पूर्वम्: ८।२।८२
अनन्तरम्: ८।२।८४
 
सूत्रम्
प्रत्यभिवादेअशूद्रे॥ ८।२।८३
काशिका-वृत्तिः
वक्ष्यति प्रत्यभिवादे ऽशूद्रे ८।२।८३

अभिवादये देवदत्तो ऽहम्, भो आयुष्मानेधि देवदत्त३। पदाधिकारो ऽनुवर्तते एव। वाक्यग्रहणम् अनन्त्यस्य पदस्य प्लुतनिवृत्त्यर्थम्। टिग्रहणं व्यञ्जनान्त्यस्य अपि टेरचः प्लुतो यथा स्यात्, अग्निचि३तिति। प्रत्यभिवादे ऽशूद्रे ८।२।८३। प्रत्यभिवादो नाम यदभिवाद्यमानो गुरुराशिषं प्रयुङ्क्ते, तत्र अशूद्रविषये यद् वाक्यं वर्तते तस्य टेः प्लुत उदात्तो भवति। अभिवादये देवदत्तो ऽहम्, भो आयुष्मानेधि देवदत्त३। अशूद्रे इति किम्? अभिवादये तुषजको ऽहन्, भो अयुष्मानेधि तुषजक। स्त्रियाम् अपि प्रतिषेधो वक्तव्यः। अभिवादये गार्ग्यहम्, भो आयुष्मती भव गार्गि। असूयके ऽपि केचित् प्रतिषेधम् इच्छन्ति, अभिवादये स्थाल्यहं भोः, आयुष्मानेधि स्थालिन्। यावच् च तस्य असूयकत्वं न ज्ञायते तावदेव प्रत्यभिवादवाक्यम्। तस्मिंस्त्वसूयकत्वेन निर्ज्ञाते प्रत्यभिवादः एव न अस्ति, कुतः प्लुतः। तथा ह्युक्तम् असूयकस्त्वं जाल्म, न त्वं प्रत्यभिवादनम् अर्हसि, भिद्यस्व वृषल स्थालिनिति। अभिवादनवाक्ये यत् सङ्कीर्तितं नाम गोत्रं वा, तद् यत्र प्रत्यभिवादवाक्यान्ते प्रयुज्यते तत्र प्लुतिः इष्यते। इह न भवति, देवदत्त कुशल्यसि, देवदत्त आयुष्मानेधि इति। भो राजन्यविशाः वेति वक्तव्यम्। भो अभिवादये देवदत्तो ऽहम्, आयुष्मानेधि देवदत्त भोः३, आयुष्मनेधि देवदत्त भोः। राजन्य अभिवादये इन्द्रवर्मा अहं भोः, आयुष्मानेधि इन्द्रवर्म३न्, आयुष्मानेधि इन्द्रवर्मन्। विश् अभिवादये इन्द्रपालितो ऽहम् भोः, आयुस्मानेधि इन्द्रपालित३, आयुष्मानेधि इन्द्रपालित।
न्यासः
प्रत्यभिवादेऽशूद्रे। , ८।२।८३

