पूर्वम्: ८।२।५५
अनन्तरम्: ८।२।५७
 
सूत्रम्
नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम्॥ ८।२।५६
काशिका-वृत्तिः
नुदविदौन्दत्राघ्राह्रीभ्यो ऽन्यतरस्याम् ८।२।५६

नुद विद उन्द त्रा घ्रा ह्री इत्येतेभ्यः उत्तरस्य निष्ठातकारस्य नकार आदेशो भवति अन्यतरस्याम्। नुद नुन्नः, नुत्तः। विद विन्नः, नित्तः। उन्द समुन्नः, समुत्तः। त्रा त्राणः, त्रातः। घ्रा घ्राणः, घ्रातः। ह्री ह्रीणः, ग्रीतः। ह्री इत्येतस्मादप्राप्तं नत्वम्, इतरेषां नित्यं प्राप्तं विकल्प्यते। विद विचारणे इत्यस्य विदेरिह ग्रहणम् इष्यते। एवं ह्युक्तम् वेत्तेस्तु विदितो निष्ठा विद्यतेर् विन्न इष्यते। विनतेर् विन्नश्च वित्तश्च भोगवित्तश्च विन्दतेः। इति।
न्यासः
नुदविदोन्दत्राघ्रह्वीभ्योऽन्यतरस्याम्?। , ८।२।५६

"समुन्नः, समुत्तः" इति। "अनिदिताम्()" ६।४।२४ इति नलोपः। "ह्यीत्यस्य" ["ह्यी" इत्यतस्य--काशिका, पदमञ्जरी च] इति। "ह्यी लज्जायाम्()" (धा।पा।१०८५३० इत्यस्य। "अप्राप्त्रः" इति। केनचिदविधानात्()। "इतरेषाम्()" इति। तत्र "नुद प्रेरणे" ["णुद प्रेरणे"--धातुपाठः] (धा।पा।१४२६), "उन्दी क्लेदने" (धा।पा।१४५७)--तयोः "रदाभ्याम्()" ८।२।४२ इति नित्यं प्राप्सम्()। "त्रैङ्? पालने" (धा।पा।९६५), "घ्रा गन्धोपादाने" (धा।पा।९२६)--एतयोः "संयोगादेः" ८।२।४३ इत्यादिना। "विद विचारणे" इत्यस्य विदेरिह ग्रहणमिध्यते" इति। कथं पुनरस्य ग्रहणमिष्यते, श्लुविकरणेन ह्यीत्यनेन ["ह्यीणा"--प्रांउ पाठः] साहचार्यात्()? नैतदस्ति; शविकरणेन नुदिना साहचर्याल्लाभार्थस्य विदेग्र्रहणप्रसङ्गात्()? एवं तह्र्रन्यतरस्यामित्येषा व्यवस्थितविबाषा, तेन विचारणार्थस्यैव भवितव्यम्(), नान्यस्य; यस्यैवं भवितव्यं तस्यैव ग्रहणं युक्तमिति स एव गृह्रते। कथं पुनज्र्ञायते--विचारणार्थस्य विदेर्यहणमिष्यते? इत्याह--"एवं हि" इत्यादि। इष्यत इति वक्ष्यमाणं प्रत्येकमभिसम्बध्यते। "निष्ठा" इत्यनेन निष्ठान्तमुपलक्षयतिः "वेत्तेः" इत्यादि। "विद ज्ञाने" (धा।पा।१०६४) इत्यस्य "विदितः" इत्येतद्रूपमिष्यते; नित्येट्त्वात्(), तस्येटा निष्ठातकारस्य व्यवधाने सति नत्वस्यासम्भवात्()। "विद्यतेः" इति। "विद सत्तायाम्()" (धा।पा।११७१) इत्यस्य श्यन्विकरतस्य [नास्ति--कांउपाठे] निष्ठान्तस्य "विन्नः" इत्येतद्रूपमिध्यते; "एकाचः" ७।२।१० इतीट्प्रतिषेधात्(); "रदाभ्याम्()" ८।२।४२ इत्यादिना च नित्यं नत्वविधानात्()। "विन्तेविन्नश्च वित्तश्च" इति। "विद विचारणे" (धा।पा।१४५०) इत्यस्य निष्ठान्तस्यैतद्रूपद्व्यमिष्यते; पूर्ववदिट्प्रतिषेधात्(), अनेन च सूत्रेण ८।२।५६ पक्षे नत्वविधानात्()। "भोगिवित्तश्च विन्दतेः" इति। विब्दतेरित्यनेन लाभार्थविदिं दर्शयति। तस्य हि "शे मुचादीनाम्()" ७।१।५९ इति नुमि कृते विन्दतीत्येतद्रूपं भवति। भोगवित्त इति--भोगे वित्तो भोगवित्तः, "सप्तमी" (२।१।४०) इति योगविभागात्? समासः। भोगग्रहणं चोपलक्षणमात्रम्()। प्रत्ययोऽयि गृह्रते। "विद्लृ लाभे" (धा।पा।१४३२) इत्यस्य भोगे प्रत्यये चार्थे वित्त इत्येतद्रूपं निष्ठायामिष्यते; "वितो भोगप्रत्यययोः" ८।२।५८ इति नत्वाभावस्य निपातनात्(), "यस्य विभाषा" ७।२।१५ इति निष्ठायामिट्प्रतिषेधाच्च। विन्दतेर्हि क्वसौ "विभाषा गमहनविदविशाम्()" ७।२।६८ इतीङ्()विभाषितः; "भोगवित्तश्च विन्दतेः" इति ब्राउवताऽर्थतौ भोगप्रत्ययाभ्यामन्यत्र विन्न इत्येतद्रूपमिष्यत इत्युक्तं भवति॥
बाल-मनोरमा
नुदविदोन्दत्राघ्राह्यीभ्योऽन्यतरस्याम् ८४४, ८।२।५६

नुदविदोन्द। ह्यीधातोरप्राप्ते, इतरेभ्यो नित्यं प्राप्ते न्तवविकल्पोऽयम्। रौधादिक इति। "विद विचारणे" इत्ययमित्यर्थः। वेत्तेस्त्विति। "विद ज्ञाने" इत्यस्येत्यर्थः। अयं सेट्, अनिट्केष्वनन्तर्भावात्। तदाह-- विदित इति। अत्र निष्ठातस्य इटा व्यवहितत्वान्नत्वं नेति भावः। विद्यतेर्विन्न इति। "विद सत्ताया"मित्ययमनिट्। "रदाभ्या"मिति नित्यं नत्वमिति भावः। उन्दीति। उदाहरणसूचनम्।

तत्त्व-बोधिनी
नुदविदोन्द्तराघ्राह्यीभ्योऽन्यतरस्याम् ६९२, ८।२।५६

नुदविदो। "रदाभ्यां" "संयोगादेरातः" इति नित्ये प्राप्ते, ह्यीत्यस्याऽप्राप्ते उभयत्र विभाषेयम्। वेत्तेस्त्विति। तथा च भाष्यम्--- वेत्तेस्तु विदितो निष्ठा विद्यतेर्विघ्न इष्यते। विन्तेर्विन्नश्च वित्तश्च भोगे वित्ततश्च विदन्तेः" इति। नुन्नः नुत्त इति। "अनिदिता"मिति नलोपः।