः क्रियते इति सिद्धम् इष्टं भवति।
न्यासः
सुट्? कात्पूर्वः। , ६।१।१३१

"संस्कात्र्ता" इति। "सम्पुंकानां सत्वम्()" (वा।९३६) इति वचनात्? "समः सुटि" ८।३।५ इति निर्देशाद्वा समो मकारस्य सकारः, "अत्रानुनासिकः पूर्वस्य तु वा" ८।३।२ इति पूर्वाकारस्यानुनासिकः। अथ कात्पूर्वग्रहणं किमर्थम्(), यावता सुडयमादिलिङ्गः, करोतिश्च ककारादिः, तत्रान्तरेणापि कात्पूर्वग्रहणं "आद्यन्तौ टकितौ" (१।१।४६) इति कात्पूर्वं एव सुङ्भविष्यति? इत्यत आह--"कात्पूर्वग्रहणम्()" इत्यादि। किं पुनरभक्तत्वे सतीष्टं सिध्यतीति, अतस्तज्ज्ञापकं प्रति यत्नः क्रियते? इत्याह--"तथा हि" इत्यादि। "किं पुनरभक्तत्वे सतीष्टं सिध्यतीति, अतस्तज्ज्ञापकं प्रति यत्नः क्रियते? इत्याह--"तथा हि" इत्यादि। "संस्कृषीष्ट" इति। आशिषि लिङ्? सीयुट्? आमनेपदम्(), "उश्च" १।२।१२ इति कित्त्वाद्गुणाभावः, "सुट्()तियोः" ३।४।१०७ इति तकारसय सुडागमः, कात्पूर्वः सुट्, स यदि करोतेर्भक्तः स्यात्? ततस्तस्य करोतिग्रहणेन ग्रहमात्? कृञः संयोगादित्वं जातमिति "ऋतश्च संयोगादेः" (७।२।४३) इतीट्? प्रसज्येत। "संस्क्रियते" इति। लट्? कर्मण्यात्मनेपदम्(), यक्(), "रिङ्? शयग्लिङ्क्षु" ७।४।२८ इति रिङादेशः। तत्र यदि करोतिभक्तत्वं सुटः स्यात्(), ततश्च संयोगादित्वं करोतेर्जातमिति "गुणोऽर्त्तिसंयोगाद्योः" ७।४।२९ इति गुणः स्यात्()। अभक्तत्वे तु सुटः संयोगादित्वादिङ्गुणौ न भवतः। "तिङ्ङतिङः" इत्यादि। यद्यभक्तः सुट्(), तदा संस्क्रियत इत्यत्र समः पदस्य सुटा व्यवहितत्वात्? "तिङ्ङतिङः" ८।१।२८ इति निघातो न सिध्यति। न च सुट एव पदस्य तिङो लभ्यते; "पदात्()" (८।१।१७) इत्यधिकारात्? सुटश्चापदत्वात्()। "स्वरविधौ" इत्यादि परिहारः। "ऋतश्च संयोगादेः" ७।२।४३ इत्यनेन ऋकारान्तस्याङ्गसय संयोगादेर्लिटि गुणो विधीयते, स चाभक्ते सुटि करोतेरसंयोगादित्वान्नोपपद्यत इति मन्यमान आह--"सञ्चस्करतुः" इत्यादि। गुणः कथम्()? न कथञ्चिदित्यर्थः। "तन्मध्य" इत्यादि। द्विर्वचने कृते द्वौ करोती भवतः तन्मध्ये चायं वर्तते सुट्(), अतः "तन्मध्यपतितस्तद्ग्रहणेन गृह्रते"(व्या।प।२९) इति करोतिग्रहणेनैव गृह्रते, ततो नास्त्यसंयोगादित्वं कृञ इति भावः। ननु च "द्विष्प्रयोगो द्विर्वचनम्()" इत्यस्मिन्? पक्ष उच्चारणमात्रं भिद्यते, धातुस्त्वेक एव, तत्कर्थं करोतेर्द्वित्वम्()? नैष दोषः, यद्यपि धातुरभिन्नः तथाप्युच्चारणभेदाद्()भेदस्तस्याश्रित इति; "अङभ्यासव्यवायेऽपि" ६।१।१३१ इति वचनात्()। अभेदे हि व्यवाय एव नास्तीत्यभ्यासग्रहणमनर्थकं स्यात्()। अथापि कथञ्चित्? स तद्ग्रहणेन गृहयते, एवमपि गुणो भवत्येवेति दर्शयन्नाह--"संयोग" इत्यादि। संयोगोपधग्रहणे हि सति संयोग उपधा यस्येति संयोगोपधत्वेन--ऋकारं विशेष्य पश्चात्? तेनाङ्गं विशिष्येत--तदन्तस्याङ्गस्येति। तत्र यद्यपि करोतेरङ्गं संयोगोपधं न भवति, ऋकारस्तु भवतीति गुणो भवत्येव। तह्र्रभक्तः सुट्()। टित्करणं किमर्थम्()? तद्धि तदादित्वात्? तद्भक्तता यथा स्यादित्येवमर्थं क्रियते। अभक्तश्चेत्? सुट्? तदा टित्करणस्य वैयथ्र्यमेवापन्नमित्यत आह--"टित्करणम्()" इत्यादि। "सुट्स्तुसवञ्जाम्()" इत्युच्यमाने सुरेत्यादौ यः सुशब्दो यश्चोपसर्यस्तस्यापि ग्रहणं स्यात्()। ततश्चातिसुस्थिरः, अतिसुस्थित इत्यादावपि षत्वं प्रसज्येत। तस्माद्विशेषणार्थं टित्करणम्()॥
न्यासः
अडभ्यासव्यवायेऽपि। , ६।१।१३१