"यदभिवाद्यमानो गुरुः" इत्यादि। अत्र सामान्योपक्रमेण विशेषस्यानभिधानाद्? यदिति नपुंसकलिङ्गेन निर्देशः। "आयुष्मानेधि देवदत्त३" इति। इदमत्रोदाहरणम्(); प्रत्यभिवादवाक्यत्वात्()। अत्र "अभिवादये देवदत्तोऽहम्()" इत्येतत्तु गुरोरभिवाद्यमानतां दर्शयितुमुपन्यस्तम्। अभिवाद्यमानो गुरुर्यामाशिषं प्रयुङ्क्ते स प्रत्यभिवादः। तत्रावश्यं गुरोरभिवाद्यमानता दर्शयितव्या; अन्यथा प्रत्यभिवादो न गम्येत। "एधि" इति। भवेत्यर्थः। "अस भुवि" (धा।पा।१०६५), लोट्(), मध्यमपुरुषैकवचनम्(), "सेह्र्रपिच्च" ३।४।८७, ध्वसोरेद्धावभ्यासलोपश्च" ६।४।११९ इत्येत्त्वम्(), "श्नसोरल्लोपः" ६।४।१११ इत्यकारलोपः, "हुझल्भ्यो हेर्धिः" ६।४।१०१ इति धिरादेशः। "वक्तव्यः" इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम्()--"सिपि धातो रुर्वा" ८।२।७४ इत्यतो मण्डूकप्लुतिन्यायेन वेत्यनुवत्र्तते, सा च व्यवस्थितविभाषा, तेन स्त्रियां न भविष्यतीति। "असूयकेऽपि" इति। असूयतीत्यसूयकः। यो गुरुमसाध्ब्या प्रवृत्त्या सामर्ष करोति स उच्यतेऽसूयक इति। "तस्मिन्()" इत्यादिना प्रतिषेध इष्यमाणोऽपि न वक्तव्य इति दर्शयति। यदा ह्रसावभिवादयिताऽसूयकत्वेन न निज्र्ञायते, तदा तेनाभिवाद्यो गुरुः प्रत्यभिवादने तस्य प्लुतं करोत्येव। यदा तु "असूयकोऽयं मां विहेडयितुकामः" इत्येवं विज्ञातो भवति, तदात्र प्रत्यभिवादना नास्त्येवेति किं प्रतिषेधेन! कथं पुनज्र्ञायते--तत्रासूयकत्वेन निज्र्ञाते प्रत्यभिवादो नास्ति? इत्याह--"तथा च" इत्यादि। केनाप्यविनीतेनोपगम्याविधिनाभिप्रायेणाभिवादयेऽयं भोः स्थालीत्येवमभिवादिते गुरुस्तस्यासूयकत्वमज्ञात्वा स्थालिञ्शब्दोऽयमस्य संज्ञेति मत्वा प्रत्यभिवादयन्? प्लुतं प्रयुक्तवान्()--"आयुष्मानेधि स्थालि३न्()" इति। अथ सोऽविनीत उक्तवान्()--नैष मम संज्ञा, मया दण्डिन्यायो विवक्षितः। ततो गुरुः प्लुतरहितं प्रत्यभिवादनं कृतवान्()--"आयुष्मानेधि स्थालिन्निति। पुनः स उक्तवान्()--न न मया दण्डिन्यायो विवक्षितः, संज्ञा ममैषेति; अथ स गुरुरसूयकत्वमस्य विज्ञायोनतवान्()--"असूयकस्त्वं जाल्म, न त्वं प्रत्यभिवादमर्हसि, भिद्यत्वं वृषल स्थालिन्()" इति। अथाभिवाद्यमानो यदा देवदत्त कुशल्यसि, देवदत्तायुष्मानेधीत्येवं प्रत्यभिवादं प्रयुङ्क्ते तदा कस्मात्? प्लुतो न भवति? इत्याह--"अभिवादनवान्ये" इत्यादि। अभिवाद्यतेऽनेनेत्यभिवादनम्(), अभिवादनञ्च तद्वाक्यञ्चेत्यभिवादनवाक्यम्()। तत्र तावत्? सङ्कोर्त्तितं संशब्दितं नाम देवदत्तोऽहमित्येवम्(), गोत्रम्()--वात्स्योऽहमित्येवम्()। यद्यत्र प्रत्यभिवादवाक्यस्यान्ते=अवसाने प्रयुज्यते तत्रायं प्लुत इष्यते। देवदत्त कुशल्यसीत्यादौ तु यदभिवादनवाक्ये सङ्कीर्तितं नाम देवदत्तशब्दः, तत्? प्रत्यभिवादनवाक्यस्यादौ प्रयुक्तम्(), नावसाने। तस्मात्? प्लुतो न भवति। कुतः पुनरेतल्लभ्यते? वेत्यनुवृत्तेः, व्यवस्थितविभाषाविज्ञानाच्च, प्राधान्याद्वा। इह हि प्रधाने कार्यसम्प्रत्ययात्? प्रधानस्य वाक्यस्यान्ते वत्र्तमानस्य टेः प्लुतेन भवितव्यम्()। प्राधान्यञ्च पदस्यार्थद्वारकम्()। प्रधानस्यार्थस्य यद्वाचकं पदं तत्? प्रधानं ["प्रधाने"--कांउ।पाठः] चार्थोऽभिवादयिता, तदनुग्रहार्थत्वात्? प्रत्यभिवादस्य। तथा ह्रभिवादयितुरनुगुहीतार्यं गुरुः प्रत्यभिवादं प्रयुङक्ते। तस्मादभिवादयिता संस्कार्यः, कुशलिताऽ‌ऽयुष्मत्तादीनि तस्यैव संस्कारकाणि। अतोऽभिवादयिता संस्कार्यत्वात्? प्रधानम्(), तस्य वाचकं पदं संज्ञाशब्दो गोत्रशब्दश्चेति तस्यैव वाक्यान्ते वत्र्तमानस्य टेः प्लुतो भवति। यद्यपि तिङन्तवाच्योऽर्थः साध्यः, न तु तस्य साध्यत्वमिह प्राधान्येनाश्रितम्(), किं तर्हि? संस्कारकत्वमेव, तस्मान्न तस्यापि प्राधान्यम्()। "भोराजन्यविशाम्()" इत्यादि। भो इति--स्वरूपग्रहणम्(), राजन्य इति--क्षत्रियनाम्नः, विश इति--वैश्यनाम्नः। अत्र भोःशब्दस्याप्राप्ते विभाषा, असंज्ञागोत्रशब्दत्वात्()। इतरेषां तु प्राप्ते; संज्ञाशब्दत्वात्()॥
बाल-मनोरमा
प्रत्यभिवादेऽशूद्रे ९५, ८।२।८३

