पूर्वम्: ८।३।११०
अनन्तरम्: ८।३।११२
 
सूत्रम्
सात्पदाद्योः॥ ८।३।१११
काशिका-वृत्तिः
सात् पदाद्योः ८।३।१०९

सातित्येतस्य पदादेश्च मूर्धन्यादेशो न भवति। विभाषा साति कार्त्स्न्ये ५।४।५२। प्रत्ययसकारत्वात् प्राप्तिः, पदादेश्च आदेशसकारत्वात्। सात् अग्निसात्। दधिसात्। मधुसात्। पदादेः दधि सिञ्चति। मधु सिञ्चति।
न्यासः
सहेः पृतनर्ताभ्यां च। , ८।३।१११

असाडर्थम्(), अनिणर्थञ्च। "पृतनाषाहम्()" इति। "छन्दसि सहः" ३।२।६३ इति ण्विः। "ऋतीषाहम्()" इति। "अन्येषामपि दृश्यते" ६।३।१३६ इती दीर्घः। "ऋतीषहम्()" इति। "कृत्यल्युटो बहुलम्()" ३।३।११३ इति क्विप्()। "नहिवृतिवृषिण्यधिरुचिसहितनिषु क्वौ" ६।३।११५ इती दीर्घत्वम्()। "संहितायामेतद्दीर्घत्वं षत्वञ्च" इति। उभयोरपि विधाने संहिताधिकाराद्दीर्घस्य प्रतिपादनम्()--ऋतीशब्दस्यायं प्रयोग इति प्रतिपादनार्थम्()। अन्यथा हि ऋतिशब्दान्तरमेवेदभित्याशङ्क्येत। ["ह्रतिशब्दान्तर"--प्रांउ।पाठः] यस्तु मन्यते--वर्णव्यत्ययेनैवात्र चत्वं भविष्यति, तत्? किमेतदर्थेन वोगविभागेनेति, तं प्रति षत्वस्य सांहितकत्वं प्रतिपादितम्()। यदि हि "व्यत्ययो बहुलम्()" ३।१।८५ इति षकारः क्रियते, ततोऽसंहितायामेव स्यात्(), न हि तत्र संहिताधिकारोऽस्ति। तस्मात्? संहिताधिकारे यथा स्यादिति योगविभागः कत्र्तव्य इति भावः। "अनुक्तसमुच्चयार्थः" इति। न केवलं साङ्भूतस्येण्कोः परस्येति, अपि तु पृतनत्र्ताभ्याञ्च षत्वं भवतीति। ये तु योगविभागं न कुर्वन्ति, ते ऋतीबहमित्यर्थश्चकारः समुच्चयार्थं इति वर्णयन्ति॥