"अङ्व्यवायेऽभ्यासव्यवायेऽपि" इति। व्यवायः=व्यवधानम्()। अपिशब्दादव्यवायेऽपि। असत्यपिशब्दे व्यवाय एव स्यात्()। "समस्करोत्()" इति। लङ्। "समस्कार्षीत्()" इति। लुङ्(), च्लिः, तस्य सिच्(), "सिचि वृद्धिः" ७।२।१ इत्यादिना वृद्धिः, "इतश्च" ३।४।१०० इतीकारलोपः, "अस्तिसिचोऽपुक्ते" ७।३।९६ इतीट्()। "सञ्चस्करतुः" इति। लिट्()। यदि पूर्वं धातुः साधनेन युज्यते, तदा साधनाभिधायिनि प्राग्लकारे कृते तन्निमित्ताभ्यामडभ्यासाभ्यां भवितव्यम्, ततश्च तद्व्यवधाने सति सुङ्न प्राप्नोतीति तदर्थं युज्यतेऽस्यारम्भः। न च पूर्वं धातुः साधनेन युज्यते, किं तर्हि? उपसर्गेण। यदि हि पूर्वं धातुः साधनेन युज्येत पश्चादुपसर्गेण, ततोऽनुभूयते कम्बलो देवदत्तेनेत्यत्र कर्मणि लकारो न स्यात्(); भवतेरकर्मकत्वात्()। उपसर्गेण पूर्वं धातौ सम्बन्ध्यमाने न भवत्येव दोषः; अकर्मका अपि धातवः सोपसर्गाः सकर्मका भवन्तीति। तस्मात्? पूर्व धातुरुपसर्गेण युज्यते, ततश्च धातूपसर्गयोः कार्यमन्तरङ्गम्(); तन्निमितयोर्धातूपसर्गयोरडभ्यासनिमित्तात्? प्रत्यविशेषात्? प्रागेव संविधानात्()। अडभ्यासौ तु बहिरङ्गौ; उत्तरकालभाविप्रत्ययविशेषापेक्षत्वात्()। धातूपसर्गकार्यञ्च सुट्(), तन्निमितत्वात्()। अतस्तेनान्तरङ्गत्वाद्()धातूपसर्गयोरुपादनमनन्तरमेव भवितव्यम्()। न ह्रसावुपजातनिमित्तो लकारस्य तावदुत्पतिं()त प्रयोक्षते। कुतः पुनरडभ्यासौ? इत्यभिप्रायेणाह--"किमर्थं पुनरिदमुच्यते" इत्यादि। इतरस्तु नैवेदमप्राप्तस्य सुटः प्रापणार्थमारभ्यते। किं तर्हि? कृतयोरडभ्यासयोस्तद्व्यवाये कत्पूर्वः सुङ्यथा स्यात्(), अकृतयोर्मा भूदित्येवमर्थमिति दर्शयितुमाह--"पूर्वम्()" इत्यादि। इतिकरणो हेत्वर्थः। तत्र धातोः पूर्वमुपसर्गेण योगः सुटोऽन्तरह्गतायां हेतुः पूर्वं सुट्करणस्य, तदपि "पश्चादडभ्यासौ" इति। कत्र्तव्याविति शेषः। यतो धातुः पूर्वमुपसर्गेण युज्यते, तेन धातूपसर्गयोः कार्यं नैव किञ्चिद निष्टमापद्यते? इत्याह--"उभक्तश्च सुडित्युक्तम्(), इत्यादि। पूर्वमेव ह्रभक्तत्वं सुटः प्रतिपादितम्(), अतस्तस्य करोतिग्रहणेनाग्रहणे सति पश्चाद्भवन्तौ सकारात्? परावडभ्यासावनिष्टे देशे स्यातान्(), ततश्चेष्टरूपं न सिध्यतीत्यभिप्रायः। अथ सत्यप्यस्मिन्? कथमयं दोषो न भवतीत्याह--"एत()स्मस्तु सत्यत एव" इत्यादि। अत्र तु सुत्रे सत्यत एव यावदडभ्यासव्यवायो न भवति तावत्? सुटा भवितव्यमेव। तस्मात्? पूर्वमडभ्यासौ कत्र्तव्यौ, ततस्तद्()व्यवाये सति कात्? पूर्वं सुडिति सर्वमिष्टं सिध्यति॥
बाल-मनोरमा
सुट्कात्पूर्वः ६७५, ६।१।१३१