प्रत्यभिवादेऽशूद्रे। "वाक्यस्य टेःप्लुत उदात्त" इत्यधिकृतम्। अशूद्र इति च्छेदः। न शूद्रः अशूद्रः=द्विजातिः। तद्विषयः प्रत्यभिवादः=विधिवदभिवादयमानं प्रति विधिवदाशीर्वचनम्। भावे घञ्। अस्मिन् प्रत्यभिवादे विषये यद्वाक्यं तस्य टेः प्लुतः स्यात्स चोदात्त इत्यर्थः। अभिवादविधिमाह--आपस्तम्बः-"दक्षिणं बाहुं श्रोत्रसमं प्रसार्य ब्राआहृणोऽभिवादयीत, उरःसमं राजन्यः, मध्यसमं वैश्यः, नीचैः शूद्रः। "प्राञ्जलि" इति। "तिष्ठन्ताप्रातरभिवादमभिवादयीतासावहं भोः" इति च। "असा" विति स्वनामनिर्देशोऽभिमतः। "देवदत्तोऽहं भो" इति ब्राउवन् अभिवादम्ाशीर्वचनम्। अभिवदायीत=वक्तव्यत्वेन विज्ञापयेत्। ततश्च यथा वर्णं दक्षिणं वाहुं प्रसार्य "अभिवादये देवदत्तोऽहं भोः" इति ब्राऊयादित्यर्थः। अयमभिवादनप्रकारः। प्रत्यभिवादनप्रकारस्तु मनुना दर्शितः-आयुष्मान् भव सौम्येति विप्रो वाच्योऽभिवादने। अकांरश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरः प्लुतः॥" इति। अत्र नाम्नो।ञन्ते इति वचनादायुष्मान् भव सौम्येत्यनन्तरमबिवादयमानस्य नाम संबुद्ध्यन्तं प्रयोक्तव्यमिति स्मृत्यन्तरसिद्धमनुगृहीतं भवति। अस्य नाम्नोऽन्ते अक#आरश्चा वाच्यः=प्रयोज्यः। तस्मादकारात्पूर्वाक्षरः=पूर्वोऽच् प्लुतः प्रयोक्तव्य इत्यर्थः। एवंच "आयुष्मान् भव सौम्य देवदत्त३ अ" इति प्रत्यभिवादवाक्यं संपन्नमिति स्थितिः। "अभिवादये देवदत्तोऽहट"मिति अभिवादवाक्यप्रदर्शनम्। भो इत्यस्याप्युपलक्षणम्। आयुष्मान् भव देवदत्त ३ इति प्रत्यभिवादवाक्यप्रदर्शनम्। "अभिवादये" इत्यस्य अबिवादमाशीर्वचनं वक्तव्यत्वेन विज्ञापयामीत्यर्थः। भवेत्यनन्तरं सौम्यशब्दस्य देवदत्त इत्यनन्तरमकारस्याप्युपलक्षणम्। अत्र देवदत्तशब्दे तकारादकारस्य प्लुतः। आयुष्मत्त्वस्य विधेयत्वात्संबोधनविभक्त्यभावः। अत्र प्रत्यभिवादवाक्ये शर्मान्तं ब्राआहृणस्येत्यादि न भवति, एचोऽप्रगृह्रस्येति सूत्रे शर्मादिशब्दं विना केवलस्य नाम्नो भाष्ये उदाहरणात्, उक्तमन्वादिस्मृतिविरोधाच्च। "अशूद्र इति किम्?"कुशल्यसि तुषजक" इति भाष्यम्। एवंच शूद्रविषये आयुष्मान् भवेति न प्रयोक्तव्यमिति गम्यते। "अशूद्रस्त्र्यसूयकेष्विति वक्तव्य"मिति वार्तिकम् शूद्रविषय एव प्लुतप्रतिषेधो न भवति, किंतु शूद्रवत्स्त्रीविषये असूयकविषयेऽपि प्लुतप्रतिषेधो भवतीति वक्तव्यमित्यर्थः

तत्र शूद्रविषये उदाह्मतम्। स्त्रीविषये वार्तिकं विभज्यार्थतः संगृह्णाति--स्त्रियां नेति। स्त्रीविषयकप्रत्यभिवादवाक्ये उक्तो विधिर्न भवतीत्यर्थः। "अभिवादये गाग्र्यह"मिति अभिवादनवाक्ययोर्नाम्नो गोत्रस्य च विकल्पः। तदाह-नाम गोत्रं वेति। अत्र नामशब्देन "द्वादशेऽहनि पिता नाम कुर्या"दिति विहितं नामैव गृह्रते। अत एव "आयुष्मान्भव दण्डि"न्नित्यादौ प्लुतो नेति भाष्ये स्पष्टम्। "नाम गोत्रं वे"ति परिगणनस्य प्रयोजमाह--नेहेति। आयुष्मानेधीति। अस्तेस्सिप् हिः। ध्वसोरित्येत्वं, हेर्धिः। "श्नसोरल्लोपः"। अत्र धकारादिकारस्य न प्लुतः, अनामत्वादगोत्रत्वाच्च।

भोराजन्यविशाम्। भोस्शब्दस्य राजन्यवैश्यवाचकनाम्नोश्च टेः प्लुतो वा स्यादिति वक्तव्यमित्यर्थः। भोस्शब्दस्याऽप्राप्ते इतरयोस्तु नामत्वात्प्राप्ते विभाषेयम्। तत्र भोस्()शब्दे यथा-आयुष्मनेधि बोः ३। देवदत्त भोः" इति भाष्यम्। अत #एव प्रत्यभिवादवाक्यान्ते नाम्नोऽनन्तरं भोश्शब्दस्य भवशब्देन एधिशब्दस्य च प्रयोगाविकल्पो गम्यते। राजन्ते यथा-आयुष्मानेधि इन्द्रवर्म३न्, इन्द्रवर्मन्। वैश्ये यथा-आयुष्मनेधि इन्द्रपालित३, इन्द्रपालित इति भाष्यम्। अत एव भाष्यात् प्रत्यभिवादवाक्ये शर्मान्तं ब्राआहृणस्य वर्मान्तं क्षत्रियस्य पालितान्तं वैश्यस्येति विधयोऽपि प्रवर्तन्त इति गम्यते। उक्तभाष्यमन्वादिस्मृतिविरोधाद्विकल्पः। अत्र भाष्ये अपर आहेत्युक्त्या प्रत्यभिवादे सर्वस्यैव नाम्नो भोश्शब्द आदेशो वक्तव्य इति पठित्वा आयुष्मानेधि भो इत्येतावदेव सर्वत्र प्रत्यभिवादवाक्यमित्युक्तम्

तत्त्व-बोधिनी
प्रत्यभिवादेऽशूद्रे ७६, ८।२।८३

प्रत्यभिवादे। इह "प्रत्यभिवाद"शब्देन आशीर्वचनमुच्यते। अशूद्रे किम्?, अभिवादये तुषजकोऽहम्भोः। आयुष्मानेधि तुषजक। आयुष्मानेधीति। अस्तेः सेर्हिः। "ध्वसो"रिति एत्वम्। "हुझल्भ्यो हेर्धिः"। "श्नसोरल्लोपः"। नाम गोत्रं वेति। गोत्रस्योदाहरणम्-"अभिवादये गाग्र्योऽहम्भोः, आयुष्मानेधि गाग्र्या" इत्यूह्रम्।