सुट् कात्पूर्वः। षष्ठ()स्याद्यपादे इदं सूत्रम्। "संपरिभ्यां करोतौ भूषणे" "समवाये च" "उपात्प्रतियत्ने"त्यारभ्य "अनुदात्तं पदमेकवर्जमित्यतः प्रागिदमधिकृतं वेदितव्यमित्यर्थः। एवं च कात्पूर्व इत्युक्तेरभ्यासात्प्राङ्नं सुडिति भावः। नन्वभ्यासेन व्यवधानात्कथमिह उत्तरखण्डस्य सुट्, संस्करोतीत्यादौ अव्यहिते सुड्विधेश्चरितार्थत्वात्। किंच समस्करोदित्यत्राऽटा व्यवधानात्कथं सुट्। नह्रडागमः कृञ्भक्तःत्वात्। विकरणान्तस्यैवाङ्गत्वादित्यत आह-- अडभ्याससव्यवायेऽपीत्युक्तमिति। "वार्तिक"मिति शेषः। अटा अभ्यासेन च व्यवधानेऽपि संपर्यादिभ्यः परस्मात्कात्पूर्वः सुडित्यर्थः। इत्यादीति। सुडित्येवाधिकृतमस्तु, "कात्पूर्वः" इति "अडभ्यासव्यवायेऽपी"ति मास्त्वित्येवं भाष्ये प्रत्याख्यातमित्यर्थः। तदेवोपपादयितुं प्रतिजानीते -- तथा हीति। पूर्वं धातुरुपसर्गेण युज्यते इति। "पश्चात्साधनेने"ति शेषः। ततश्च पूर्वोपनिपतितधातूपसर्गसम्बन्धनिमित्तकं कार्यं पश्चादनुपतिष्यद्धातुप्रत्ययसंबन्धनिमित्तकात्कार्यादन्तरङ्गम्, प्रथमोपस्थितत्वात्। तदुक्तं भाष्ये-- "पूर्वं धातुरुपसर्गेणेति कृत्वा धातूपसर्गयोः कार्यमन्तरङ्ग" मिति। तदाह -- अन्तरङ्गत्वात्सुट्। ततो द्वित्वमिति। तथा सुटि कृते "स्कृ" इत्यस्य द्वित्वे उरदत्त्वे रपरत्वे "शर्पूर्वाः खयः" इति रेफसकारयोर्निवृत्तौ अभ्यासचुत्वे संचस्कारेति रूपसिद्धेः "कात्पूर्वः" इति, "अडभ्यासव्यवायेऽपी"ति च न कर्तव्यमिति भावः। एवं समस्करोदित्यत्रापि विकरणान्ताऽङ्गभक्ताऽडागमापेक्षयाऽन्तरङ्गत्वात्प्रथमं सुड्भविष्यतीति कृत्वा "अड्व्यवायेऽपी"त्यंशो न कर्तव्य इत्यूह्रम्। "पूर्वं धातुरुपसर्गेणे"त्याश्रयणे फलान्तरमप्याह -- एवं चेति। उक्तरीत्या अन्तरङ्गत्वात्सुटि कृते संस्कृ इत्यस्माल्लिटोऽतुसि "ऋतश्च संयोगादेर्गुणः" इति गुणे संचरस्करतुरिति सिद्ध्यति। "पूर्वं धातुः साधनेन युज्यते" इत्याश्रयणे तु चक्रतुरिति परिनिष्ठितस्य समित्युपसर्गयोगात्संयोगादित्वाऽभावाद्गुणस्याऽसिद्धिरिति भावः। ननु संचस्करिव, संचस्करिथ इत्यत्र च "कृ()सृ()वृ()भृ()"इति "ऋतो भारद्वाजस्ये"ति च इण्निषेधः स्यादित्यत आह-- कृसृभृवृसूत्रे इत्यादि। नन्वाशीर्लिङि संस्क्रियादित्यत्र "गुणोऽर्तिसंयोगाद्यो"रिति गुणः कुतो नेत्यत आह-- गुणोऽर्तीत्यादि। ननु तङि संस्कृषीष्ट इति लिङि, समस्कृत समस्कृत समस्कृषातामिति लुङि च "ऋतश्च संयोगादे"रिति इट् कुतो नेत्यत आह-ऋतश्चेत्यादि।

॥ इति बालमनोरमायाम् तनादयः॥

अथ तत्पुरुषसमासप्रकरणम्।

--------------------